Saturday, March 26, 2016

Sanskrit blog: Chandrika ( A Fairy Tale)-30

चन्द्रिका-३०

श्लाघित्वा स्वसुतविवक्षितं नृपालः
सम्मन्त्र्य स्वहितजनैः विवाहकार्ये ।
पुत्रार्थे परिणयघोषणामसाध्नोत्
एवं सः नगरभटैः प्रगे विधेयैः ॥ १२४ ॥  

भोः पौराः श्रुणुत नृपस्य घोषणां भोः
उद्वाहः नृपतनयस्य निश्चितोऽस्ति ।
प्रासादं निशि समलङ्कृताः कुमार्यः
आयान्तु त्वरितपदेन पौर्णिमास्यां ॥ १२५ ॥

युष्मास्वेव नृपसुतः प्रदोषकाले
धन्यां काञ्चिदननुमेयचारुरूपाम् ।
ज्योत्स्नायां वरयति पौरनृत्यरङ्गे
आयान्तु त्वरितपदेन पौरकन्याः ॥ १२६ ॥

 इत्येवं नरपतिघोषणां निशम्य
 कन्यामातरपितरौ प्ररूढमोहौ ।
 सर्वौ स्वां दुहितरमीश्वरानुकूल्यात्
 ईहेते स्म नृपसुतकङ्कणात्तभाग्याम् ॥ १२७ ॥
- - - - 

Saturday, March 19, 2016

Sanskrit blog: Chandrika ( A Fairy tale)-29

चन्द्रिका-२९

पुत्रः स्वाद्वतिसुखदं निशम्य वाक्यं
मानार्थं सपदि नियन्त्रितानुभावः ।
स्वोद्वाहं निरुपमकन्ययानुमेने
तारुण्ये परिणयवाक् सुखावहा वै ॥ १२० ॥

सद्वंश्याः तनय चिनोम्यहं त्वदर्थं   
सद्वृत्ताः रुचिरमुखीश्च राजपुत्रीः ।
तासु त्वं वरय यदृच्छया मनोज्ञां
कन्यां या तव भविता हि धर्मपत्नी ॥ १२१ ॥

इत्युक्तः सविनयमब्रवीत्तनूजः
ओषध्यः गहनवनान्तरे न किं स्युः ।
अब्धौ किं वदतु लभामहे न मुक्ताः
भूगर्भे न भवति किं प्रशस्तवज्रः ॥ १२२ ॥

व्यासस्य प्रथितमुनेः किमाभिजात्यं
बालघ्नः सगरसुतः न किं कुलीनः ।
विश्वासो मितचयने न मेऽस्ति तात
पुर्यां ते तृणकुटजेऽपि मे प्रिया स्यात् ॥ १२३ ॥
- - - - 

Saturday, March 12, 2016

Sanskrit blog: Chandrika (A Fairy tale)-28

चन्द्रिका-२८

तत्रासीत्कथितमहापुरे नृपालः
सद्वृत्तः प्रथितयशाः गुणाभिरामः ।
चन्द्राख्यः स्वविषयपालने धुरीणः
सन्तुष्यन् प्रियहितकर्मभिः स्वपौरान् ॥ ११६ ॥

तस्यासीत् मदननिभो युवा तनूजः
विद्यावान् विनयखनिःत्रिविक्रमाख्यः
यं दृष्ट्वा पुरललनागणः प्रदध्यौ
सासूयं वरयति कामयं सुधन्याम् ॥ ११७ ॥

चन्द्रस्तं तनुजमपूर्वरूपभाजं
तारुण्ये निरुपमशोभया ज्वलन्तम् ।
द्रष्टुं द्राक् समुचितकन्यया समेतम्
दाम्पत्ये समरसशालिनं व्यकाङ्क्षीत् ॥ ११८ ॥

पुत्रं सोऽगदतनुरागपूर्णवाचा
विद्यायाः समधिगतोऽसि वत्स पारम् ।
तेऽतोऽहं परिणयकाल इत्यवैमि
तन्वीं त्वं सदृशगुणां वधूं वृणीष्व ॥ ११९ ॥
- - - - 

Saturday, March 5, 2016

Sanskrit blog: Chandrika (A Fairy tale)-27

चन्द्रिका_२७

दीयते यदि पयो निजपात्रे
सत्वरं पिबति मीलितनेत्रः ।
चिन्तयन्निव धरा लयमीयात्
तेन किं मम पयो यदि लब्धम् ॥ ११२ ॥

चन्द्रिकाङ्कमधिरुह्य दिनान्ते
कन्दुकाकृतिमवाप्य स शेते ।
मूकजन्तुरनुरागनिबद्धः
स्निह्यति ह्यतिशयेन मनुष्ये ॥ ११३ ॥

मूषकान् निशि हिनस्ति सखेलं
पाककोष्ठविघसादनदक्षान् ।
प्रीणयन् स्वकलया निजगोप्त्रीं
चन्द्रिकां सपदि मूषकभीताम् ॥ ११४ ॥

इत्थमीप्सितपरस्परबन्धौ
तौ दिनान्क्षपयतः कृतकृत्यौ ।
कोऽ‍वगच्छति हरेरभिलाषं
मित्रताह्यसहजापि सुखान्ता ॥ ११५ ॥
- - - -