Saturday, October 25, 2014

Sanskrit blog: Humour-108

हास्यसीकरः-१०८



ब्रह्मदत्तः वदान्यः इति प्रख्यातः आसीत् । कश्चन पुरुषः ब्रह्मदत्तस्य गृहमागत्य ब्रह्मदत्तमवदत्, “आर्य! भवान् दयालुः दानपरः इति मम श्रितिपथमागतम् । अतः त्वां प्रार्थयामि । कश्चन निर्गतिकः कुटुम्बकः कृच्छ्रे पतितः अस्ति । यदि सः स्वगृहस्य शतरूप्यकमितं मासिकभाटकं श्वः पूर्वं गृहस्वामिने न दास्यति चेत् गृहस्वामिना गृहात् कुटुम्बसहितं सः निष्कासितः भविष्यति । दीनबन्धुं भवन्तं तस्य साहाय्यं कर्तुं प्रार्थयामि । भवान् कृपां करोतु“ इति । वदन्नेव रोदितुमपि प्रारभत । ब्रह्मदत्तः तं आश्वास्य, “आर्य! निस्संशयं तव मित्रस्य साहाय्यं करोमि । भवान् कः?” आगन्तुकः रुदन्नेव अवदत्, “भोः! अहं तस्य गृहस्वामी अस्मि” ।   
- - - - 

Saturday, October 18, 2014

Sanskrit blog: Song of a bullock-cart driver



शाकटिकगीतम्

पश्यन्तौ श्यामाम्बुवाहान् मनोज्ञान्
नीलाकाशे चञ्चलास्पष्टरूपान् ।
चूतान् नीपान् पुष्पितानत्र मार्गे
यातं गावौ यातमध्वा सुदीर्घः ॥ १ ॥

जिघ्रन्तौ आमोदवत्पुष्पवृन्दान्-
वन्यान् रथ्यापार्श्वभागप्ररूढान्
मन्ये शीघ्रं गच्छथो ज्ञातमार्गे
यातं गावौ यातमध्वा सुदीर्घः ॥ २ ॥

शृण्वन्तौ मद्गायनं हृत्समुत्थम्
कांस्यग्रीवाकिङ्किणीनादतालम्
मत्तालीझङ्कारतन्त्रीसमेतम्
यातं गावौ यातमध्वा सुदीर्घः ॥ ३ ॥

वारं वारं स्पृश्यमाणौ कराभ्याम्
ईशास्तित्वस्मारणार्थं मयैवम् ।
नो चेन्मन्दं पादरम्हो भवेद्वै
यातं गावौ यातमध्वा सुदीर्घः ॥ ४ ॥

घोषे बाला स्वागतं व्याहरन्ति
शादं क्षेत्रादाहृतं नव्यमार्द्रं
अस्मद्गेहे संभ्रमादत्स्यथो द्राक् ।
यातं गावौ यातमध्वा सुदीर्घः ॥ ५ ॥
- - - - 

Saturday, October 11, 2014

Sanskrit blog: Humour-107

हास्यसीकरः-१०७



स्त्री: यदि तव भर्ता तुभ्यं न प्रियः, कुतः त्वं तं न जहासि?
भार्या: यतः अहं मम भर्तुः प्रियं किञ्चिदपि कार्यं न चिकीर्षामि । 
- - - - 

Sunday, October 5, 2014

Sanskrit blog: So said Timmu, the dullheaded

मूढतिम्मुरुवाच



चिन्तयालं जना स्निह्यन्ति मयि नेति
पित्रोः शिशुर्भवान् स्पर्धी परेषाम् ।
सर्वे कुटुम्बिनः समयस्तु कस्यास्ति
तव कथाश्रवणाय मूढतिम्मो ॥ ६४९ ॥

Translated from DVG”s “Mankutimmana kagga” in Kannada
ಜಗವೆನ್ನ ಮುದ್ದಿಸದೇಕೆಂದು ಕೊರಗದಿರು
ಮಗುವು ಪೆತ್ತರ್ಗೆ ನೀಂ ಲೊಕಕೇ ಸ್ಪರ್ಧೀ |
ಹೆಗಲಹೊರೆ ಹುಟ್ಟಿದರ್ಗೆಲ್ಲಮಿರುತಿರೆ ನಿನ್ನ
ರಗಳೆಗಾರಿಗೆ ಬಿಡುವೊ ಮಂಕುತಿಮ್ಮ || ೬೪೯ ||
- - - -