Follow by Email

Wednesday, June 27, 2012

Sanskrit blog: Turing and the Turing test


ट्यूरिंगः ट्यूरिंगपरीक्षा च
अलन् मथिसन् ट्यूरिंगस्य जन्म क्रिस्तीय १९१२ वर्षे जून् मासस्य २३तमे दिवसे अभवत् । अतः वर्तमानवर्षे तस्य जन्मशताब्दिः आचर्यते ।
द्वितीयमहायुद्धे ब्रिटन्-अमेरिकावृन्दस्य विजये गणकयन्त्रविज्ञानस्य आविर्भावे च अप्रतिमप्रतिभस्य ट्यूरिंग्वर्यस्य संशोधनानि महत्पात्रमवहन् ।
यदा गणकयन्त्राणि न सृष्टानि, तदा स्वप्रगल्भतया ट्यूरिंगः नूतनां प्रक्रियामेकां मनसा प्राकल्पयत्, या इदानीं ट्यूरिंग् यन्त्रम् इति आख्यायते । ट्यूरिंग् यन्त्रं गणकप्रक्रियाविज्ञानस्य मूलमन्त्रं खलु ।
द्वितीयमहायुद्धे जर्मनीदेशः सेनासंदेशान् अतिजटिलगूढभाषायां संवाहयति स्म । तत्भाषायाः संज्ञानां भेदने ट्यूरिंगः समर्थः अभवत् । यदा शत्रोः गूढसंदेशाः स्पष्टा अभवन् तदा ब्रिटन्-मित्रराष्ट्राणां विजयः हस्तगतः अभवत् ।
ट्यूरिंग-वर्यस्य अन्या प्रकल्पना ट्यूरिंग-परीक्षा इति नाम्ना प्रथिता । गणकयंत्रं  मनुष्यसमानां धीशक्तिं प्राप्तवत् किम् इत्येतस्य प्रश्नस्य उत्तरं प्राप्तुमयं निकषग्रावा ।
कश्चन धीमान् देवदत्तनामा अन्येन धीमता हरिदत्तनाम्ना नरेण तथा धीमता केनचन गणकयन्त्रेण सह एककाले दूरमुद्रक(tele-printer) युग्ममवलम्ब्य लिखितरूपेण संभाषते इति संभावयाम । देवदत्तः कतरं दूरमुद्रकमवलम्ब्य हरिदत्तेन सह, कतरं दूरमुद्रकमवलम्ब्य गणकयन्त्रेण सह संभाषे इति न जानाति । देवदत्तः समुचितप्रश्नान् लिखितरूपेण पृष्ट्वा लब्धोत्तरैः कतरं दूरमुद्रकमवलम्ब्य हरिदत्तेन सह संभाषे इति ज्ञानं लभेत ।
हरिदत्तस्तु अहं गणकयन्त्रं न भवामि इति ज्ञानं पुष्टीकर्तुं स्व धीशक्त्या समुचितोत्तराण्येव संदिशति । गणकयन्त्रं तु समुचितोत्तरैः अहं मनुष्यवत् धीमदिति ज्ञानं बोधयितुं प्रयतते ।
अस्यां परीक्षायां देवदत्तस्य प्रश्नशृंखलायाः ध्येयस्तु कतरं दूरमुद्रकमवलम्ब्य हरदत्तेन सह संभाषे इत्येतस्य ज्ञानलाभ एव ।  देवदत्तः स्वप्रगल्भतां सर्वामुपयुज्य प्रश्नान् पृच्छति । तथापि यदि देवदत्तः एतद्ज्ञानं न लभते तदा तद्गणकयन्त्रस्य धीशक्तिः मनुष्यधीशक्तिसमा एव इति सिद्ध्यते । इयमेव प्रथिता ट्यूरिंग-परीक्षा (Turing test) । इमां परीक्षां ट्यूरिंगः १९५०तमवर्षे स्वविज्ञानप्रबन्धे प्रासूचयत् । अद्यापि अस्याः परीक्षायाः महत्त्वमकुण्ठितं वर्तत इत्यहो ट्यूरिंगस्य कुशाग्रबुद्धिः ।
- - - -

Saturday, June 23, 2012

Sanskrit blog: A quote from Mark Twain

मार्क्-ट्वेन उवाच
धनिकेभ्यः धनं लब्ध्वा निर्धनेभ्यः मतानि च
नायकः प्रतिजानीते ऽन्योन्यभीतिनिवारणम् ॥


Based on:
Politics is the gentle art of getting votes from the poor and campaign funds from
the rich by promising each to protect him from the other.
Mark Twain.

Saturday, June 16, 2012

Sanskrit blog-100: Humour-50


ब्लाग्-लेखः-१००
हास्यसीकरः-५०
कदाचन कृपणः वणिक् ब्रह्मगुप्तः तस्य मित्राय धनिकाय देववर्मणे रक्तं प्रदाय मरणोन्मुखाय तस्मै जीवदानमकरोत् । कृतज्ञः देववर्मा अमूल्यं मर्सिडीस्-कार्-यानम् उपायनरूपेण ब्रह्मगुप्ताय ददौ । ब्रह्मगुप्तः नितरां तुष्टः अभवत् । पुनः देववर्मा रुग्णः अभवत् । तस्मै रक्तदानमवश्यमभवत् । पुनरपि ब्रह्मगुप्तः सहर्षं मित्राय देववर्मणे रक्तं ददौ । इदानीं तु देववर्मा मित्राय ब्रह्मगुप्ताय किमपि उपायनं न ददौ । अतुष्टः ब्रह्मगुप्तः देववर्माणमवदत्, कथमिदम् ? तदानीम् तु कार्-यानमुपायनं अददः । इदानीं तु किमपि न ददासि? । देववर्मा प्रत्यवदत्, क्षमस्व माम् । इदानीं तु मम देहे प्रभूतं तव रक्तं प्रवहति खलु
- - - -

Saturday, June 9, 2012

Sanskrit blog: So said Timmu the dull-headed



मूढतिम्मुरुवाच
प्रातरुप्तं बीजमेति किं फलदशाम्
सायमस्त्यत्र खलु कालस्य पात्रम् ।
ओदनं भवति किं तण्डुलं सत्वरम्
तितिक्षा साम्प्रतं मूढतिम्मो ॥ ७८१ ॥


इदं मात्रागणवृत्तं मूलकृतावेव प्रयुक्तमत्र मया आप्तानाम्ना अभिहितं यस्य लक्षणमिदम् ।
पञ्चमात्रागणाः सन्ति चत्वारोऽत्र
प्रथमपादे चापि पादे तृतीये ।
द्वितीये त्रयो सन्ति पश्चात् गुरू वै
चतुर्थे त्रयो गुरुश्चाप्ताभिधे ॥



From DVG’s “manku timmana kagga”

ಕಾಳನುದಯದಿ ಬಿತ್ತೆ ಸಂಜೆಗದು ಪೈರಹುದೆ?
ಪಾಲುಂಟು ಕಾಲಂಗೆ ನಮ್ಮ ಕೃಷಿಗಳಲಿ |
ವೇಳೆ ಗಡು ಮರೆತಾತುರದಿನ್ ಅಡುಗೆ ಪಕ್ಕಹುದೆ?
ತಾಳುಮೆಯೆ ಪರಿಪಾಕ ಮಂಕುತಿಮ್ಮ || ೭೮೧ ||
- - - -

Friday, June 1, 2012

Sanskrit blog: Humour-49

हास्यसीकरः-४९
काचन कन्या वृत्तपत्रिकायां विज्ञापनामेकां प्रकाशितवती : पतिमेकं वाञ्छामि इति । अपरेद्युः शतानि पत्राणि तया स्वीकृतानि । सर्वेषु पत्रेषु इदमेव निवेदितम्, मम पतिं स्वीकुरु
- - - -