Sunday, December 31, 2017

New Year Wishes नववर्षाशंसा



नववर्षाशंसा
स्वराष्ट्रे स्वधर्मे स्ववर्णेऽभिमानं
स्ववाण्यामतिक्रम्य सन्मानवत्त्वम् ।
जना हायनेऽस्मिन् श्रयन्तु क्षुधार्ता
लभन्तां सुखाद्यं शरण्यान् भयार्ताः ॥
विनाशस्य मार्गं विहायाप्रमत्ताः
प्रधाना विवेकेन देशान्नयेयुः ।    
प्रशान्तिः समेषां जनानां हृदि स्यात्
            जनन्यो भवन्तु स्मितास्याः समन्तात् ॥ 
- - - - 

Sunday, June 25, 2017

Sanskrit Blog: Aarye

आर्ये

आर्ये छन्दोविज्ञाः निरूपयन्ति तव लक्षणं सुभगे
एवं यत्कविवर्याः सुकरमनुसरन्ति विश्रब्धाः
मात्राश्चत्वारोऽत्र गणे तादृक्सप्त सन्ति पूर्वार्धे
अन्ते गुरुश्च विषमो न भवति जगणस्तु षष्ठो जः
अथवा सर्वलघुः प्रथमलघोः पश्चाद्यतिर्नियमितश्च
सप्तमगणो यदा सर्वलघुः यतिरेव षष्ठान्ते ॥३
अपरार्धेऽपि हि सप्तगणाः षष्ठो भवति लघुरिति नियमश्च
तुर्यान्ते हि यतिः पञ्चमे तु सकललघुकृते सति
आर्ये नियमैरेतैर्बद्धाऽपि कविवरकौशलबलात्त्वम्
कमनीया भासि सुमधुरपदैस्समुचित सरसभावैः
भासभवभूत्यमरुकालिदासगोवर्धनादिकविसृष्टैः
नाहं कविर्नविपश्चिदपि चापल्येन प्रचोदितः
त्वां शिथिलितनियमामेवं मम सौकर्यमेव समीक्ष्य
निरूपयामि क्षमस्व तव सुषमा ह्रासमविन्दत् किम्
पूर्वार्धे सप्तगणाः सन्ति चतुर्मात्राः गुरुरन्ते
उत्तरस्मिन् भवति षष्ठगणस्य स्थाने लघुरेकलः
सर्वे पञ्चविकल्पाः सर्वत्र यथामतिप्रयोज्याश्च
द्वादशमात्रान्ते यतिरवश्य उभयार्धयोरत्र
इत्थं शिथिलितनियमां त्वां रचयाम्यत्र कथय तव रूपम् ।
विदुषां भोग्यं न भवति किं मयि रुष्टा भवसि वद माम् ॥ १० ॥
----

Saturday, February 4, 2017

Sanskrit blog: Ramblings of Thimmu, the dull-headed

मूढतिम्मोः जल्पनम्

श्रान्तं धरायां हि ससुखं स्वपन्तं त्व-
मुत्तिष्ठ विचिनु शय्यामिति वदसि किम्? ।
तृप्तिं न नाशयेदुपकृतिभ्रान्त्या तु

दुष्करं ह्युपकृतिर्मूढतिम्मो ॥ ८७३ ॥
Rough translation of the following Kannada verse [ಡಿವೀಜೀ ಯವರ ಮಂಕುತಿಮ್ಮನ ಕಗ್ಗ-ಪದ್ಯ ಸಂ.೮೭೩]
ಬಳಲಿ ನೆಲದಲಿ ಮಲಗಿ ಮೈಮರೆತು ನಿದ್ರಿಪನ
ಕುಲುಕಿ ಹಾಸಿಗೆಯನರಸೆನುವುದುಪಕೃತಿಯೆ ?
ಒಳಿತನೆಸಗುವೆನೆಂದು ನೆಮ್ಮದಿಯ ನುಂಗದಿರು
ಸುಲಭವಲ್ಲೊಳಿತೆಸಗೆ ಮಂಕುತಿಮ್ಮ || ೮೭೩ ||
- - - -

Sunday, January 22, 2017

Sanskrot blog: Chandrika ( A Fairy tale)-73

चन्द्रिका-७३
  एकाकिनी नु कथमेषि विहाय पुत्र्यौ
मा गा इह क्षपय कालमिति ब्रुवन्तीम्।        
पुत्रीमुमामवदतीप्सितनिर्णयां माम्
  रुन्धे न कोऽपि शमथं भज मा शुचस्त्वम् ॥ २५९ ॥
श्रुत्वा स्पष्टं गिरिवदचलं निश्चयं तं कलायाः
तस्या अङ्कं प्रति निरगमत् चन्द्रिकाङ्कात् बिडालः ।
एकाकिन्यै सहचरसुखं रक्षणं च प्रदातुं
      तिर्यक्जन्तुः स्वऋजुचरितैः दर्शयेत् तत्त्वमार्गम् ॥ २६० ॥
  मार्जारेणान्वहमनुसृतागात् कला पुण्यकाशीं
  भर्त्राश्वस्ता प्रियसहचरी चन्द्रिका दीपयन्ती ।
  राज्ञः सौधं पुरजनपदान् स्मेरवक्त्रा बभासे
  भुञ्जानेष्टान् युवसमुचितान् धर्म्यकामान् समृद्धान् ॥ २६१ ॥

चन्द्रिकाख्यं खण्डकाव्यं सम्पूर्णम्
     - - - - 

Saturday, January 14, 2017

Sanskrit blog: Chandrika (A Fairy tale)-72

चन्द्रिका-७२
 सप्रश्रयं स्वजननीं प्रणिपत्य पुत्र्यौ
बाष्पावरुद्धवचसागदतां विनम्रे ।
अद्यप्रभृत्यपगतं तव कृच्छ्रजातम्
अस्मद्गृहे गतभया सुखमास्व मातः ॥ २५६ ॥
माता विहस्य जनसंसदि सानुतापं
लज्जानुलिप्तवचसा न्यगदत्स्वपुत्र्यौ ।
तुष्टास्मि भोः सपदि चन्द्रिकयोपदिष्टा  
नास्तीह कार्यमधुना मम जागृताहम् ॥ २५७ ॥
वाराणसीं जिगमिषामि ममात्मशान्त्यै
पायात् हरिः पुरजनान् सकलांश्च युष्मान् ।
यस्यांघ्रियुग्ममनिशं मनुजाः स्मरन्तः
विन्दन्ति शाश्वतसुखं तमहं श्रयामि ॥ २५८ ॥
- - - -

                                

Sunday, January 8, 2017

Sanskrit blog: Chandrika ( A Fairy tale )-71

चन्द्रिका-७१

नात्राभवत् परिणतः न युवा न बालः
योऽन्नप्रदानमनुभूय न तृप्तिमाप |
नैवाभवच्च युवतिः स्थविरा कुमारी
योपायनं न परिगृह्य विवेद तुष्टिम् ॥ २५३ ॥

राजस्नुषाभिमतमेतदिति ब्रुवाणैः
तत्तत्पशूचितनवीनसुसिद्धखाद्यैः ।    
सम्प्रीणिताः नगरगोव्रजपक्षिवृन्दाः
मार्जालकुक्करगणाः धरणीशभृत्यैः ॥ २५४ ॥

बध्वौ स्वभर्तृसहितेऽमितभोगभाग्ये
पादार्चनाय जननीमभिजग्मतुस्ते ।
दुःखं सुखं च युगपत् ह्यनुभूय माता         

वर्षातपाहतधरेव बभौ विमूढा ॥ २५५ ॥
- - - -