Follow by Email

Monday, October 28, 2019

वृत्तकुसुमार्पणम्



             

               
वृत्तकुसुमार्पणम्
पूर्वार्धम्
योगमुद्रामुपारूढं नरसिंहं हृदि स्मरन् ।
वृत्तलक्षणजिज्ञासुः नामसंकीर्तनं हरेः ॥
कुर्वन्नाप्नोत्ववगमं वृत्तानां लक्षणे जवात् ।   
इति सञ्चिन्त्य यतते कर्तुमेषां कृतिं ह्रिया ॥
गोरूरुग्रामसञ्जातः शेल्वपिल्लैसुतोऽल्पधीः ।
मूर्त्युपाह्वः श्रीनिवासः सावधानं निबोधत ॥
प्रारम्भकांशाः शास्त्रस्य पूर्वार्धेऽत्र दर्शिताः ।
ह्रस्वाक्षरोच्चारणाय यः कालः समपेक्षितः ॥
स एकमात्रामित इत्युच्यते पूर्वसूरिभिः। 
दीर्घाक्षरमनुस्वारविसर्गान्ताक्षराणि च ॥  
मात्राद्वयमितानीति च्छन्दःशास्त्रे निगद्यते।
संयुक्ताक्षरपृष्ठस्थं द्विमात्रमिति गण्यते ॥  
ह्रस्वाक्षरं चेत्त्पादान्ते द्विमात्रं तदपि स्मृतम् ।
एकमात्रामितः कालः लघुरित्यादृतैर्बुधैः ॥
द्विमात्राप्रमितस्तावद्गुरुरित्यभिधीयते ।
छन्दसां लक्षणं प्रोक्तुं सुकरं भवतादिति ॥
अक्षराणि त्रिशः पद्ये गुम्फितान्यादितः क्रमात् ।
तमक्षरगणं प्राहुः वृन्दं त्र्यक्षरसम्मितम् ॥ 
लघ्वादिर्यगणः प्रोक्तः रगणः लघुमध्यमः ।
लघ्वन्तस्तगणश्चाथ गुर्वादिर्भगणः स्मृतः ॥  १०
गुरुमध्यस्तु जगणः गुर्वन्तः सगणो भवेत् ।
नगणः स्यात्सर्वलघुर्मगणो लघुवर्जितः ॥  ११
यत्रावश्यो विरामः स्यात् पद्यवाचनकर्मणि ।
तत्स्थानं यतिमाहुः सा पादान्ते नियता भवेत् ॥  १२
यतिस्थाने पदान्तस्स्यादितिच्छन्दोविदां मतम् ।
प्रदर्श्यन्तेऽत्रोत्तरार्धे हृद्यवृत्तानि कानिचित् ॥ १३
समवृत्तस्याद्यपादे दृश्यते वृत्तलक्षणम् ।
यत्राक्षरगणस्याद्यमक्षरं गणसूचकम् ॥ १४
"यशस्विन्" यगणं ब्रूते "रक्ष मां" रगणं तथा । 
"तृप्तोऽस्मि" तगणं वक्ति "सततं" सगणं तथा ॥ १५
भगणं "भार्गव"पदं सूचयत्यत्र पश्यत।  
"जयन्त"पदमेवं हि जगणं सूचयेदिह ॥ १६
तथा "निमिष"शब्दस्तु निर्दिशेन्नगणं स्तुतौ । 
"माजाने" मगणं ब्रूते "हरे" लघुगुरू तथा ॥  १७
स्तोत्रे "विष्णो"ऽथवा "शौरे" गुरुद्वन्द्वे प्रयुज्यते ।
पुनरुक्तिनिरोधार्थं युज्यन्तेऽन्यपदानि च ॥  १८
क्वचिल्लघुगुरुद्वन्द्वं गुरुद्वन्द्वं गुरु क्वचित् । 
पृथङ्निर्दिश्यते तत्र हेतुर्यतिनिबन्धनम् ॥ १९
पद्योत्तरार्धे दत्तौ स्तः यत्तिःवृत्तस्य नाम च ।
गुणाश्च वसवश्चैव मुनयोऽन्यपदानि च । २०
संख्यावाचीनि युज्यन्ते यतिनिर्देशने क्वचित् ॥
न सर्वेषां तु वृत्तानां लक्षणं दिश्यतेऽधुना ॥ २१
निर्दिशेदन्यवृत्तानि यथानिर्दिष्टमञ्जसा ।
बाल एव यथाशक्ति च्छन्दोव्युत्पत्तिहेतुना ॥   २२
उत्तरार्धम्
तृप्तोऽस्मि तुष्टोऽस्मि जयन्त शौरे
गोविन्द नारायण कृष्ण विष्णो ।
नाम्नेन्द्रवज्रेति वदन्ति लोके
छन्दोविदः वृत्तमिदं प्रतीच्छ ॥ २३
जयन्त तुष्टोऽस्मि जयेश शौरे
रमेश लक्ष्मीश मुकुन्द विष्णो ।
उपेन्द्रवज्रेति बुधैः प्रतीतं 
समर्प्यते पादयुगे तवात्र ॥  २४
शौरे विष्णो राम हे रक्ष शार्ङ्गिन् 
त्रातासि त्वं मत्प्रमादान् क्षमस्व ।
भिद्येतादौ देव वर्णैश्चतुर्भिः
शालिन्याख्यं वृत्तमेतत्प्रतीच्छ ॥ २५
रक्ष मां निमिष राम हे हरे
कृष्ण शार्ङ्गधर राघव प्रभो ।
आमनन्ति कवयो रथोद्धतां-
वृत्तमेतदधुना समर्प्यते ॥ २६
रक्ष मां निमिष भार्गव शौरे
राम हे वरद केशव कृष्ण ।
स्वागतेति विदितं कविवृन्दे
सन्निधौ तव समर्पितमद्य ॥ २७
भार्गव भावन भूषण शौरे
श्रीधर केशव मोहनमूर्ते ।
दोधकमेतदितिप्रथितं भोः 
स्वीकुरु मामव राघव विष्णो ॥  २८
तृप्तोऽस्मि तुष्टोऽस्मि जयन्त शौरे
जनेश तोत्रास्त्र जयेश विष्णो ।
उपेन्द्रवज्रा क्वचिदिन्द्रवज्रा
नाम्नोपजातिः कृपया प्रतीच्छ ॥ २९
भार्गव विष्णो निमिष यशस्विन्
भूषण शौरे दमय ममत्वम् ।
भूतयतिस्स्यादिह नरकारे
मौक्तिकमालां वरद गृहाण ॥ ३०
रक्ष मां निमिष जयन्त विष्णो
प्रत्यहं वितर मनः प्रशान्तिम् ।
अक्षरैर्भवति यतिस्तु षड्भिः
चन्द्रिकाख्यनववृत्तमवेहि ॥ ३१
रक्ष मां निमिष भार्गव शौरे
पुष्कराक्ष मधुसूदन कृष्ण ।
नूत्नवृत्तमिह नन्दननाम
प्रार्थये भवतु तेऽमितभोग्यम् ॥ ३२
जयन्त तृप्तोऽस्मि जयेश राम हे
मुकुन्द गोविन्द रमेश मध्वरे ।
वदन्ति वंशस्थमिदं पुरातनाः
समर्पयाम्यत्र तवांघ्रिपङ्कजे ॥   ३३
सततं सुमते सदयं सहसे
मम मन्दमतिं मम धार्ष्ट्यमहो । 
कथयन्ति हि तोटकमेतदिति 
प्रथिताः कृपयानुगृहाण हरे ॥  ३४
निमिष भार्गव भावन राम हे
वरद केशव माधव रक्ष माम् ।
द्रुतविलम्बितमद्य मयार्पितं
सदयमद्य गृहाण बलानुज ॥ ३५
तृप्तोऽस्मि तुष्टोऽस्मि जयन्त राम हे
गोविन्द लक्ष्मीश नमामि मध्वरे ।
मयेन्द्रवंशं गदितं विरच्यते
प्रतीच्छ देवेश रमेश हे हरे ॥ ३६
यशस्विन् यथेष्टं यदीत्थं यतेऽहं
कवित्वे क्षमस्व प्रभो वेङ्कटेश ।
भुजङ्गप्रयाते मदीयं प्रयासं
प्रतीच्छात्र दोषानशेषान्क्षमस्व ॥  ३७
निमिष यशस्विन् नियम यतेऽहम्
मम कविताया कुसुममकिञ्चित् ।
तव पदयुग्मे सपदि निधातुं
वितरतु तोषं कुसुमविचित्रा॥ ३८
राम हे रक्ष मां रंहसा राविणम्
कृच्छ्रगर्ते गतं श्रीनिधे मध्वरे ।
पण्डिता मण्डिता सृग्विणीं मन्वते
वृत्तमेतत्प्रभो स्वीकुरु प्रार्थये ॥ ३९
सततं भार्गव रक्ष मां यशस्विन् 
सदयं सान्त्वय दुःखितं कृपालो ।
मधुराख्यं नवमर्पयामि वृत्तं
यदि हृद्यं न भवेत्तदा क्षमस्व ॥ ४०
माजाने निमिष जयन्त रक्ष मां भोः
कंसारे वरद रमेश राम शौरे ।
प्रोक्तं यद्गुणयतिः प्रहर्षिणीति
प्रेम्णा ते पदयुगले समर्पयामि ॥ ४१
निमिष भार्गव जयन्त जनेश भोः
वरद केशव रमेश हरे प्रभो ।
अभिनवं तव पदेऽद्य निवेशितं
मदनिकाख्यमिह वृत्तमधोक्षज ॥ ४२
तृप्तोऽस्मि भार्गव जयन्त जयेश शौरे
गोविन्द केशव रमेश रथाङ्गपाणे ।
ख्यातं वसन्ततिलकेति कविप्रधानैः
वृत्तं भवत्पदयुगेऽद्य समर्पयामि ॥  ४३
निमिष राम विष्णो रक्ष मां रम्यमूर्ते 
शमय कामबाधां दुर्भरां सत्वरं मे ।
बदरिकाख्यवृत्ते सप्तवर्णैर्यतिः स्यात्
इदमपूर्वमीश प्रार्थये स्वीकुरु त्वम् ॥ ४४
निमिष नियम विष्णो रक्ष मां राम शौरे
वरद सुखद भक्तं पश्य मां सत्यवाक्य ।
यतिरिह वसुसंज्ञा मालिनीति प्रसिद्धं
तवपदयुगलेऽहं वृत्तमार्तोऽर्पयामि ॥  ४५
यतेऽहं माजाने निमिष सततं भार्गव हरे
कवित्वे वैदुष्यं न मयि सुतरां यादवपते ।
यतिः षद्भिर्वर्णैरिह शिखरिणीवृत्तमधुना
प्रतीच्छेदं विष्णो परिहर मदीयानघगणान् ॥ ४६
जगत्सु सततं हरे नियम राम हे रक्षकाः
भवन्ति न भवद्विधाः प्रणतपालने जागराः । 
रमेश भुवि कथ्यते बुधजनेषु पृथ्वीति यन्-
मयात्र हि समर्प्यते यतिरिहाष्टवर्णैः प्रभो ॥  ४७
शौरे विष्णो शार्ङ्गिन् निमिश सुमते भूषण हरे
दृप्तं मत्तं दुष्टं शमद सुरुचे मामव विधो । 
वृत्तं संरम्भाख्यं ऋतुयतियुतं स्वीकुरु नवम्
प्रीत्यै भूयात्तेऽदो वरद करुणाब्धे नरहरे ॥ ४८
विष्णो शौरे निमिष सततं रक्ष मां राम दासं
प्रह्वं भक्तं रघुवर हरे देव कारुण्यमूर्ते ।
मन्दाक्रान्तेत्यभिहितमिदं वृत्तमास्वाद्यलास्यं
त्वत्पादाब्जे मुनियतियुतं न्यस्य शान्तिं व्रजामि ॥ ४९
 
शौरे विष्णो यशस्विन् निमिष सुमते भार्गव हरे 
पश्चात्तापात्प्रदग्धं वरद कृपया पारय भवात् ।
नव्यं कल्याण्याख्यं मुनियतियुतं स्वीकुरु हरे   
प्रीत्यै भूयात्तुभ्यं सहृदयहितं माधव विभो ॥  ५०
माजाने सततं जडोऽस्मि सुमतेऽतृप्तोऽस्मि तप्तोऽस्मि भोः 
शान्तिं देहि भवत्कटाक्षसलिलैर्मद्विग्रहं स्नापयन् । 
वर्णैर्द्वादशभिर्यतिर्नियमिता शार्दूलविक्रीडिते 
वृत्तेऽस्मिन् भवते समर्पितमिदं लक्ष्मीप्रिय स्वीकुरु ५१
विष्णो शौरे यशस्विन् नियत नियम ते देव तृप्तोऽस्मि दासः
कंसाराते विधातः मधुमथन हरे चक्रपाणे दयालो ।
यस्मिन् द्विः स्यान्मुनियतिनियमः स्रग्धरेतीरिते भोः 
तत्त्वत्प्रीत्यै कृपालो तवपदयुगले सादरं निक्षिपामि ॥ ५२
सुमते सततं जयन्त भोः सदयं भावन रक्ष मां हरे ।
ललितेति बुधैः कथितेऽस्मिन् तव नेत्रद्युतिपातमादिशेः ॥   ५३
वरद निमिष रक्ष मां यशस्विन्  
नियम जनन्त जनेश रामभद्र ।
तव पदयुगले निवेश्य भक्त्या                                     
दृढचरणां प्रणमामि पुष्पिताग्राम् ॥ ५४
वृत्तकुसुमानि तवपदयुगले भक्त्या समर्पितानि हरे ।
स्वीकुर्वकिञ्चननृणा सुरभिःप्रसरतु तव करुणया ॥
              ------------
५५
                                   

Monday, August 5, 2019

श्रावणागमनम्

श्रावणागमनम्
अम्बरावृतपयोधरा स्त्रियः शीलवत्य इति मेनिरे बुधाः ।
अम्बरं तव पयोधरावृतं श्रावणागमनमोहिते निशे ॥
- - -  

Wednesday, July 24, 2019

Cricket


क्रिकेटोपाख्यानम्
सूतं  पुराणिकं  विज्ञं    पप्रच्छुस्तापसा  वने 
अस्माभिर्भारते  देशे   कथाश्रवणवञ्चिताः ।
क्रिकेट[1]खेलां रुचिरां  खेलिष्यन्तीति वै  श्रुतम्  
केयं  खेला  कथं  मर्त्याः  खेलिष्यन्ति  युगे  कलौ ॥ १-२ ॥
कृपयाऽचक्ष्व  सर्वज्ञ  परं  कौतूहलं  हि  नः 
उवाच  सूतः  प्रहसन्  मुनयः  शृणुतोत्सुकाः ॥ ३ ॥
संग्रहेणैव  वक्ष्यामि    शक्यं  विस्तृतेरितम् 
गणौ खेलत अन्योन्यं जिगीषू सौहृदान्वितौ ॥ ४ ॥
गणे तत्रान्यतरस्मिन्सन्त्यैकादशखेलकाः ।
खेलनोपस्करा दण्डो विकेटः[2] कन्दुकस्त्रयः॥ ५ ॥
लम्बदण्डत्रयं  स्निग्धं  स्टम्प[3]नाम्नेरितं  बुधैः ।
बेलौ[4]  सूक्ष्मौ दारुकृतौ  स्टम्पस्योपरि  तिष्ठतः ।  
बेलस्टम्पसमाहारो  विकेट इति  कीर्तितः ॥ ६ ॥
गणे केचित् ताडकाश्च क्षेपकाश्चापरे सदा ।
विकेटरक्षकश्चैव सर्वे दक्षाश्च धावने ॥ ७ ॥
गणस्यान्यतरस्यैकः खेलको गणनायकः ।
काप्टनाह्वो[5] वर्तते यो दक्षः क्रीडाविचक्षणः ॥ ८ ॥
क्रिकेटक्षेत्रविस्तारः  यार्डानां[6]  पञ्चषष्ठितः । 
भवेन्नवतिपर्यन्तं  मध्ये रोपितशाद्वलः ।
चतुरस्रो खेलनार्थं स्थितः पिच[7] इतीरितः ॥ ९-१० ॥
पिचे विकेटौ हरिते स्थाप्येतेऽन्योन्यसंमुखौ ।
यार्डानां द्वाविंशतिः स्यादनयोरन्तरं सदा ॥ ११ ॥
यदा प्रारभते क्रीडा गणस्यैकस्य ताडकौ ।
विकेटौ समया स्यातां खेलका अपरस्य तु ।
तिष्ठन्ति खेलनक्षेत्रे एकैकं नियतस्थले ॥ १२ ॥
विकेटरक्षकस्तिष्ठेत् ताडकस्यैव पृष्ठतः ।
पश्चाद्विकेटस्य यथा गृह्यते चलकन्दुकः ॥ १३ ॥
विकेटं  पालयन्  दण्डधरे  तिष्ठति  ताडके   
क्षेपकोऽन्यगणस्यान्यविकेटात्  कन्दुकं  क्षिपन् 
उत्पतत्कन्दुकाघातात् विकेटं  पातयेत्  द्रुतम् ।
पतेद्यदि  विकेटस्तु    निष्क्रमेत स  ताडकः  ॥ १४-१५ ॥
ताडकस्तु  स्वदण्डेन  ताडयत्यञ्जसा  तथा 
कन्दुकं    यथा  दूरं  प्लवन्  भूमौ  चलन्  व्रजेत्  ॥ १६ ॥
विकेटं    सुसंरक्ष्य   कन्दुकं ताडयेद्यदि 
खेलकोऽरिगणात्कश्चित्  धावन् गृह्णाति  कन्दुकम् ।
विकेटलक्ष्यमुद्दिश्य  द्राक्  तं  क्षिपति धावकः  ॥ १७॥  
अत्रान्तरे  ताडकौ  तौ   विकेटमपरं  प्रति 
गतागतं धावतो द्राक् यावन्नायाति कन्दुकः ।
गतागतानां गणनाद्धावनाङ्को विगण्यते॥ १८ ॥    
डयमानः  कन्दुकश्चेत्    धावकेन  विगृह्यते ।  
धरण्यां  पतनात्पूर्वं  निष्क्रमेत स  ताडकः  ॥ १९ ॥
धावत्यतीत्य  सीमानं  तरसा  यदि  कन्दुकः 
चत्वारो  धावनाङ्कास्तु  गण्यन्ते  ताडकार्जिताः ॥ २० ॥ 
प्लवेदतीत्य  सीमानं  कन्दुको  यदि  ताडितः 
षडङ्कानर्जयत्याशु  ताडकः  संस्तुतो  जनैः  ॥ २१ ॥ 
भवेन्निष्क्रमणं साध्यं दशधा ताडकस्य हि ।
तेषां  विवरणं  नात्र  क्रियते  कार्यगौरवात् ॥ २२ ॥
षड्कृत्व एवं क्षिपति क्षेपकः कन्दुकं दृढम् ।
षट्कृत्वः क्षेपणं ह्येवं निर्वर्तनमितीरितम् ।
पर्यायेण विकेटाभ्यां भवेन्निर्वर्तनं सदा ॥ २३ ॥
गणस्य  प्रविशत्यन्यः निष्क्राम्येद्यदि ताडकः 
एवमेकैकशः  स्वाङकान्लभन्ते  गणखेलकाः ।
आहत्याङ्कान् खेलकानां  गणाङ्क उपलभ्यते ॥ २४ ॥
योऽद्यावधि गणो क्षेत्रपालने क्षेपणे रतः ।
  इदानीं  ताडनेऽथ धावने    सक्रियो  भवेत् ॥ २५ ॥
लभन्त उक्तरीत्यैव स्वाङ्कान्श्च गणखेलकाः ।
गणौ खेलत अन्योऽन्यं विपरीतक्रियारतौ ॥ २६ ॥
क्रीडायां खेलनावर्तः इनिङ्ग इति कथ्यते ।
यद्गणस्य  भवत्यङ्कः  ज्यायान्  जयति  तद्गणः ॥ २७ ॥ 
प्रायेण त्रिविधा प्रोक्ताः क्रिकेटक्रीडने बुधैः ।
यदा द्वयमिनिङ्गाणां गणाभ्यां खेल्यते तदा ॥  
क्रीडानिकष इत्युक्तां टेस्ट-माचि[8]त्युदाहृताम् ।
चतुर्वा पञ्चदिवसान् खेलन्ति युवखेलकाः ॥ २८-२९॥
इनिङ्गे निर्वर्तनानामस्ति पञ्चाशदेव चेत् ।
एकस्मिन्नेव दिवसे पूर्णतां याति खेलनम् ॥ ३० ॥
निर्वर्तनानां संख्या चेदिनिङ्गे विंशतिस्तदा ।
त्रिष्वेव घटिकानां हि क्रीडा याति समापनम् ॥ ३१ ॥
क्रीडाप्रयोगो निर्दिष्टः स्थूलरूपेण साम्प्रतम् ।
भवतां लघुबोधार्थमौत्सुक्यशमनाय च ॥ ३२ ॥
कन्दुकक्षेपणं कर्मासरलं चातिसङ्कुलम् ।
तत्र प्रवीणतां प्राप्तुं दुश्शक्यं चतुरैरपि ॥ ३३ ॥
शीघ्रप्रतिक्रियाशीला दृढकाया मनोजवाः ।
एकाग्रमनसो लक्ष्ये स्निग्धा खेलकसंश्रये ।
धनं यशश्च विपुलं लभन्ते खेलका: कलौ ॥ ३४ ॥
जनिष्यन्ति भवन्तो चेत् भारतेऽस्मिन् कलौ युगे ।
दिष्ट्या क्रिकेटं शृण्वन्तः पश्यन्तः दूरदर्शके ।
कदाचित् क्रीडयन्तश्च चिरं सुखमवाप्स्यथ ॥ ३५ ॥  
घूर्णत्कन्दुकमत्र पश्यत करात्क्षिप्तं बिषेन्बेडिनः ।
अत्राहो गगने प्लवन्तमपरं टेण्डुल्करेणोच्छ्रितम् ।
गृह्णात्यत्र कृताञ्जलिर्वरकपिल्देवो भ्रमत्कन्दुकम् ।
राहुल्-द्राविडमत्र पश्यत जनैः संस्तूयमानं मुदा ॥ ३६ ॥
निमीलिताक्षं गायन्तमसम्बद्धं पुराणिकम् ।
पश्यन्तः प्राहसन् सर्वे मुनिवर्या मुहुर्मुहुः ॥ ३७ ॥
नेत्रे निमील्य सहसा क्रोधपर्याकुलेक्षणः ।
शशाप सूतः शृण्वत्सु मुनिष्वेवं तपोवने ॥ ३८ ॥
क्रीडां कथयतो चित्तं तस्यां मग्नभून्मम ।
अद्राक्षं तानि दृश्यानि भविष्यन्ति सकौतुकम् ॥ ३९ ॥  
प्रत्याख्यातोऽस्मि मुनयो भवद्भिर्मुनिपुङ्गवैः ।
इदं क्रिकेटोपाख्यानं कलौ नष्टं भविष्यति ।
न स्मरन्ति जना हन्त मयैतत् समुदीरितम् ॥ ४० ॥
तत्र कश्चिन्मुनिश्रेष्ठः पश्चात्तापेन यन्त्रितः ।
सूतं पुराणिकं नम्र उवाच वदतां वरम् ॥ ४१ ॥
क्षमस्वास्मान् मुनिश्रेष्ठ न कश्चिन्नापहास्यते ।
इदं श्रेष्ठमुपाख्यानं यदि नष्टं भवेदहो ॥
न शृण्वन्त इदं मर्त्या भविष्यन्ति निरुत्सुकाः । 
अतोऽहं प्रार्थये प्राज्ञं भवेत् शापविमोचनम् ॥ ४२-४३ ॥
 तथास्त्विदमुपाख्यानं द्वितीयजनिमेष्यति ।
यः कश्चित्पण्डितंमन्यः कलौ हैमवती तटे ।
जनिं प्राप्य क्रिकेटस्य न स्पृशन् दण्डकन्दुकौ ।
अप्यैकवारं रचयेदुपाख्यानमतन्द्रितः ॥ ४४-४५ ॥
यद्वर्तमानमधुना शापं चास्य विमोचनम् ।
लेखिष्यति यथावत्सः मदाशीर्भिःप्रचोदितः ॥ ४६ ॥
क्रिकेटोपाख्यानमिदं व्याहृतं प्रथमं मया । 
ये शृण्वन्ति पठन्त्यन्यैः पाठयन्ति लिखन्ति च ।
तेषां  निःसंशयं वासः स्यात्क्रिकेटत्रिविष्टपे ॥ ४७ ॥
एवं पुराणिको सूतो व्याहृत्य मुनिमण्डले ।
आपृच्छ्य तापसान् सर्वान् जगाम स्वाश्रमं वशी ॥ ४८ ॥
|| इति क्रिकेटोपाख्यानं समाप्तम् ||




   
    

     


[1] cricket
[2] wicket
[3] stump
[4] bails
[5] captain
[6] yard
[7] pitch
[8] Test match