Follow by Email

Saturday, May 28, 2016

Sanskrit blog: Chandrika ( A Fairy tale)-39

चन्द्रिका-३९

निमेषमात्रेण चकार चन्द्रिकां
विभूषणैः पार्थिवकन्यकोचितैः ।
महार्घरत्नैः खचितैः विभूषितां
स्फुरत्प्रभामुष्टभवृन्ददीप्तिभिः ॥ १५१ ॥

सुवर्णसूत्रोतदुकूलनिर्मित-
स्वरङ्गनारोचककञ्चुकावृता ।
बभूव सद्यः लसदुज्ज्वलप्रभा
देवीकृपाधारबलेन चन्द्रिका ॥ १५२ ॥

सामोदपुष्पैः सुविविक्तवर्णकैः
शिरोरुहाः दक्षतयैव मण्डिताः ।
नेत्रे सुपक्ष्मेऽभजतां मनोज्ञतां
तस्याः सुनीलाञ्जनसूक्ष्मरेखया ॥ १५३ ॥

रक्तौष्ठलेपेन जपासुमत्विषं     
सुखेन नारङ्गदलोपमाधरौ 
अवापतुः चन्द्रिकयाप्यलक्षितौ
प्रसारयन्तौ तरुणार्कवद्द्युतिम् ॥ १५४ ॥
- - - - 

Monday, May 23, 2016

Sanskrit blog: Chandrika ( A Fairy tale)-38

चन्द्रिका-३८
ततक्ष कूष्माण्डमपूर्वकौशलात्
निरूपयामास रथाकृतिं दृढाम् |
निमेषमात्रेण रथं नृपोचितं
देवी महान्तं ससृजे स्फुरद्ध्वजम् ॥ १४७ ॥   

आदर्शवत् श्लक्ष्णमपूर्वसुन्दरं
सुवर्णलिप्तप्रतिमाभिशोभितम् ।
महेन्द्रयानोपममैक्षतोत्सुका
निमेषहीना रथमेव चन्द्रिका ॥ १४८ ॥

देवी तु तूर्णं चतुरो तुरङ्गमान्
संस्पृश्य मार्जालधृतान् बिलेशयान् ।
व्यकल्पयत् पुष्टबलिष्ठबन्धुरान्
प्रकाशयन्ती निजहस्तलाघवम् ॥ १४९ ॥

विधाय सूतं सिततोत्रशोभितं
तथाखुनैकेन दृढेन लीलया ।
अन्येन योधं शितखड्गधारिणं
रथाभिपालं तरुणं विनिर्ममे ॥ १५० ॥
- - - -

Saturday, May 14, 2016

Sanskrit blog: Chandrika ( A Fairy tale)-37

चन्द्रिका-३७

मार्जालमप्यादिशतार्द्रलोचनं
षण्मूषकानानय जीविनो द्रुतम् ।
वनात् बिलाद्वाथ महानसाद्वा
त्वत्स्वामिनीभाव्यसुखप्रदास्ते ॥ १४४ ॥

श्रुत्वा निदेशं स दधाव निष्कुटं
कुतूहलोत्साहभयप्रचोदितः ।
वक्त्रे गृहीत्वा पृथुलान् बिलेशयान्
क्षणात्प्रतीयाय कृतार्थतोद्धतः ॥ १४५ ॥

अत्रान्तरे सम्भ्रमनुत्तसाध्वसा
प्रत्यागता गेहवनात् गृहान्तरम् ।
प्रगृह्य कूष्माण्डमखण्डवर्तुलं
चन्द्रोपमं मन्दजवेन चन्द्रिका ॥ १४६ ॥
- - - -

Saturday, May 7, 2016

Sanskrit blog: Chandrika ( A Fairy tale)-36

चन्द्रिका-३६

प्रसह्य देवी स्फुरदुज्ज्वलप्रभा
या प्रादुरासीत् जपकर्षिता पुरा ।
प्रत्यक्षतां प्राप्य जगाद चन्द्रिकां
वत्से प्रियं किं करवाणि तद्वद ॥ १४१ ॥

चन्द्रप्रभायामधुना नृपात्मजः
वृणोति पत्नीं किल नृत्यवृन्दे ।
यास्याम्यहं तत्र यथा विभूषिता
मातः कुरु त्वं करुणानिधे तथा ॥ १४२ ॥

इति ब्रुवन्तीं परिरभ्य चन्द्रिकाम्
आघ्राय मूर्ध्नि प्रजगाद देवता।
कूष्माण्डमेकं गृहवाटिकाज्जवात्
उपानयापक्वमपेतमार्दवम् ॥ १४३ ॥ 
- - - -