Follow by Email

Saturday, February 22, 2014

Sanskrit blog: Humour-92

हास्यसीकरः-९२
काचन मान्या स्त्री औषधापणिं गता । सा आपणिकमपृच्छत्, “भोः! मया सियनैड् विषः क्रयणीयः । अत्र लभ्यते किम्?” इति । चकितः आपणिकः तामपृच्छत्, “आर्ये, किमर्थं विषं क्रीणासि?” इति । सा गम्भीरस्वरेण तं प्रत्यवदत्, “ अहं मम भर्त्रे विषं दातुमिच्छामि” इति । दिग्भ्रान्तः आपणिकः अवदत्, “आर्ये! किं वदसि? यदि तदर्थं तुभ्यं विषं विक्रीणै मां त्वां च आरक्षकाः कारागारं नयेयुः । इतः कृपया अपसर “ इति । तदा सा आत्मनः वित्तस्यूतात् छायाचित्रमेकमुद्धृत्य तस्मै अदर्शयत् यस्मिन् छायाचित्रे आपणिकस्य पत्न्या सह तस्याः पतिः रतिक्रीडायां निरतः आसीत् । निर्वर्णः उद्विग्नश्च आपणिकः अवदत्, “असंशयं तुभ्यं सियनैड् विक्रीणे । त्वया प्रथममेव वक्तव्यमासीत् यत् वैद्यनिर्देशात् विषं क्रीणामि” इति ।
- - - - 

Saturday, February 15, 2014

Sanskrit blog:O! my dear sleep!

निद्रे!
संख्याता नितरां मयाऽविनिवहे सर्वे शनैरेकशः ।
ओघस्य स्वनितं सहस्रकणिकोद्भूतं समाकर्णितम् ।
दृष्टं नीलनभः मनस्यविरतं ज्योत्स्नानुलिप्तं वनम् ।
निद्रे त्वं न तथापि मामुपगता कोवापराधो मम ॥ १ ॥

पूर्वस्यां दिशि पर्वतादरुणिताभाऽऽगन्तुमेवेहते ।
आद्यः शालिवने विहंगमरवः दूराद् हि संश्रूयते ।
देवि त्वद्विरहात्प्रतप्तमधुना सङ्गम्य पाहि द्रुतम् ।
निद्रे देहि ममाखिलकटुक्लेशघ्नमालिङ्गनम् ॥ २ ॥

विश्रान्तिं प्रददासि कायहृदयव्यापारखिन्नाय वै ।
इत्याहुः सकलामयार्तिशमने श्रेष्ठा सहाया सखी ।
अद्य त्वं किमुपेक्षसे जनमिमं त्वत्सङ्गमाकाङ्क्षिणम् ।
तूर्णं मीलितलोचनं सुनिभृतं मां चुम्ब खेदापहे ॥ ३ ॥ 
[Inspired by Wordsworth's poem "sleep"]
- - - - 

Friday, February 7, 2014

Sanskrit blog: Humour-91

हास्यसीकरः-९१
धर्मसिंहः कोल्कतानगरे कस्मिन्श्चित्शुण्डापाने मदिरां पातुं प्रतिसायमागच्छति । मदिरायाः काचकूपी(bottle)त्रयं क्रीणाति एकैकं पिबति च । एकदा कुतूहलात् शौण्डिकः तमपृच्छत्, “आर्य! कुतः एककाले एव काचकूपीत्रयं क्रीणासि? इतरे तु एकां काचकूपीं पीत्वा एव अन्यां क्रीणन्ति” इति । धर्मसिंहः स्मितवदनः व्यवृणोत्, “भोः! मम भ्रातरौ स्तः । एकः दिल्लीनगरे वसति, अन्यः मुम्बयी नगरे। अस्मिन्नेव काले सायं द्वावपि तन्नगरस्थशुण्डापाने काचकूपीत्रयमितां मदिरां क्रीणीतः । प्रथमा काचकूपी आत्मनः पानार्थम् । द्वितीया तृतीया तु भ्रात्रोः पानार्थम् । एकदेशे मिलितुमशक्ताः एवं संज्ञामकरवाम । यदा मदिरां पिबामः एकस्थले एव मदिरां पिबन्तः इव भावं विन्दामः “ इति । धर्मसिंहस्य उत्तरात् तृप्तः शौण्डिकः स्वस्थानं प्रति न्यवर्तत । एवमेव प्रत्यहं धर्मसिंहः सायमागच्छति काचकूपीत्रयं क्रीणाति, पिबति च । एकस्मिन् दिवसे धर्मसिंहः काचकूपीद्वयमेव अक्रीणात् । शौण्डिकः मनसि अशङ्कत, “ अस्य भ्रात्रोः अन्यतरस्य दुरवस्था आपतिता भवेत्” इति । अपरेद्युः यदा धर्मसिंहः आगत्य काचकूपीद्वयमक्रीणात्, तदा शौण्डिकः सविनयं तमपृच्छत्, “ अपि तव भ्रातरौ कुशलौ?” इति । धर्मसिंहः स्मयमानः अवदत्, “निस्संशयं, सखे!” इति । “ कथं काचकूपीद्वयमेव क्रीणासि?” इति । धर्मसिंहः गम्भीरस्वरेण अवदत्, “सखे! इदानीमहं मद्यपानात् विरतः । काचकूपीद्वयं तु मम भ्रात्रोः एव” इति ।
- - - - 

Saturday, February 1, 2014

Sanskrit blog:A poem of Rabindranath Tagore

शिशुदृष्टिः
मातः कथयसि लिखति ग्रन्थान् पिता बहूनिति परं तु मे ।
तेषु किमपि नावगतं भवति कथय किमिदमित्थंस्यात् ॥ १ ॥
सायं तुभ्यं यत्श्रावयति तदवगच्छसि किं वद मातः ।
कथयस्यद्भुतकथास्त्वमेवं न रचयति पिता कुतः ॥ २ ॥
कच्चित्तस्याम्बायाः तेन न कथाः श्रुता नु सुविस्मृता नु ।
दानवपिशाचविद्याधरनृपपुत्रीणां सुमधुराः ॥ ३ ॥
यदि विस्मरति स्नानं तदा त्वमाह्वयसि हि वारंवारम् ।
सोष्णाशनाय तथापि विस्मरति लिखन्नेवास्ते च ।। ४ ॥
यदि प्रविशामि तस्यागारं क्रीडार्थं त्वं विगर्हसे ।
स्तोकरवमपि न सहसे वदसि पिता कार्यमग्न इति च ॥ ५ ॥
विन्दति लेखं लेखं किं यदि लिखामि कखगघ तर्जसि माम् ।
पिता लिखति यदि तदा नु किमपि न वदसि कुतः कथय माम् ॥ ६ ॥
यदि पत्रे एकस्मिन् रचये खेलकमुडुपं विगर्हसे त्वम् ।
जनके पत्रेषु लिखति तूष्णीं वर्तसे तु किमर्थम् ॥ ७ ॥

The above is a rough rendering in Sanskrit of an English translation of Rabindranath Tagore’s poem in Bengali.
“Authorship
You say that father writes a lot of books, but what he writes I don't
understand.

He was reading to you all the evening, but could you really
make out what he meant?
What nice stores, mother, you can tell us! Why can't father
write like that, I wonder?
Did he never hear from his own mother stories of giants and
fairies and princesses?
Has he forgotten them all?
Often when he gets late for his bath you have to and call him
an hundred times.
You wait and keep his dishes warm for him, but he goes on
writing and forgets.
Father always plays at making books.
If ever I go to play in father's room, you come and call me,
"What a naughty child!"
If I make the slightest noise you say, "Don't you see that
father's at his work?"
What's the fun of always writing and writing?
When I take up father's pen or pencil and write upon his book
just as he does,-a,b,c,d,e,f,g,h,i,-why do you get cross with me
then, mother?
You never say a word when father writes.
When my father wastes such heaps of paper, mother, you don't
seem to mind at all.
But if I take only one sheet to take a boat with, you say,
"Child, how troublesome you are!"
What do you think of father's spoiling sheets and sheets of
paper with black marks all over both sides?
 “
- - - -