चन्द्रिका-७०
राज्ञ्यासह
स्वप्रकृतीः स्वयमेव राजा
सप्रश्रयं ह्यससभाजत राजसौधे ।
चन्द्रः नभस्युडुगणान् दयितान् ससन्ध्यः
सुस्वागतं न किमसौ वदति प्रदोषे ॥ २५० ॥
कन्याद्वयी
परिणये धनिकैश्च दीनैः
औद्वाहिकैर्बहुविधैरभिवर्षिताभूत्
।
आशीर्भिरीप्सितफलप्रदवेदवाक्यैः
नोपायनं
खलु सुखाय यथा सदाशीः ॥ २५१ ॥
सन्तर्पयन्ति
सकलान् स्म नरेशसूदाः
चोष्यैश्च
लेह्यलवणैः वरभक्ष्यभोज्यैः ।
पेयद्रवैः
मधुरचर्वणयोग्यपूगैः
सत्कृत्य सादरममूल्यनवोपदाभिः ॥ २५२ ॥- - - -