Follow by Email

Wednesday, August 31, 2011

Sanskrit blog: Humour-24

हास्यसीकरः -२४
एकदा केचन जनाः विमाने प्रयान्ति स्म । मध्येमार्गं विमानस्य यानयन्त्रे दोषः समपद्यत । पतनभीतिः प्रादुरभूत् । आपत्काले विमानकंचुकी सर्वेषां  प्राणरक्षककंचुकान् वितरति खलु । तथैव विमानकंचुकी यथाविधि वितरणार्थं कंचुकान् संख्याय सर्वान् इत्थमवदत्, भोः, निवेदितुं दुःखितोऽस्मि यत् विमानपतनभीतिरस्ति । अत्र कश्चित् धर्मनिष्ठः अस्ति किं यः ईश्वरं भक्त्या प्रार्थयितुं शक्तः? सज्जन एकः अवदत्, अहं धर्मनिष्ठः दैवभक्तश्च । अहं सर्वेषां क्षेमाय ईश्वरं प्रार्थयामि इति । विमानकंचुकी तं सज्जनमवदत्, आर्य, कृतज्ञोऽस्मि । अत्र वयं एकविंशतिः स्मः । परंतु प्राणरक्षककंचुकास्तु विंशतिरेव सन्ति । कृपया भवान् आत्मनः क्षेमाय ईश्वरं प्रार्थयतु । अन्येभ्यः अहं कंचुकान् वितरामि इति ।
- - - -

Saturday, August 27, 2011

Sanskrit blog: The obituary (A short story)


मरणनिवेदनम्

आगन्तुकामायां सन्ध्यायां वीथीदीपेषु तदानीमप्यदीपितेषु यदा मम स्वसा मामतर्जयत्, कुतस्त्वं तव गृहपाठं न सम्यक् कृतवती इति, अहं गृहदेहल्यां स्थिता अरुदम् । सन्ध्यामन्दप्रकाशे वीथ्यां मम निकटमागच्छन्तीं काञ्चिदहमपश्यम् । तस्यै स्वागतं वक्तुमहं प्रसन्नतां प्राप्तुमयते । सा मम वयस्या प्रभा इत्यहमभ्यजानां यदा सा अस्मद्गृहसोपानमारुह्य मम वामहस्तमगृह्णात् । विवर्णवदना प्रभा मम हस्तमात्मनः कम्पमानहस्ते प्रगृह्य उच्चैः रोदितुं प्रारभत । अहमपि रोदितुं प्रारभे । कतिपयक्षणादेव प्रसन्ना भवन्ती प्रभा मां मन्दस्वरेण अवदत्, पुष्पे, मा रुदः । दुःखदः उदन्तः मया इदानीं सायमेव अवगतः । मम पिता अद्यतनदिनपत्रिकायां मरणनिवेदनमपश्यत् मह्यमदर्शयच्च । इदं कथं समभवत्? इति । अश्रूणि प्रमृज्य अहमवदम्, किम्? किं समभवत्? इति । तव पिता, तव पिता इति वदन् सा बाहुमूले निहितां दिनपत्रिकां मम हस्ते न्यधात् ।
यावदहं पत्रिकां प्रसार्य पठितुमारभे तावदेव मम पिता गंभीरवदनः गृहाद्बहिरागच्छत् । भयत्रस्ता प्रभा झटिति परावृत्य अस्मद्गृहाङ्गणात् अधावत् । अहं रुदन् मम पितरमवदम्, प्रभा वदति तव मरणनिवेदनं पत्रिकायां प्रकटितमिति । मम पित्रा मम हस्तात् पत्रिकायां द्रुतं कृष्टायां, वीथीदीपाः दीपिता अभवन् । यावत् तेन स्वचित्रं पत्रिकायामभिज्ञातं तावदेव सः प्रसन्नवदनः हसितुमारभत अवदच्च, आम्, प्रकटनं मया एव निर्दिष्टम् इति । गद्गदगिरा अहं तमपृच्छम्, तात, कुतः,कुतः इति । सः मां सोत्कण्ठमाश्लिष्य, मम केशपाशं स्पृशन्नवदत्, वत्से, कुतः रोदिषि? अहं त्वत्समक्षमेव तिष्ठामि खलु ! मह्यं  मन्मरणसूचकं शकुनमेकमभवत् । मरणसूचकशकुनप्रतिक्रियार्थं अतथ्यमरणकिंवदन्तीं प्रसारयेदिति दैवज्ञाः कथयन्ति । अत एवाहं तथा अकरवम् । अवगतं खलु ? मा रुदः इति । पित्रा विगलिते बाहुबन्धे अहं हर्षात् उदपतम् ।
X X X
सुप्ताहं हस्ते मत्पितृमरणनिवेदनधरां दिनपत्रिकां गृह्णन्नेव शय्यायाः अधः अपतम् । झटिति जागृताया मम कतिपयदिनात् प्राक् वीथीदुर्घटने मृतः मम पिता न पुनरागमिष्यतीति यथार्थज्ञानं चाभवत् ।
[ममेयं लघुकथा ईषद्रूपान्तरिता कथाक्षेत्रे नाम्न्याम् इंग्लिष्-त्रैमासिकपत्रिकायां प्रकटिता आसीत्]
- - - -

Tuesday, August 23, 2011

Sanskrit blog: Humour_23

हास्यसीकरः_२३
कश्चन पुरुषः तस्य वैद्यमवदत्, मम भार्यायाः श्रवणसूक्ष्मता क्षयं जिगमिषतीव भाति । किं करणीयम्? वैद्यः प्रत्यवदत्, भवान् प्रथमतः इमां परीक्षां करोतु । महानसे किमपि कार्यं कुर्वत्याः तस्याः पश्चात् विंशतिहस्तदूरे स्थितः भवान् तां प्रश्नमेकं पृच्छतु । सा यदि प्रत्युत्तरं न ददाति तदा दशहस्तदूरे स्थितः तमेव प्रश्नं पृच्छतु । तदापि सा प्रत्युत्तरं न ददाति चेत् तदा पञ्चहस्तदूरे स्थितः तमॆव प्रश्नं पृच्छतु । यावत् सा प्रत्युत्तरं न ददाति तावत् इत्थं तस्याः समीपं गच्छन् प्रश्नमावर्तयतु । तदा तस्याः श्रवणसूक्ष्मता कियतीत्यवगता भवति ।
पुरुषः गृहं गत्वा महानसे अन्नं पचन्त्याः भार्यायाः पश्चादेत्य विंशतिहस्तदूरे स्थितः अपृच्छत्, प्रिये, अद्यावयोःअशनाय किम् इति । यदा सा न प्रत्यवदत् सः पञ्चदशहस्तदूरे स्थितः तमेव प्रश्नमपृच्छत् । सा तदापि न प्रत्यवदत् । दशहस्तदूरे स्थितः प्रश्नमपृच्छत् । पञ्चहस्तदूरे स्थितः प्रश्नमपृच्छत् । यदा द्विहस्तदूरे स्थितः प्रश्नमपृच्छत् तदा तस्याः उत्तरमशृणोत्, त्रिवारमहमकथयम्, अद्य कदलीशाकसमन्वितंसूपम् दध्यन्नं च इति । तव श्रवणसूक्ष्मता शोचनीया खलु"।
- - - -

Saturday, August 20, 2011

Sanskrit blog: Awake, my dear- A lyric

कान्ते जागृहि
कान्ते जागृहि जागृहि त्वमधुना गीतं मम श्रावय
प्राची दिक् प्रतिभाति धौतवसना रक्ताञ्चलाडम्बरा ।
गातुं वाञ्छति सप्तवर्णसहितं स्वालापमाकर्णय ।
स्वापं मुञ्च मुदा कुरुष्व तरसा त्वन्नादसम्मेलनम् ॥ १ ॥

कान्ते जागृहि भास्करस्य मधुरं काव्यं नवीनं शृणु

प्रस्तौति प्रथमानुरागकथनं वध्वा उषाया रविः ।
आस्वादस्व मयि प्रचोदय कवेर्नैपुण्यमप्राकृतम्
सत्काव्यंह्यनुवर्त्यते खलु बुधैः साहित्यसंसेवकैः ॥ २ ॥ 

कान्ते जागृहि भास्करो मृदुकरैः निर्माति चित्रं शुभम्

देव्या आगमनं दिशां प्रकटयन्त्याः स्वानुरागं रवौ ।
शीघ्रं लोकय चित्रभानुरचितं सद्वर्णसंयोजनम्
पत्रं चानय तूलिकां प्रतिकृतिं कर्तुं यते वल्लभे ॥ ३ ॥

कान्ते जागृहि भद्रमस्तु जगति प्रोत्सार्य सर्वं तमः

ज्योतिर्भातु सदामृतः प्रसरतु ध्वस्तश्च मृत्युर्भवेत्
सत्यं शाश्वतमाप्नुवाव सुचिरं  प्रोत्सार्य सत्येतरम्
आवाभ्यामनुभूयतां सखि मनस्यानन्दसूर्योदयः ॥ ४ ॥

The above is a rough rendering in Sanskrit of my Kannada poem published decades back which runs as follows:
ಏಳು ಏಳೆಲೆ ನಲ್ಲೆ
ಏಳು, ಏಳೆಲೆ ನಲ್ಲೆ; ಹಾಡೊಂದ ಹಾಡಾ.
ಬಾನ ಮೊಡಣದೆಸೆಯ ಸೆರಗನದೊ ನೋಡಾ.
ಸಪ್ತ್ತವರ್ಣಸ್ವರದ ರಾಗದಾಲಾಪಂ
ನಡೇಯಲಿಹುದಲಸದಿರು ಮೇಳವನು ಕೂಡಾ.

ಏಳು, ಏಳೆಲೆ ನಲ್ಲೆ; ರವಿಯ ನವಕಾವ್ಯಂ
ಉಷೆಯ ಅನುರಾಗವರ್ಣನೆಯಿದೊ ಭವ್ಯಂ!
ಸವಿಯ ಇದ; ಎನ್ನಭಾವಸ್ಫುರಣಕೆಡೆಯಂ
ನೀಡ; ಪೇರ್ಕೃತಿದನುಸರಣೆಯಿಂ ಸೇವ್ಯಂ.

ಏಳು, ಏಳೆಲೆ ನಲ್ಲೆ; ಚಿತ್ರಮಂ ಬರೆವನ್
ರವಿ-ರಾಗವತಿ ಉಷೆಯ ಮೆಲ್ಲನೆಯ ಬರವನ್.
ವರ್ಣಸಮರಸತೆಯಂ ನೋಡ, ಅಲಸಿಕೆಯ ಕಳೆ;
ಕುಂಚವನು ತಾರ; ಮೆಲ್ಲನೆ ಬಾರ; ಬರೆವೆನ್.

ಏಳು, ಏಳೆಲೆ ನಲ್ಲೆ; ತಮವಳಿಯುತಿಹುದು.
ಜ್ಯೋತಿಸಾಕ್ಷಾತ್ಕಾರ; ಮೃತ್ಯು ತೊಲಗಿಹುದು.
ಅಮೃತವೊದಗಿದೆ, ಇದೋ ಸತ್ತ್ವದುದ್ಭಾಸ;
ಗೃಹಿಣಿ, ಜೊತೆಗಾಗಿ ಬಾ ಆನಂದವಹುದು.
- - - -

Sunday, August 14, 2011

Sanskrit blog: Humour-22

हास्यसीकरः- २२
कश्चन सज्जनः मुहुर्मुहुः उत्प्लवमानं द्वारघण्ठासंघट्टने सततम् प्रयतमानं कमपि वामनं बालकं कस्यचिद्गृहस्य पुरतः अपश्यत् । बालकस्य साहाय्यार्थं सः सज्जनः तत्समीपं गत्वा द्वारघण्ठां समघट्टयत्, आत्मनः सुकृत्या नितरां प्रीतश्च तमवदत्, तव ईप्सितं प्राप्तं खलु । अद्य किं करवाव? इति । किशोरः किं करवाव? आवां द्रुतं धावाव इत्युच्चैर्वदन् सपद्येव अधावत् ।
- - - - 

Saturday, August 13, 2011

Sanskrit blog: For want of a shoe-nail


स्वल्पाभावात् संभवेत् सर्वनाशः
कीलाभावान्नोपयुक्तं खुरत्रं तस्याभावान्नोपयुक्तस्तुरङ्गः
अश्वाभावात् प्राचलन्नैव सादी युद्धे हानिः प्राभवत् साद्यभावात् ।
युद्धे घातात् राज्यमेव प्रणष्टं कीलाभावादेव राज्यस्य नाशः
स्वल्पाभावात् संभवेत् सर्वनाशः हन्तानूह्या हेतुकार्यप्रणाली ॥

Based on the Nursery Rhyme:
For want of a nail the shoe was lost.
For want of a shoe the horse was lost.
For want of a horse the rider was lost.
For want of a rider the battle was lost.
For want of a battle the kingdom was lost.
And all for the want of a horseshoe nail.
- - - - 

Wednesday, August 10, 2011

Sanskrit blog: Humour-21

हास्यसीकरः-२१
अमरसिंहः वयस्येन सह कदाचन देवालयं गतः । सर्वे पादुके अवतार्य देवालयं प्रविशन्ति खलु । पादस्यूतपादुकाधारी अमरसिंहस्तु पद्भ्यां पादस्यूतौ (socks) च अवतार्य देवालयं प्रविष्टः । पादस्यूतयोः एकः कृष्णवर्णः अपरः रक्तवर्णश्च आस्ताम् । वयस्यः तौ दृष्ट्वा अमरसिंहमपृच्छत्, मित्र, किमिदम्? एकः पादस्यूतः कृष्णवर्णः अन्यः रक्तवर्णश्च भवतः ? अमरसिंहः उत्तरमदात्, सखे, न जाने कथमित्थमभूदिति । मम गृहेऽपि सदृशौ पादस्यूतौ स्तः ययोः एकः रक्तः अन्यः कृष्णश्च । 
- - - -

Saturday, August 6, 2011

Sanskrit blog: What ails me?


कोऽसौ विकारः?

कार्याय कोष्ठं प्रविशामि पश्चादहं कुतोऽत्रेति विचिन्तयामि ।
कुत्रापि गोप्यं तु निवेश्य पश्चात् तद्वस्तु कुत्रेति गृहे ह्यटामि ।।
वृद्धेन मित्रेण चिरं प्रभाषे  किं नाम तस्येति च तर्कयामि ।
कोसौ विकारः कथयेति पृष्टो वैद्यो भणत्यर्पय निष्कमादौ ॥

- - - - 

Thursday, August 4, 2011

Sanskrit blog: Humour-20

हास्यसीकरः_२०
रत्नदत्तः शुण्डापानं गत्वा पानमेकमक्रीणात् । चषकात् किञ्चित् पानं पीत्वा शेषं पानं पानहरस्य मुखे प्राक्षिपत् । यावत् पानहरः चकितः संभ्रान्तश्च वक्तुमुद्यतः तावदेव रत्नदत्तः रोदितुं प्रारभत पानहरमवदच्च, सखे, तव क्षमां याचे । किं करवाणि ? एतत् दुष्कर्म महता यत्नेनापि रोद्धुमशक्तोऽहम् । पाने पाने एवमेव करोमि । परां व्रीडामनुभवामि रोदिमि च । जनाः कथयन्ति एषः मानसिकव्याधिः इति । पानहरः स्नेहशीलः अनुभवी च तमवदत्, आर्य, मा शुचः । मनोवैद्यमेकमहं जानामि । तेन संगम्य तस्य उपदेशं प्राप्नुहि । शुभं भूयात् इति । रत्नदत्तः वैद्यस्य नामधामविशेषान् पानहरात् लब्ध्वा तस्य उपकृतिं प्रशस्य शुण्डापानात् निरगच्छत् ।
गतेषु कतिपयमासेषु यदा रत्नदत्तः पुनरपि तदेव शुण्डापानमागतः तदा तं पानहरः अभ्यजानात् तमवदच्च, आर्य, अपि त्वं तं मनोवैद्यमगच्छः? रत्नदत्तः जगाद, बाढं सखे । त्वयाहं भूर्युपकृतोऽस्मि । मम व्याधिः निरस्तः इति । पानहरः प्रीतोऽभूत् ।
रत्नदत्तः यथापूर्वं पानं क्रीत्वा पातुं प्रारभत । किञ्चित् पीत्वा चषके अवशिष्टं पानं यथापूर्वं पानहरस्य मुखे प्राक्षिपत् । पानहरः दिग्भ्रान्तः रुष्टश्च अभाषत, आर्य किमिदम्? पुनरपि मम मुखे पानं प्रक्षिपसि? व्याधिः निरस्तः इति च वदसि?  । रत्नदत्तः शान्त एव अवदत्, अथ किम् । इदानीं तु यथापूर्वं कुर्वन्नपि अहं व्रीडितो न भवामि न रोदिमि च ।
- - - -