Follow by Email

Saturday, April 30, 2016

Sanskrit blog: Chandrika (A Fairy tale)-35

चन्द्रिका-३५

पश्यन्ती दरचकिता बिडाललीलां
सस्माराभयवचनं मुनेः पुरोक्तम् ।
प्रागेव प्रकटितसार्थकप्रयोगं
संस्मृत्यामितसुषमामवाप तन्वी ॥ १३९ ॥

चित्ते तं समुचितसूचकं बिडालं
वन्दित्वा प्रशमितधीः दृढप्रतिज्ञा ।
संस्थायादृतकमलासनेऽजपत्सा
साधूक्ताभिलषितदं क्रमेण मन्त्रम् ॥ १४० ॥
- - - - 

Saturday, April 23, 2016

Sanskrit blog: Chandrika (A Fairy tale)-34

चन्द्रिका-३४

अश्वोढे ललितरथे द्रुतं गतायां
वैमात्र्यां नरपगृहं सह स्वमात्रा ।
दिङ्मूढा चिरमरुदत्स्वमन्दभाग्ये
मार्जालं हृदि परिरभ्य चन्द्रिकार्ता ॥ १३७ ॥

मार्जालः परिपतति स्म सान्त्वनार्थं
मा शोचीरिति वदतीव तामुपेत्य ।
तिर्यञ्चः स्वहितजनस्य सर्वभावान्
जानन्ति प्रकृतिगतेङ्गितावबोधात् ॥ १३८ ॥ 
- - - - 

Sunday, April 17, 2016

Sanskrit blog: Chandrika ( A Fairy tale)-33

चन्द्रिका -३३

औत्सुक्यं निरवधिकं गृहे कलायाः
सम्भ्रान्ते खलु विदधे कलामुमां च।
स्मर्तव्यं बहु नरपस्य सन्निधाने
वाग्दोषा दुरभिरुचिश्च गूहितव्याः ॥ १३५ ॥ 

नासाग्रे स्फुरदमलं मनोज्ञवज्रं
कण्ठे चाप्रतिमरुचिः प्रलम्बमाला ।
नाभ्यन्ते कनकमयी महार्घकाञ्ची
नैराश्यं किमु कथयन्त्यहो ह्युमायाः ॥ १३६ ॥    
  - - - -  

Saturday, April 9, 2016

Sanskrit blog: Chandrika (A Fairy tale)-32

चन्द्रिका-३२

श्रुत्वा तामभिभवकारिणीं दुरुक्तिं
दासीव व्यथितमतिः विनम्रमौलिः ।
नोवाच प्रतिवचनं प्रसह्य कोष्ठं
तत्याज प्रणतजनस्य कोऽन्यमार्गः ॥ १३२ ॥                   

आयाता पुरललनासु पौर्णमासी
आशेन्दीवरमुकुलान्विकासयन्ती ।
ऐश्वर्याप्लुतवरगृहेषु संस्थितासु
दारिद्र्योपहततृणावृतोटजेषु ॥ १३३ ॥

रथ्याः शीतसलिलसीकरैः प्रसिक्ताः
आमोदाः मलयजचन्दनप्रसूताः ।
नानावर्णसुमदलावृताः प्रकोष्ठाः
पौराणां मुदमवदन्निवापुरान्तम् ॥ १३४  ॥
- - - - 

Saturday, April 2, 2016

Sanskrit blog; Chandrika ( A Fairy tale)-31

चन्द्रिका-३१
 श्रुत्वैतत्सपदि कलाप्युमां स्वपुत्रीं
 सज्जीकर्तुमयतत स्वनिश्चयाक्ता ।
 भूषालङ्करणगणैः महार्घवस्त्रैः
 किं भूषा किमु वसनं ह्यरूपवत्याः ॥ १२८ ॥    

संश्रुत्य श्रवणसुखामपूर्ववार्ताम्
 उत्कण्ठां ह्यलभत चन्द्रिकाप्यवर्ण्याम् ।
 किं राज्ञः प्रियतनयस्य कम्रपाणेः-
 स्पर्शेनोद्गतपुलकाः न मामकीनाः ॥ १२९ ॥

 उद्युक्तां जनपसुतस्य नृत्यगोष्ठीं
 औत्सुक्यादपरिमिताज्जवेन गन्तुम् ।
 वैमात्रीं प्रणतमुखी मिथो ययाचे
 गच्छेयं नृपसदनं त्वया सहाह्म् ॥१३० ॥

मात्सर्यं कथमपि गूहितुं प्रवृत्ता
व्याचष्टे स्म मधुरसावहासवाग्भिः ।   
हञ्जे त्वां नृपसुत एव नाययेद्वै
मृग्यन्ते तव सदृशाः कुलीननार्यः॥ १३१ ॥
- - - -