Saturday, June 25, 2016

Sanskrit blog: Chandrika (A Fairy tale)-43

चन्द्रिका-४३

 वृथास्मदीयं सकलं प्रसाधनं
 विनापि तेनेयमुषेव दीपयेत् ।
 इति ब्रुवाणा ललना हतेप्सिताः
 न गूहितुं शेकुरवार्यमत्सरम् ॥ १६४ ॥

रथे नृपावाससमीपमागते
बद्धाञ्जलिः प्रत्युदगात्ससम्भ्रमम् ।         
वहन् रथस्थां वनितां स्वदृष्टिभिः
राजप्रतीहारगणः सुशिक्षितः ॥ १६५ ॥

सौभाग्यवान्नूनमिमां मनोहरां
नृपस्य पुत्रो वरयेत् हरीच्छया ।
प्रजल्पतीत्थं बहुशो मिथो जने
रथात्प्रसन्नावततार चन्द्रिका ॥ १६६ ॥
- - - - 

Saturday, June 18, 2016

Sanskrit blog: Chandrika (A Fairy tale)-42

चन्द्रिका-४२

दृष्टिप्रसूनैरनुरागसौरभैः
तामर्चमर्चं प्रथमानयौवनाः ।
स्थिताः ध्वजालङ्कृतराजपद्धतौ
न लेभिरे तृप्तिमनङ्गचोदिताः ॥ १६१ ॥

कन्याः कुलीनाः गुणरूपशोभिताः
समानकामाः नृपपुत्रलोभने ।
म्लानत्वमापुः प्रसमीक्ष्य चन्द्रिकां
कुशेशयानीव दिनात्यये भृशम् ॥ १६२ ॥

कस्यात्मजेयं नरपस्य सुन्दरी
कुतो रथोऽयं सुरयानसन्निभः ।
यदीक्षते राजसुतो मनागिमां
भवेदनङ्गज्वरबाधितो ध्रुवम् ॥ १६३ ॥
- - - - 

Saturday, June 11, 2016

Sanskrit blog: Chandrika ( A Fairy tale)-41

चन्द्रिका-४१

भूयाच्छुभं ते गमने मतिं कुरु
प्रसन्नवक्त्रा स्मितदीप्तपद्धतिः ।
इति ब्रुवन्ती दिवमुत्पपात ह
प्रसह्य देवी चपलेव भास्वरा ॥ १५८ ॥  

मार्जालमापृच्छ्य सखायमुत्सुका
रथान्तरे रत्नकुथास्तृते तले ।
निविश्य सूतम् विनयेन चन्द्रिका
दिदेश गन्तुं नृपसौधमञ्जसा ॥ १५९ ॥

रथ्यासु पौरा ललनां रथस्थिता-
मवेक्ष्य तारापथतः समागताम् ।
चन्द्रांशुमूर्तिं निशि विस्मयाकुलाः
तां निष्कलङ्कां नियतं हि मेनिरे ॥ १६० ॥
- - - - 

Saturday, June 4, 2016

Sanskrit blog: Chandrika (A fairy tale)-40

चन्द्रिका-४०
अलञ्चकारारुणवर्णचर्चिते
तस्याः पदे स्फाटिकपादुकाद्वयं
रम्यं घनीभूतशशिप्रभानिभम् ।
कामप्यनूह्यश्रियमावहन्निजाम् ॥ १५५ ॥

अयं दिवास्वप्न इति भ्रमे स्थितां
जगाद देवी स्मितपूर्वमादरात् ।
वत्से रथेऽस्मिन् व्रज राजमन्दिरं
तुरङ्गमैः सारथिना च सज्जिते ॥ १५६ ॥

परं तु मा विस्मर यामदुन्दुभिः
निशीथमाख्याति न यावदञ्जसा ।
तावन्निवर्तस्व गृहं नृपालयात्

नो चेत्विनश्येत्सकलं च कल्पितम् ॥ १५७ ॥ 
- - - -