चन्द्रिका-४३
वृथास्मदीयं सकलं प्रसाधनं
विनापि तेनेयमुषेव दीपयेत्
।
इति ब्रुवाणा ललना
हतेप्सिताः
न गूहितुं शेकुरवार्यमत्सरम्
॥ १६४ ॥
रथे नृपावाससमीपमागते
बद्धाञ्जलिः प्रत्युदगात्ससम्भ्रमम् ।
वहन् रथस्थां वनितां स्वदृष्टिभिः
राजप्रतीहारगणः सुशिक्षितः ॥ १६५ ॥
सौभाग्यवान्नूनमिमां मनोहरां
नृपस्य पुत्रो वरयेत् हरीच्छया ।
प्रजल्पतीत्थं बहुशो मिथो जने
रथात्प्रसन्नावततार चन्द्रिका ॥ १६६ ॥
- - - -
No comments:
Post a Comment