Saturday, September 3, 2016

Sanskrit blog: Chandrika (A Fairy tale)-53

चन्द्रिका-५३

व्यलपतित्थमवेक्ष्य स पादुकां 
कथमसि त्वमिहाद्य निशामुखे ।
सुमपदां स्खलितां च विसृज्य ताम्
उपवने पदपांसुभिरावृता ॥ १९९ ॥

कथय कुत्र गता मम हृत्प्रिया
कथय नाम कुलं च मम स्त्रियाः ।
कथमहो मम मानसनायिकां
पथि विहाय वने न विलज्जसे ॥ २०० ॥

इतरथा न भवेत्तव दर्शनं
मम गतिर्हि भवेदतिदुस्सहा ।
नियतिरेव गतस्य तु कारणं
लघयसि त्वमिमां मम वेदनाम् ॥ २०१ ॥

निजसुतं विलपन्तमनर्गलं
सपदि सान्त्वयितुं धरणीपतिः।
अवदतात्मज मा भव कातरः
प्रियतमामचिरात्परिणेष्यसे ॥ २०२ ॥   
- - - -       

No comments:

Post a Comment