Saturday, February 23, 2013

Sanskrit blog: The bird and the bee.

विहगः मधुकरश्च
श्रमार्जितं त्वन्मधु मिष्टमन्ये
सुखेन मर्त्याः खलु चोरयन्ति ।
कथं न खिन्नोऽसि वदेति पक्षिणा
पृष्टः कदाचिन्मधुमक्षिका क्वचित् ।।
मुष्णन्तु मूढाः मम किं मनुष्या
करोमि भूयो मधु लीलयाहम् ।
यावन्न मुष्टं मम कर्मदाक्ष्यं
मुष्टं न किञ्चित् विहगेत्युवाच ।।

A rough rendering in Sanskrit of the following:
The Bird Asked the bee:
"You Work So Hard To Make The Honey And Humans Just Take It Away,
Doesn
t it Make You Feel Bad?"
"No," Said The Bee, "Because They Will Never
Take From Me The Art Of Making It."
- - - - 

Saturday, February 16, 2013

Sanskrit blog: Humour-66

हास्यसीकरः-६६
द्वौ सिह्मौ मृगालये आस्ताम् । एकः मृगालये जातः अपरः वने जातः । एकदा तौ मृगालयात् पलायितौ । मृगालयपालास्तु वनं गतं वन्यसिह्मं कतिपयदिवसेष्वेव पुनरपि निर्बध्य मृगालयमानयन् । मृगालये जातं नागरसिह्मं नगरं गतमन्विष्य त्रिमासादूर्ध्वं मृगालयमानीतवन्तः । द्वौ सिह्मौ प्ररस्परमभाषेताम् ।
वन्यसिह्मः : भोः वयस्य! त्वमेतावत्कालं कुत्र गतः । वने परिभ्रमन्तं मां लीलया न्यगृह्णन् ।
नागरसिह्मः : किं वदामि? अहं नगरे कस्मिंश्चित्सर्वकारकार्यालये दिवसानि लेख्यपत्रवृन्देष्वन्तरितः लीलया अयापयम् ।
वन्यसिह्मः : उदरपोषणं तु कथमभवत्?
नागरसिह्मः : प्रत्यहं कार्यालयोद्योगिनमेकमखादम् । उद्योगिनः सह्स्रशः सन्ति खलु । एकः न्यूनः अभवत् यदि तत्र कोऽपि न जानाति ।
वन्यसिह्मः : कथमिदानीं बद्धः अभूः ?
नागरसिह्मः : मया प्रमादः आचरितः खलु । ह्यः काफ़ीपरिवेष्टारं बालमखादम् । सपद्येव तस्य अनुपस्थितिः सर्वैः लक्षिता । सर्वे तस्य मार्गणे प्रवृत्ताः अभवन् । तदा लेखपत्रवृन्देष्वन्तर्हितं मां दृष्ट्वा भयात् पलायितवन्तः । मृगालयपालाः आगत्य मां पञ्जरे बबन्धुः ।
- - - - 

Saturday, February 9, 2013

Sanskrit blog: Abraham Lincoln-an anecdote

अब्रहां लिंकनः: एका आख्यायिका
अब्रहां लिंकनः अमेरिकादेशस्य अध्यक्षपदवीं स्वीकृत्य प्रथमभाषणं कुरुते स्म । भाषमाणे लिंकने कश्चन गर्वितः धनिकः सभ्यः उत्थाय उच्चैरघोषयत्, भोः! कच्चिदवगतं त्वया यत् तव पिता ममाभिजनस्य चर्मकारः आसीत्? इति । सर्वे सभ्याः तदवधीरणां निशम्य उच्चैः हसितुमारभन्त । परं तु लिंकनः धृतिमान् तं सभ्यमवलोकयन् गंभीरस्वरेण तमवदत्, मान्य! मम पिता भवदभिजनस्य उपानहः भवद्गृहे एव करोति स्म इत्यहं जानामि। अत्र सभायां अन्येऽपि भवेयुः येषां गृहेषु मम पिता उपानहः करोति स्म च । सहर्षं वदामि यत् मम पितृकृता उपानहः सदा अनर्घा अदोषाश्च आसन् । मम पिता उपानहां विधाता आसीत् । तत्कृत प्रत्युपानहोः तस्यात्मा एव प्रतिष्ठितः । उपानत्कर्मणि अहमपि निष्णातः । यदि भवान् वाञ्छति भवतः नूत्ने उपानहौ करोमि इति । दिग्भ्रान्ताः सर्वे सभ्याः उच्चैः करताडनमकुर्वन्,  सः भग्नगर्वः सभ्यः लिंकनस्य क्षमां च अयाचत ।
- - - - 

Saturday, February 2, 2013

Sanskrit blog: Humour-65

हास्यसीकरः-६५
विस्मयकरं किञ्चन ऐन्द्रजालिककर्म कृतवन्तं ऐन्द्रजालिकं इन्द्रजालवीक्षकः कश्चन सभायाम् संबोधयति, भोः, कथम् इदं विस्मयकरं कर्म करोषि? मां एतत्कर्म शिक्षयसि किम्? इति । ऐन्द्रजालिकः प्रतिवदति, अवश्यं शिक्षयामि, परं तु पश्चात् मया त्वं वध्यः भविष्यसि । अङ्गीकरोषि किम्? इति । सभ्यः स्तोकं विचिन्त्य प्रतिवदति, बाढम्, मम भार्यां शिक्षय इति ।
- - - -