चन्द्रिका-५७
शृणुत क्षितिपालयं व्रजामि
प्रसभं कामदुघां समर्च्य देवीम् ।
समयः प्रतिपाल्यतां भवद्भिः
इति सा प्रार्थयतागतान् विनम्रा ॥ २१३ ॥
प्रमदाऽतुलभक्तिभावपूर्णा
मुनिदत्तं प्रबलं जजाप मन्त्रम् ।
स्वतनुं प्रणिधाय नैजकक्षे
रहसि स्वस्थमनाः निमील्य नेत्रे ॥ २१४ ॥
सपदि स्मिततोयसिक्तवक्त्रा
विबुधस्त्री शुभमूर्तिराविरासीत् ।
तनये वद किं मयाद्य कार्यं
अनुकम्पा त्वयि मे सदेत्यवादीत् ॥ २१५ ॥- - - -
No comments:
Post a Comment