चन्द्रिका-५४
नृपनिदेशधरैः हि तथैव सा
प्रकटिता नगरे मणिपादुका ।
युवतयोह्ययतन्त समुत्सुकाः
चरणमानमभूत्पृथु पादुकात् ॥ २०४ ॥
श्रुतवती नरपस्य सुनिश्चयं
नृपभटान् स्वगृहं समुपाहरत् ।
निजपदेन कला मणिपादुकाम्
समधिरोढुमुमां समचूचुदत् ॥ २०५ ॥
रमयितुं जननीमिव निश्चिता
अयतताप्तुमशक्यमुमा
वृथा ।
क्व तनुगात्रवती
मणिपादुका
क्व पृथुलः
चरणः जडयोषितः ॥ २०६ ॥- - - -
No comments:
Post a Comment