Follow by Email

Saturday, August 31, 2013

Sanskrit blog: Humour-80

हास्यसीकरः-८०
मृगराजस्य विवाहे मूषिक आगत्याभ्यनन्दतित्थम् ।
“केसरि! तव विवाहेन तुष्येऽहं सुदिवसः प्राप्तः” ॥
आखोर्धार्ष्ट्यं दृष्ट्वा मृगराजानुजोऽभर्त्सयत कुपितः ।
“रे रे मूषिक! कथय  क्व त्वं क्व मृगराजो भ्राता ॥“
मूषिक अवदत् सभयं , “क्षमस्व बन्धो मम धार्ष्ट्यम् कृपया ।

अहमप्यभवं सिंहः त्वदग्रजवदुपयमात् पूर्वम् “॥
- - - - 

Saturday, August 24, 2013

Sanskrit blog: Receiving a guest

अतिथिसत्कारः
“स्वागतं स्वागतं तुभ्यं चिरात् दर्शनमागताः ।
अद्यास्माकं दिनं धन्यमतर्कितसुखावहम् ॥ १ ॥
[ मयाद्य किं कृतं पापं तत्फलोऽयं समागमः
धनव्ययस्तथा कालहरणं मे भवेत् ध्रुवम् ]॥ २ ॥
अलङ्कुरुत सन्मान्या आसनानि यथासुखम् ।
[पर्याप्तान्यासनान्यत्र न भवेयुरिति स्पृहा] ॥ ३ ॥
आनन्दोदधिमग्नोऽहं त्वद्बालाश्चागता  इति ।
[ मर्कटास्ते विनष्टं स्यात् सर्वं वस्त्वत्र खण्डितम्] ॥ ४ ॥
ददाम पेयं किं  भक्ष्यं ब्रूथ वाञ्छथ निस्त्रपाः।
[भक्षयिष्यन्ति पास्यन्ति सर्वं सद्यो यदर्पितम्] ॥ ५ ॥
पुत्र्या मे गायनं यूयं श्रोतुमर्हथ सुस्वरम् ।
[कृतार्थोऽस्मि सुतां श्रुत्वा पलायन्ते यदि द्रुतम् ] ॥ ६ ॥
‘द्रष्टुं पुत्थलिकाचित्रं मे बाला आगतात्र वै ।
अस्मत्साक्षात्करं दोषपूरितं क्षम्यतां यतः’ ॥ ७ ॥
इति किं वक्षि? सुकरमिदानीमेव तद्भवेत्।
भार्ये साक्षात्करं तेभ्यः चालयाशु विचक्षणे ॥ ८ ॥
‘अस्मत्साक्षात्करं चापि सदोषम्’ इति भाषसे?
अहो, मम हि दौर्भाग्यं, क्षम्यतां करवाणि किम्?॥ ९ ॥
‘स्वस्ति वोऽस्तु गमिष्यामो प्रातिवेश्यगृहं द्रुतम्’
इति किं वदथ, क्षिप्रं मिलामो भवतात् शुभम् ॥ १० ॥
[ सम्पन्नं सुदिनं दिष्ट्या ऽहो मे पत्न्याः प्रगल्भता ।
विद्युत्तन्तू साधनस्य निभृतं विचकर्ष या॥]” ॥ ११ ॥
-----------------------------------------------------------------------------

पुत्थलिकाचित्रम्=cartoon film; साक्षात्करम्=Television
[ Inspired by a poem in English read long back.]

Saturday, August 17, 2013

Sanskrit blog: Humour-79

हास्यसीकरः-७९
कश्चन पण्डितः वाग्मी कदाचित् ग्राममेकमगच्छत् । यदा ग्रामवासिनः तस्य पाण्डित्यं वाग्मितां च अवगच्छन्, ते तमवदन्, “ पण्डितवर्य! अस्मानुद्दिश्य प्रवचनं भवान् करोतु” इति । पण्डितः अनुमेने निर्दिष्ट दिवसे विर्दिष्टवेलायां प्रवचनमारभत च। प्रवचन विषयः, “भारवेः अर्थगौरवम्” इत्यासीत् । पण्डितस्य निरर्गलवाग्धाराभिः ग्रामीणाः सुसिक्ताः अभवन् । परं तु प्रवचने ते किमपि नावगच्छन् । गतेषु कतिचननिमिषेषु कश्चन सभ्यः निश्शब्दं सभाभवनात् बहिरगच्छत् । तं निर्गच्छन्तं दृष्ट्वा कतिचन अन्येऽपि सभामत्यजन् । इत्थं अर्धमुहूर्ते गते, पण्डितं विहाय सभायामेक एव ग्रामीणः आसीनः आसीत् । परिभूतः पण्डितः तमवदत्, “प्रिय, त्वम् एक एव प्रवचने आसक्तः इति भाति” इति । सः ग्रामीणः अवदत्, “आर्य, यस्यां कुथायां भवान् आसीनः सा मम भवति । प्रवचनान्ते सा मया गृहं नीयते । प्रवचनान्तं प्रतीक्षमाणः स्थितोऽस्मि” इति ।   
- - - -  

Saturday, August 10, 2013

Sanskrit blog: Last journey of Alexander the Great

सिकन्दरस्य चरमयात्रा
विजित्य नानाक्षितिपान् महाबलान् सिकन्दरः शौर्यवतां वरिष्ठः । रक्तप्रवाहार्जितवित्तराशीनादाय दृप्तः स्वपुरीं प्रतस्थे ॥ १ ॥
मार्गे गदग्रस्तमिमं नराधिपं निष्णातवैद्याः सततं ह्युपाचरन् ।
तथापि कालेन विधेर्विपाकात् नृपः क्रमेण क्षयतां प्रपेदे ॥ २ ॥
तल्पे शयानः मरणावसन्नः चिन्ताग्निना भूरि विदह्यमानः ।
आनाय्य सेनाधिपतीन् बलिष्ठान् शनैरवोचत् स मृदुस्वरेण ॥ ३ ॥
भोः मे प्रियाः पश्यत  मां  शयानं  महौजसं  क्ष्मापतिसार्वभौमम् ।
अशक्तमल्पायुषमल्पवीर्यं चर्मास्थिशेषं शिशुवद् हि पाल्यम् ।। ४ ॥
दूरे स्थितां मातरमुत्सुकेन द्रष्टुं मयाऽशक्यमभाग्यशालिना ।
यूयं त्विदानीं कुरुत  प्रपूर्णान् मनोरथान् त्रीन् मम साभियोगम् ॥५ ॥
वैद्या वहेयु र्मम मृत्युपेटिकां नान्ये श्मशानं प्रथमाभिलाषः ।
रूप्यं सुवर्णं विततं विकीर्यतां श्मशानमार्गे इति मे द्वितीयः ॥ ६ ॥
हस्तौ मदीयौ शवपेटिकायाः विलम्ब्यमानौ भवतां तृतीयः ।
त्यजेत् प्रभुत्वं मरणावसन्नं प्रायेण राजानमिति ब्रुवन्ति ।। ७ ॥
तां यूयमार्या वितथां कुरुध्वं भूयात् शुभं वोऽद्य दिवं व्रजामि ।
श्रुत्वा गिरः दुःखकरीः इमास्ते सप्रश्रयं भूपमिदं ह्यपृच्छन् ॥ ८ ॥
कर्तव्यमस्माभिरवश्यमेव ह्यभीष्टमस्मद्दयितप्रभोस्ते ।
प्रष्टव्यमत्रास्ति तथापि राजन् एतेषु कृत्येषु  तवास्ति कोऽर्थः ॥ ९ ॥
कृछ्रेण राजा स्मयमान ईषत् शनैरवोचत् शृणुतेममर्थम् ।
वैद्यो कदाचिन्न करोति नीरुजं रुग्णं विना दैवकृपां स्वभेषजैः ।। १० ॥
सुवर्णरूप्यादिधनेषु किञ्चित् मृतेन साकं  न तु हन्त यात्यपि ।
शिशुर्यथागच्छति रिक्तहस्तः तथैव निर्गच्छति वै मृतोऽपि ॥ ११ ॥   
इति वदति महीशे दण्डपालान् महाढ्यान्
अविरलमवसन्नाः तेऽपि बाष्पानमुञ्चन् ।
गतवति धरणीशे स्वर्गमुत्सृज्य सर्वम्

जलधिमभिससारेवातिखिन्ना दिनश्रीः॥ १२ ॥
- - - - 

Saturday, August 3, 2013

Sanskrit blog: Humour-78

हास्यसीकरः-७८
पिता पुत्रं बालं स्वापयितुं यतमानः अस्ति । बालं स्वकोष्ठे तल्पे शाययित्वा द्वारं पिधाय बहिरागच्छति । कतिपय क्षणादनन्तरमेव बालः उच्चैः क्रोशति, “तात, अहं जलं पिपासामि । मह्यं  जलपूर्णं चषकमानय “ इति । पिता उच्चैः प्रतिवदति, “वत्स, इदानीं त्वया जलं न पेयम् । तूष्णीं स्वपिहि” इति । कतिपयक्षणादनन्तरं पुनः बालः उच्चैः वदति, “तात, मह्यं पिपासा बाधते । द्रुतं जलमानय “ इति । क्रुद्धः पिता उच्चैः प्रतिवदति, “ पश्य, अहं जलं न आनयामि, यदि पुनः जलार्थं क्रोशसि, तदा त्वां दण्डयामि “ इति । पुनः कतिपयनिमेषादनन्तरं बालः उच्चैः वदति, “तात, यदा त्वं मां दण्डयितुं ममकोष्टम् आगमिष्यसि तदा मह्यं जलमानयेः” इति ।
- - - -