Follow by Email

Tuesday, December 31, 2013

Sanskrit blog: New Year Greetings

नववर्षशुभाकाङ्क्षा
आशासेऽस्मिन्प्रथमदिवसे हायने जायमाने ।
विश्वेशो वो वितरतु शुभान्यन्वहं नूत्नवर्षे ।
सत्संकल्पाः ससुखफलतां यान्तु देवप्रसादात् ।  

स्वैरं नृत्यत्वनुदिनमनिशं मन्दहासो मुखेषु ॥
- - - - 

Saturday, December 28, 2013

Sanskrit blog: Humour-88

हास्यसीकरः-८८
क्रिस्तदेवालयस्य अर्चकः साप्ताहिकप्रवचनाय देवालये जनान् समीक्षते स्म । चिराय एक एव कर्षकः आगतः ।अर्चकः तमपृच्छत्, “भोः अद्य मम प्रवचनाय एक एव आगतोऽसि । किमहं प्रभाषै उत न?” इति । कर्षकः सप्रश्रयं प्रत्यवदत्, “ भगवन्, भवान् किमित्थं पृच्छति ? कुक्कुटपरिवेषणसमये यदि एक एव कुक्कुटः आगच्छति तदा तस्मै खाद्यं न देयं किम्?” इति । कर्षकप्रत्युत्तरेण विस्मितः अर्चकः तमवदत्, “भोः, तव विवक्षितमवगतम् । अवहितः शृणु” इत्युक्त्वा निरर्गलं सार्धघटिकापर्यन्तं बभाषे । अन्ते अर्चकः कर्षकमपृच्छत्, “भोः, कच्चिन्मम प्रवचनं समीचीनम्?” इति । तदा कर्षकः प्रत्यवदत्, “भगवन्, खादनसमये यदि एक एव कुक्कुटः समागतः तदा सर्वं द्रोणप्रमाणं खाद्यं तस्मै न समर्पयामि खलु “इति ।
- - - -  

Friday, December 20, 2013

Sanskrit blog: Happiness

तुष्टिः
चित्रशलभमभिधावसि चेत्त्वम् तं ग्रहीष्यसि कदापि न मित्र ।
त्वं भविष्यसि यदा निरपेक्षः स्वैरमेव   स उपैति खलु त्वाम् ॥
तद्वदेव यदि वाञ्छसि तुष्टिं तामनुसृत्य कदापि न गच्छेः ।
यद्युदास इव तिष्ठसि चेत्त्वाम् स्वेच्छया खलु सा त्वभिधावेत् ॥

A rough rendering in Sanskrit of the following:

“Happiness is a butterfly which, when pursued, is always beyond our grasp, but which if you will sit down quietly, may alight upon you.”
- - - - 

Saturday, December 14, 2013

Sanskrit:Humour-87

हास्यसीकरः-८७
स्त्री पत्या सह कलहमकरोत् । तदनु स्वमातरं दूरवाण्या अवदत्, “अम्ब, पुनः मम भर्ता मया सह कलहमकरोत् । तेन सह जीवनं दुष्करम् । तव गृहमागमिष्यामि” इति । माता अवदत्,”वत्से, त्वमत्र आगमिष्यसि चेत् सः सुखी एव भविष्यति । तस्य अपराध: दण्डनीयः । अहमेव तत्र आगमिष्यामि । मम उपस्थित्या एव तं दण्डयिष्यसि” इति ।
- - - -  

Saturday, December 7, 2013

Sanskrit blog: Homage to Mandela

मण्डेलाश्रद्धाञ्जलिः
यो जज्ञेऽसितवर्णभूपतिकुले ऽवाङाफ्रिकाभूस्थले ।
येन श्वेतजनप्रशासनविरोधार्थं कृतो विग्रहः ।
यो श्वेतैः बहुवत्सरावधि तनुद्वीपे निबद्धो ऽभवत् ।
यो पश्चात् सकलैः सितासितजनैः देशेषु सम्भावितः ।
राष्टाध्यक्षपदं मुदा सविनयं धीरेण येनार्जितम् ।
नोबेल्भारतरत्नपदवीभाग्यो महान् निःस्पृहः ।
गान्धीमार्गचरः सदास्मितमुखो लोकप्रियः सज्जनः ।

मण्डेलाख्यमहोदयाय भवते श्रद्धाञ्जलिं दद्महे ॥
- - - - 

Saturday, November 30, 2013

Sanskrit blog: Thus spake Timmu the dull-headed

मूढतिम्मुरुवाच
बाह्ये जनासक्तिरन्तर्विरक्तिस्तु ।
बाह्ये तु कर्मरतिरन्तर्निरीहा ।
अन्तरवधीरणा संस्कृतिभरो बहिः
योगमार्गः स खलु मूढतिम्मो ॥

From DVG’s “Manku timmana kagga” in Kannada:
ಹೊರಗೆ ಲೋಕಾಸಕ್ತಿಯೊಳಗೆ ಸಕಲವಿರಕ್ತಿ
ಹೊರಗೆ ಕಾರ್ಯಧ್ಯಾನವೊಳಗುದಾಸೀನ |
ಹೊರಗೆ ಸಂಸ್ಕೃತಿಭಾರವೊಳಗದರ ತಾತ್ಸಾರ
ವರಯೋಗಮಾರ್ಗವಿದು ಮಂಕುತಿಮ್ಮ|| ೭೭೩||
- - - - 

Friday, November 22, 2013

Sanskrit blog: Humour-86

हास्यसीकरः-८६
त्रयः पुरुषाः कस्मिंश्चित् निर्जने द्वीपे नौकाघातात् क्षिप्ता अभवन् । किंकर्तव्यतामूढाः ते ईश्वरं प्रार्थयामासुः । काले गते कश्चन दिव्यरूपधारी पुरुषः प्रत्यक्षः अभूत् । सः तानवदत्,” भोः, ईश्वरेण प्रेषितोऽहम् । प्रीतोऽस्मि, एकैकः एकं वरं वृणीताम् “इति । प्रथमः अवदत्, “देव, मां मद्गृहं प्रहिणोतु” इति । तथैव अभवत् । द्वितीयोऽपि तथैव स्वगृहमगच्छत् । देवेन पृष्टः तृतीयः स्मितवदनः अवदत्, “देव, अहमेकाकी अस्मि । अत्र मम मित्रयोः पुनरागमनं वाञ्छामि” इति । हन्त! ते मित्रे पुनरागते ।
- - - - 

Friday, November 15, 2013

Sanskrit blog: A lyric of Rumi

रूमिरुवाच
मदुत्कटेच्छा  विहगस्य कूजितैः प्रशान्तिमाप्नोत्यहमप्यमेयम् ।
प्रहर्षमाप्नोमि विहंगवन्मन्-मुखेन गायेः किमपीश्वर त्वम् ॥
A rough rendering of
Birdsong brings relief
to my longing
I'm just as ecstatic as they are,
but with nothing to say!
Please universal soul, practice
some song or something through me! 

Jalal ad-Dīn Muhammad Rumi
- - - - 

Saturday, November 9, 2013

Sanskrit blog: Humour-85

हास्यसीकरः-८५
कदाचित्  न्यायवादी वृद्धश्च विमानयाने परस्परपार्श्वपीठयोः उपविष्टौ आस्ताम् । अध्वा दीर्घ आसीत् । कालयापनाय परस्परं समभाषेताम् ।सर्वज्ञंमन्यः न्यायवादी वृद्धं जडमतिममनुत तमवदच्च, “भोः, कच्चित् कालयापनाय क्रीडितुमिच्छसि ?” इति । वृद्धः अवदत्, “का क्रीडा?”
न्यायवादी : प्रश्नमेकं प्रक्ष्यामि । यदि सदुत्तरं  न दास्यसि तदा मह्यं पञ्चाशत्‍रूप्यकाणि दास्यसि । ततः त्वं मां प्रश्नमेकं  प्रक्ष्यसि । यद्यहम् सदुत्तरं न दास्यामि तदा अहं तुभ्यं पञ्चशतं रूप्यकाणि दास्यामि । अवगच्छसि किम्? क्रीडितुम् अनुमनुषे किम्?”

वृद्धः सुषुप्सुरासीत् तथापि क्रीडितुमनुमेने । न्यायवादी वृद्धमपृच्छत्, “ चन्द्रः भूम्याः कियद्दूरे अस्ति?”। वृद्धः ,”न जाने” इति वदन् तस्मै पञ्चाशत्‍रूप्यकाणि  ददौ । वृद्धः न्यायवादिनमपृच्छत्, “ आरोहणे द्विपाद् अवरोहणे तु त्रिपाद् कोऽयम्?” । न्यायवादी बहुकालमचिन्तयत् तथापि तस्मै उत्तरं नाभात् तदा पराजितः वृद्धाय पंचशतं रूप्यकाणि ददौ । वृद्धः धनं स्वीकृत्य स्वप्तुमारभत । न्यायवादी पराभूतः तं वृद्धं पुनः अपृच्छत्, “तव प्रश्नस्य उत्तरं किम्?” । वृद्धः, “न जाने” इति वदन् न्यायवादिने पञ्चाशत्‍रूप्यकाणि दत्त्वा सुखं सुष्वाप ।
- - - - 

Friday, November 1, 2013

Sanskrit blog: Dipavali Greetings

दीपोत्सवशुभाकाङ्क्षा
प्रज्वाल्यान्तः प्रदीपं सकलमतमनुष्या समा इत्यमोघम् ।
अन्धश्रद्धाभिजातं मतजनितमदं नाशयित्वान्धकारम् ।
पर्वानुष्ठानकार्ये प्रकृतिपरिसरादूषणं पोषयित्वा ।

दीपावल्याख्यपर्व प्रदिशतु सकलक्षेमसौभाग्यभूतिम् ।।
- - - - 

Saturday, October 26, 2013

Sanskrit blog: Humour-84

हास्यसीकरः-८४
श्चन युवा भारतीयप्रशासनिकसेवापरीक्षायाः वाचिकपक्षे भागं वहति स्म ।सः कदा भारतं स्वातन्त्र्यमलभत इति पृष्टः उत्तरमदात्, “कतिपयवर्षेभ्यः प्राक् प्रारब्धः सततः प्रयत्नः अन्ततः क्रिस्तशके १९४७ वर्षे सफलः अभवत्” इति । अस्मद्स्वतन्त्रतायाः कारणभूतः कः इति पृष्टः सः प्रत्यवदत्, “ बहवः कारणभूताः । यद्यहं तेष्वेकतमं आख्यास्यामि चेत् तदा अन्ये परिभूताः भवेयुः” इति । तदा कच्चिदुत्कोचग्रहणं देशे उल्बणतमं सङ्कटमिति पृष्टः सः प्रत्युवाच, “ इदानीं एतद्विषये संशोधनं क्रियमाणम् अस्ति । संशोधनपरिणामादनन्तरमेव वक्तुं शक्यम्” इति । तुष्टाः प्राश्निकाः तमवदन्, “भोः, अस्मद्प्रश्नाः गोप्याः । अन्येभ्यः न वक्तव्याः । गम्यताम्” इति ।
कोष्ठात्बहिः यदा स युवा आगतः तदा अन्ये अर्थिनः तमपृच्छन्, “भोः, ब्रूहि, किं पृष्टम्?” । सः अवदत्, “प्रश्नाः गोप्याः । वक्तुं न शक्नोमि” इति । तेषुकश्चन धर्मसिंहनामा तमवदत्, “प्रश्नाः गोप्याः भवेयुः । उत्तराणि गोप्यानि न भवन्ति । तानि मे निभृतं ब्रूहि” इति । तदा स युवा आत्मना दत्तानि उत्तराणि तस्मै समार्पयत्। प्रगल्भः धर्मसिंहः तान्युत्तराणि कंठगतान्यकरोत् ।

यदा धर्मसिंहः वाचिकपरीक्षार्थम् आहूतः तदा आदौ प्राश्निकेन सः पृष्टः, “ तव जन्म कदा अभवत्?” इति । सः प्रत्यवदत्,  कतिपयवर्षेभ्यः प्राक् प्रारब्धः  सततःप्रयत्नः अन्ततः क्रिस्तशके १९४७ वर्षे सफलः अभवत्” इति । उत्तरेण विस्मितः तमपृच्छत्, “ तव पितुर्नाम किम्?” इति । सः प्रत्यवदत्, ““ बहवः कारणभूताः । यद्यहं तेष्वेकतममाख्यास्यामि चेत् तदा अन्ये परिभूताः भवेयुः” इति । रुष्टः प्राश्निकः अपृच्छत्, “ भ्रान्तः असि किम्?” इति । सः विनीतः प्रत्युवाच  
“ इदानीं एतद्विषये संशोधनं क्रियमाणम् अस्ति । संशोधनपरिणामादनन्तरमेव वक्तुं शक्यम्” इति ।
- - - - 

Saturday, October 19, 2013

Sanskrit blog: Child's smile

शिशुस्मितम्
लसत्स्मितं पश्य शिशोर्मुखेऽङ्के सुप्तस्य मातुः सुचिरं प्रशान्तम् ।
वदास्ति हे तत्सदृशं किमन्यदस्त्यत्र लोके शिशिरं मनोज्ञम् ॥

सोमाच्च सौम्यं मधुनश्च मिष्टं सुगन्धि तत्  केतकपुष्पगन्धात् ।
वीणानिनादात् खलु मञ्जुलं तत् कौशेयवस्त्रान्मृदु सर्वकाले ॥ 
- - - - 

Saturday, October 12, 2013

Sanskrit blog: Humour-83

हास्यसीकरः-८३
मित्रे देवदत्तब्रह्मदत्तौ मिष्टान्नविपणिं काञ्चन प्राविशताम् । पश्यतः देवदत्तस्य ब्रह्मदत्तः विपणौ त्रीणि चाकोलेटभिधानि मिष्टानि चोरयित्वा तानि स्वकञ्चुकस्यूते न्यवेशयत् ।  विपणी तच्चौर्यं नापश्यत्  । ब्रह्मदत्तः विपण्याः बहिरागत्य देवदत्तं सगर्वमवदत्, “पश्य, मम साहसम् । विपणिना अदृष्ट एव सुकरमहमचूचुरम्” इति । देवदत्तः तं “ तव साहसात् चतुरतरं साहसं करिष्यामि । पश्यतो विपणिनः मिष्टानि चोरयिष्यामि । द्रक्ष्यसि किम्? । आगच्छ, विपणिं पुनः प्रविशाव” इत्यब्रवीत् । तौ विपणिं प्रविष्टौ । देवदत्तः विपणिनमवदत्, “आर्य, अनुमन्यसे चेत् तुभ्यं मायामेकां दर्शयितुमिच्छामि” इति । विपणी अनुमेने । देवदत्तः विपणिनमवदत्, “मह्यं त्रीणि चाकोलेट्-मिष्टानि देहि” इति । विपणी तथैव अकरोत् । देवदत्तः तानि प्रसभमखादत् । क्रुद्धः विपणी देवदत्तमपृच्छत्, “तत्र का माया?” । देवदत्तः अवदत्, “इदानीं ब्रह्मदत्तस्य कञ्चुकस्यूते पश्य । तत्र त्रीण्यपि भवन्ति” इति ।
- - - -  

Friday, October 4, 2013

Sanskrit blog: Thus spake Timmu the dull headed

मूढतिम्मुरुवाच
ज्ञात्वा स्वबलमितिं  ज्ञात्वा स्व गुणगणम्
बाह्यस्थितिं चैव सूक्ष्मं विलोक्य ।
कार्यस्यपरिधिमनतिक्रम्य  कुर्यात्
धन्यः स धीरो हि मूढतिम्मो ॥

From DVG’s “Manku timmana kagga” in Kannada:
ತನ್ನ ಶಕ್ತಿಯನಳೆದು ತನ್ನ ಗುಣಗಳ ಬಗೆದು
ಸನ್ನಿವೇಶದ ಸೂಕ್ಷ್ಮವರಿತು, ಧೃತಿದಳೆದು
ತನ್ನ ಕರ್ತವ್ಯಪರಿಧಿಯ ಮೀರದುಜ್ಜುಗಿಸೆ

ಪುಣ್ಯಶಾಲಿಯ ಪಾಡು ಮಂಕುತಿಮ್ಮ || ೫೭೬ ||
- - - - 

Saturday, September 28, 2013

Sanskrit blog: Humour-82

हास्यसीकरः-८२
त्रयः बालकाः परस्परं आत्मनः पितॄणां धावनरयविषये सगर्वं कत्थन्ते स्म ।
प्रथमः : अये, शृणुतं, मम पिता धनुर्धारी । तेन क्षिप्तः शरः यावत् लक्ष्यं प्राप्नोति तावदेव स एव द्रुतं धावन् लक्ष्यं प्राप्नोति ।
द्वितीयः : तद्यत्किञ्चित् खलु । शृणुतं, मम पिता गुलिकास्त्रधारी । यावत् तेन क्षिप्ता गुलिका लक्ष्यं प्राप्नोति तावदेव स एव द्रुतं धावन् लक्ष्यं प्राप्नोति ।
तृतीयः : युवां कुतः कत्थेथे? शृणूतम् । मम पिता सर्वकाराधिकारी खलु । तस्य रयः अमेयः। तस्य उद्योगालयस्य पिधानवेला सायं पञ्चवादनसमयः । तथापि उद्योगालयं रयात् निष्क्रामन् अस्मद्गृहं  सार्धचतुर्वादनसमय एव उपैति।
- - - - 

Saturday, September 21, 2013

Sanskrit blog: Reflexions on Voyager space ship

विश्वसांयात्रिकः
षट्त्रिंशद्वर्षदेशीयं नभोमण्डलभेदिनं ।
विश्वसांयात्रिकं यन्त्रं प्रशंसामो भुविस्थिताः ॥१॥
“यदा त्वं भुवि संजातः गुरुशुक्रग्रहेक्षणे ।
विनियुक्तोऽभवः पश्चात् वीक्ष्य त्वत्कार्यदक्षताम् ॥२॥
युरेनसं च नेप्च्यूनमीक्षितुं त्वां नियुञ्जते ।
विज्ञाः त्वदीयजनकाः कृता सम्यक् च तत्कृतिः ॥३॥
एकाकी त्वमिदानीं भोः अतीत्य रविमण्डलम् ।
कुत्र गच्छसि किं ज्ञातुं मानवानां समृद्धये ॥४॥
मनुजानां मनीषायाः प्रतिरूपं ह्यसंशयम् ।
त्रयस्त्रिंशत्सहस्राणां मैलानि क्राम्यसि द्रुतम् ॥५॥
घटिकायां तथा त्वत्तः पृथिवीं प्रेषिता द्युतिः ।
घटिकानां सप्तदशात् पश्चादायाति मेदिनीम् ॥६॥
शतात् द्वादशकोटीनां  मैलदूरात् किमुच्यते ।
त्वयास्माकं धरास्थानां त्वत्कर्तॄणां हितं वद “॥७॥
“निस्संशयं भोः भवतां मनीषाप्रगल्भतायाः शिशुरस्म्यमोघः ।
तथापि किञ्चित् वचनं भवद्भिः श्राव्यं मम प्रश्रितमानसैरिदम् ॥८॥
स्वप्रातिवेश्यस्य मनोव्यथायां प्रस्पन्दमानं हृदयं विनैव ।

भवद्भिरेवं रविमण्डलात्परम् श्रुतोऽस्मि दूराद्यदि चेत् ततः किम्” ॥९ ॥
- - - - 
मैलम्=Mile

Saturday, September 14, 2013

Sanskrit blog: Humour-81

हास्यसीकरः-८१
कस्मिंश्चित् ग्रामे कश्चन क्रिस्तमतावलम्बी असूनत्यजत् । तद्ग्रामस्य क्रिस्तपूजके व्याधिग्रस्ते गतासोः   शवसंस्कारार्थं निकटस्थग्रामादन्यस्मात् अन्यः क्रिस्तपूजकः आनीतः । शवसंस्कारात् प्राक् क्रिस्तपूजकः गतासुमुद्दिश्य सद्वचनानि वदेदिति क्रिस्तमतविधिः वर्तते । तं विधिमनुसृत्य क्रिस्तपूजकः अभाषत । “ भोः सर्वे बान्धवाः शृणुत । अयं गतासुः सज्जनशिरोमणिः,  सदाचारसम्पन्नः, सद्गुणवारिधिः, वदान्यः, स्मितपूर्वाभिभाषी,- - - “ । इत्थं गतासोः गुणगानं निरर्गलं कुर्वति पूजके, तस्य भाषणे प्रतिबन्धं कुर्वती गतासोः धर्मपत्नी उच्चैरवदत्, “भोः, किमिदम्? मम भर्तुरन्यस्य कस्यापि शवसंस्कारः क्रियमाणः इति भाति । यस्य गुणगानं क्रियमाणं स मम भर्ता न भवेत् “ इति ।
- - - -  

Saturday, September 7, 2013

Sanskrit blog: Parrot critic

छिद्रान्वेशी
“कृतकशुकोऽयं दुनोति मम मनः सुभृशमत्र विनिवेशितः ।
कोऽस्य कर्ता हन्त स तु वेद्म्यहं कर्मण्यनभिज्ञः ।। १ ॥
कति कृता कृतका मया विहगा क्व सुभगता सहजा तेषाम् ।
क्वेदं वैरूप्यं भोः तूर्णमपसारयतेममितः ॥ २ ॥  
इदं कीरतुण्डं किं? को निगदति शुकस्य कण्ठ इतीमम् ।
शुकपक्षौ इत्थं किं? पादौ वक्रौ नखा निम्नाः” ॥ ३ ॥
इत्थं जल्पति सुचिरं कृतकखगकर्मविचक्षणे सहसा ।

तमभिभवन्निव कीरः गवाक्षाश्रित उदपतद्वै ।। ४ ॥
- - - -
[Inspired by a poem in English on a similar theme]

Saturday, August 31, 2013

Sanskrit blog: Humour-80

हास्यसीकरः-८०
मृगराजस्य विवाहे मूषिक आगत्याभ्यनन्दतित्थम् ।
“केसरि! तव विवाहेन तुष्येऽहं सुदिवसः प्राप्तः” ॥
आखोर्धार्ष्ट्यं दृष्ट्वा मृगराजानुजोऽभर्त्सयत कुपितः ।
“रे रे मूषिक! कथय  क्व त्वं क्व मृगराजो भ्राता ॥“
मूषिक अवदत् सभयं , “क्षमस्व बन्धो मम धार्ष्ट्यम् कृपया ।

अहमप्यभवं सिंहः त्वदग्रजवदुपयमात् पूर्वम् “॥
- - - - 

Saturday, August 24, 2013

Sanskrit blog: Receiving a guest

अतिथिसत्कारः
“स्वागतं स्वागतं तुभ्यं चिरात् दर्शनमागताः ।
अद्यास्माकं दिनं धन्यमतर्कितसुखावहम् ॥ १ ॥
[ मयाद्य किं कृतं पापं तत्फलोऽयं समागमः
धनव्ययस्तथा कालहरणं मे भवेत् ध्रुवम् ]॥ २ ॥
अलङ्कुरुत सन्मान्या आसनानि यथासुखम् ।
[पर्याप्तान्यासनान्यत्र न भवेयुरिति स्पृहा] ॥ ३ ॥
आनन्दोदधिमग्नोऽहं त्वद्बालाश्चागता  इति ।
[ मर्कटास्ते विनष्टं स्यात् सर्वं वस्त्वत्र खण्डितम्] ॥ ४ ॥
ददाम पेयं किं  भक्ष्यं ब्रूथ वाञ्छथ निस्त्रपाः।
[भक्षयिष्यन्ति पास्यन्ति सर्वं सद्यो यदर्पितम्] ॥ ५ ॥
पुत्र्या मे गायनं यूयं श्रोतुमर्हथ सुस्वरम् ।
[कृतार्थोऽस्मि सुतां श्रुत्वा पलायन्ते यदि द्रुतम् ] ॥ ६ ॥
‘द्रष्टुं पुत्थलिकाचित्रं मे बाला आगतात्र वै ।
अस्मत्साक्षात्करं दोषपूरितं क्षम्यतां यतः’ ॥ ७ ॥
इति किं वक्षि? सुकरमिदानीमेव तद्भवेत्।
भार्ये साक्षात्करं तेभ्यः चालयाशु विचक्षणे ॥ ८ ॥
‘अस्मत्साक्षात्करं चापि सदोषम्’ इति भाषसे?
अहो, मम हि दौर्भाग्यं, क्षम्यतां करवाणि किम्?॥ ९ ॥
‘स्वस्ति वोऽस्तु गमिष्यामो प्रातिवेश्यगृहं द्रुतम्’
इति किं वदथ, क्षिप्रं मिलामो भवतात् शुभम् ॥ १० ॥
[ सम्पन्नं सुदिनं दिष्ट्या ऽहो मे पत्न्याः प्रगल्भता ।
विद्युत्तन्तू साधनस्य निभृतं विचकर्ष या॥]” ॥ ११ ॥
-----------------------------------------------------------------------------

पुत्थलिकाचित्रम्=cartoon film; साक्षात्करम्=Television
[ Inspired by a poem in English read long back.]

Saturday, August 17, 2013

Sanskrit blog: Humour-79

हास्यसीकरः-७९
कश्चन पण्डितः वाग्मी कदाचित् ग्राममेकमगच्छत् । यदा ग्रामवासिनः तस्य पाण्डित्यं वाग्मितां च अवगच्छन्, ते तमवदन्, “ पण्डितवर्य! अस्मानुद्दिश्य प्रवचनं भवान् करोतु” इति । पण्डितः अनुमेने निर्दिष्ट दिवसे विर्दिष्टवेलायां प्रवचनमारभत च। प्रवचन विषयः, “भारवेः अर्थगौरवम्” इत्यासीत् । पण्डितस्य निरर्गलवाग्धाराभिः ग्रामीणाः सुसिक्ताः अभवन् । परं तु प्रवचने ते किमपि नावगच्छन् । गतेषु कतिचननिमिषेषु कश्चन सभ्यः निश्शब्दं सभाभवनात् बहिरगच्छत् । तं निर्गच्छन्तं दृष्ट्वा कतिचन अन्येऽपि सभामत्यजन् । इत्थं अर्धमुहूर्ते गते, पण्डितं विहाय सभायामेक एव ग्रामीणः आसीनः आसीत् । परिभूतः पण्डितः तमवदत्, “प्रिय, त्वम् एक एव प्रवचने आसक्तः इति भाति” इति । सः ग्रामीणः अवदत्, “आर्य, यस्यां कुथायां भवान् आसीनः सा मम भवति । प्रवचनान्ते सा मया गृहं नीयते । प्रवचनान्तं प्रतीक्षमाणः स्थितोऽस्मि” इति ।   
- - - -  

Saturday, August 10, 2013

Sanskrit blog: Last journey of Alexander the Great

सिकन्दरस्य चरमयात्रा
विजित्य नानाक्षितिपान् महाबलान् सिकन्दरः शौर्यवतां वरिष्ठः । रक्तप्रवाहार्जितवित्तराशीनादाय दृप्तः स्वपुरीं प्रतस्थे ॥ १ ॥
मार्गे गदग्रस्तमिमं नराधिपं निष्णातवैद्याः सततं ह्युपाचरन् ।
तथापि कालेन विधेर्विपाकात् नृपः क्रमेण क्षयतां प्रपेदे ॥ २ ॥
तल्पे शयानः मरणावसन्नः चिन्ताग्निना भूरि विदह्यमानः ।
आनाय्य सेनाधिपतीन् बलिष्ठान् शनैरवोचत् स मृदुस्वरेण ॥ ३ ॥
भोः मे प्रियाः पश्यत  मां  शयानं  महौजसं  क्ष्मापतिसार्वभौमम् ।
अशक्तमल्पायुषमल्पवीर्यं चर्मास्थिशेषं शिशुवद् हि पाल्यम् ।। ४ ॥
दूरे स्थितां मातरमुत्सुकेन द्रष्टुं मयाऽशक्यमभाग्यशालिना ।
यूयं त्विदानीं कुरुत  प्रपूर्णान् मनोरथान् त्रीन् मम साभियोगम् ॥५ ॥
वैद्या वहेयु र्मम मृत्युपेटिकां नान्ये श्मशानं प्रथमाभिलाषः ।
रूप्यं सुवर्णं विततं विकीर्यतां श्मशानमार्गे इति मे द्वितीयः ॥ ६ ॥
हस्तौ मदीयौ शवपेटिकायाः विलम्ब्यमानौ भवतां तृतीयः ।
त्यजेत् प्रभुत्वं मरणावसन्नं प्रायेण राजानमिति ब्रुवन्ति ।। ७ ॥
तां यूयमार्या वितथां कुरुध्वं भूयात् शुभं वोऽद्य दिवं व्रजामि ।
श्रुत्वा गिरः दुःखकरीः इमास्ते सप्रश्रयं भूपमिदं ह्यपृच्छन् ॥ ८ ॥
कर्तव्यमस्माभिरवश्यमेव ह्यभीष्टमस्मद्दयितप्रभोस्ते ।
प्रष्टव्यमत्रास्ति तथापि राजन् एतेषु कृत्येषु  तवास्ति कोऽर्थः ॥ ९ ॥
कृछ्रेण राजा स्मयमान ईषत् शनैरवोचत् शृणुतेममर्थम् ।
वैद्यो कदाचिन्न करोति नीरुजं रुग्णं विना दैवकृपां स्वभेषजैः ।। १० ॥
सुवर्णरूप्यादिधनेषु किञ्चित् मृतेन साकं  न तु हन्त यात्यपि ।
शिशुर्यथागच्छति रिक्तहस्तः तथैव निर्गच्छति वै मृतोऽपि ॥ ११ ॥   
इति वदति महीशे दण्डपालान् महाढ्यान्
अविरलमवसन्नाः तेऽपि बाष्पानमुञ्चन् ।
गतवति धरणीशे स्वर्गमुत्सृज्य सर्वम्

जलधिमभिससारेवातिखिन्ना दिनश्रीः॥ १२ ॥
- - - - 

Saturday, August 3, 2013

Sanskrit blog: Humour-78

हास्यसीकरः-७८
पिता पुत्रं बालं स्वापयितुं यतमानः अस्ति । बालं स्वकोष्ठे तल्पे शाययित्वा द्वारं पिधाय बहिरागच्छति । कतिपय क्षणादनन्तरमेव बालः उच्चैः क्रोशति, “तात, अहं जलं पिपासामि । मह्यं  जलपूर्णं चषकमानय “ इति । पिता उच्चैः प्रतिवदति, “वत्स, इदानीं त्वया जलं न पेयम् । तूष्णीं स्वपिहि” इति । कतिपयक्षणादनन्तरं पुनः बालः उच्चैः वदति, “तात, मह्यं पिपासा बाधते । द्रुतं जलमानय “ इति । क्रुद्धः पिता उच्चैः प्रतिवदति, “ पश्य, अहं जलं न आनयामि, यदि पुनः जलार्थं क्रोशसि, तदा त्वां दण्डयामि “ इति । पुनः कतिपयनिमेषादनन्तरं बालः उच्चैः वदति, “तात, यदा त्वं मां दण्डयितुं ममकोष्टम् आगमिष्यसि तदा मह्यं जलमानयेः” इति ।
- - - - 

Saturday, July 27, 2013

Sanskrit blog: Picture in the purse

वित्तस्यूते चित्रम्
वित्तस्यूते जनकजननीचित्रमादौ निधाय
पश्चात्पत्न्याः तरुणवयसि न्यस्तमह्नाय चित्रम् ।
प्राप्ते मध्ये वयसि तदनु स्थापितं पुत्रिकायाः
वार्धक्ये वै अहह निहितं बालगोपालमूर्तेः । 
- - - - 

Saturday, July 20, 2013

Sanskrit blog: Humour-77

हास्यसीकरः-७७
कश्चन युवा कार्यालये विवर्णवदनः चिन्तामग्नः आसीत् । तस्य मित्रं तमपृच्छत्, “भोः, चिन्ताक्रान्तः असि इति मे भाति। किमापन्नम्?” इति ।
 ” किं वदानि ? श्वः मम श्वश्रुवः जन्मदिनम् । तदवसरे मया तस्यै किञ्चिदुपायनम् देयम् । उचितमुपायनं किमिति चिन्तयामि “  ।
मित्रं प्रत्यवदत्, “ भण, परुत् त्वया किं दत्तम्?”
“ मया तस्यै बहुमूल्यं श्मशानस्थलं क्रीतम् “ 
मित्रम् उच्चैः हसति वदति च ,“त्वया महार्घम् उपायनमेव दत्तम्  । ऐषमः त्वया तस्यै किमपि न देयं खलु।”
” कथमित्थं वदसि?”
“श्रुणु, श्वः यदा त्वं तया सह मिलसि, सा त्वां पृच्छेत् , “जामातः, ऐषमः मह्यं किमुपायनं प्रयच्छसि ” इति । तदा त्वं स्मितवदनः इत्थं  वदेः, “ मातः, मया परुत्  दत्त्तमुपायनं त्वया
अद्यापि न उपयुक्तं खलु । अतः ऐषमः किञ्चिदपि न ददामि” इति”। 
- - - - 

Saturday, July 13, 2013

Sanskrit blog: An Oscar Wilde's epigram

आस्कर वैल्ड उवाच
यत्र यत्र विचरन्ति केचन तत्र तत्र सुखमेव तन्वते ।

यान्ति केचन जना यदा यदा वर्धते उपशमस्तदा तदा ॥
"Some cause happiness wherever they go; others, whenever they go." - Oscar
Wilde

Saturday, July 6, 2013

Sanskrit blog: Humour-76

हास्यसीकरः-७६
कदाचन काचित् स्त्री नद्याः तटे भर्तुः जीर्णकञ्चुकस्य नवीकरणे निरता आसीत् । तदा अकस्मात् तस्याः हस्तात् सूची नद्याः जले न्यपतत् । तदा सा उच्चैः रोदितुमारेभे, “मम भर्ता मां ताडयति यद्यहं तस्य कञ्चुकं न नवीकृत्य गृहं गच्छामि चेत्” इति । ईश्वरः तस्याः रोदनं शृण्वन् तत्र आगत्य तस्यै जलात् एकां सुवर्णसूचीं उद्धृत्य ददौ । सा रुदन्ती एव अवदत्, “ सा सूची मम न भवति” इति ।तदा ईश्वरः तस्यै जलात् एकां रजतसूचीं उद्धृत्य ददौ । तदापि सा अवदत्, “सा सूची मम न भवति” इति । तदा ईश्वरः जलात् आयससूचीम् उद्धृत्य तस्यै ददौ । सा हृष्टा अवदत्, “ सा सूची एव मम” इति । तदा तुष्टः ईश्वरः तिस्रः अपि सूचीः तस्यै सत्यवचनायै ददौ । तदा संतुष्टा सा ईश्वरं संस्तुत्य गृहं गता ।

अन्येद्युः सा भर्त्रा साकं नदीतटे गच्छति स्म । तस्याः भर्ता पदस्खलनात् नद्याः जले न्यपतत् । सा ईश्वरं प्रार्थयामास, “परमेश्वर, मम पतिं देहि” इति । ईश्वरः तत्र आगत्य तस्यै विक्रमादित्यं जलादुधृत्य “किमयं तव भर्ता” इत्यपृच्छत् । सा अवदत्, “बाढं स एव मम भर्ता” इति। तदा कुपितः ईश्वरः तामपृच्छत्, “कथमिदानीम् असत्यं वदसि?” इति । “प्रभो! श्रुणुश्व, यद्यहं, “अयं मम पतिर्नभवति” इत्यवदिष्यं तदा त्वं भोजराजं मम भर्तारं च मह्यम् अदास्यः । इदानीं मम स्वास्थ्यं समुचितं न भवति । पतित्रयप्रीणने अशक्ता खलु । मां क्षमस्व “ इति । कृपालुः ईश्वरः तस्याः अङ्के विक्रमादित्यमेव न्यवेशयत् ।      
- - - - 

Saturday, June 29, 2013

Sanskrit blog: Who are you?

                                                   कस्त्वम्?
न त्वं सोहं मन्यसे यं त्वमेव
न त्वं सोऽसौ मन्यते यः परैश्च ।
ज्ञातोऽस्मीत्थं वै परैरित्यवैषि
नासि त्वं भोः केवलं श्रीशवेद्यः ।
You are not what you think you are. You are not what others think you are. You are not what you think others think you are. You are only known to God.
-- - - -

Saturday, June 22, 2013

Sanskrit blog: Humour-75

हास्यसीकरः-७५

कश्चन पूजकः राजपथे चरन् अन्योन्यं वाग्युद्धं कुर्वतः कांश्चन बालकानपश्यत् । बालकान् वाग्युद्धात् वारयितुम् तानभिससार पप्रच्छ च, बालकाः, यूयं कुतः इत्थं कलहं कुर्वन्तः स्थ ? किं कारणम्? इति । तेषु एकः प्रत्यवदत्, अयं सुन्दरः ग्रामशुनकः सर्वत्र अटति । वयं सर्वे तम् आबद्ध्य गृहं नेतुं वाञ्छामः । अस्मासु एकेन एव तं नेतुं शक्यं खलु । अतः यः मृषावादे अन्यान् जयति स एव शुनकं गृहं नयेत् इति अस्माभिः निर्णीतम् । इदानीमस्मासु एकैकः अन्यान् मृषावादे जेतुं यतते इति । पूजकः गंभीरध्वनिना अवदत्, बालकाः! मा एवम् । अनृतं कदापि न ब्रूयात् । यदा अहं बालः आसं तदा कदापि मया अनृतं नोक्तम् इति । गतेषु केषुचित् क्षणेषु, बालकेषु यविष्ठः कश्चन तदा अवदत्, एष पूजक एव शुनकं नेतुं योग्यः इति भाति । स एव शुनकं नयतु इति ।
- - - - 

Saturday, June 15, 2013

A wise saying

सुभाषितम्


स्व एव कुर्यात् स्वं कार्यं बहुभृत्योऽपि वित्तवान् ।
भक्षणे मैथुने शौचे नियुङ्क्तेऽन्यं न कश्चन ॥
- - - - 

Saturday, June 8, 2013

Sanskrit blog: Humour-74

हास्यसीकरः-७४

कुतः रोदसि, वत्स? माता अपृच्छत् । बालकः प्रत्यवदत्, अम्ब! पिता भित्तौ चित्रम् आलम्बयितुम् मुद्गरेण कीलकं प्रहरति स्म । तदा तस्य  अङ्गुली व्रणिता । अत एव," इति रोदननिरुद्धकण्ठः सगद्गदमवदत् । माता बालकमाश्वासयन्ती प्रत्यवदत्, किञ्चित्करं खलु तत् । मा रुदः । त्वया हसितव्यम् आसीत् , इति । बालकः उच्चैः रुदन् अवदत्, अम्ब! मया हसितमेव, इति ।
- - - - 

Saturday, June 1, 2013

Sanskrit blog: Thus spake Timmu the dull-headed.



मूढतिम्मुरुवाच

जीवन् क्षणात्क्षणं वासराद्वासरम्
क्षपयन् हि सर्वदा शुनकवत् जीवनम्
मनसि लघुतां वहन् योगसाधनमेव
अनुसर तदेव भोः मूढतिम्मो ॥ ७६७ ॥

इदं मात्रागणवृत्तं मूलकृतावेव प्रयुक्तमत्र मया आप्तानाम्ना अभिहितं यस्य लक्षणोऽयम् ।
पञ्चमात्रागणाः सन्ति चत्वारोऽत्र
प्रथमपादे चापि पादे तृतीये ।
द्वितीये त्रयो सन्ति पश्चात् गुरू वै
चतुर्थे त्रयो गुरुश्चाप्ताभिधे ॥



From DVG’s “manku timmana kagga”

ಕ್ಷಣದಿಂದನುಕ್ಷಣಕೆ ದಿನದಿಂದ ಮರುದಿನಕೆ
ಅನಿತನಿತರೊಳೆ ಬದುಕುತಾಯುವನು ಕಳೆವಾ|
ಮನದ ಲಘುಸಂಚಾರವೊಂದು ಯೋಗದುಪಾಯ
ಶುನಕೋಪದೇಶವದು ಮಂಕುತಿಮ್ಮ || ೭೬೭ ||

- - - -

Saturday, May 25, 2013

Sanskrit blog: Humour-73

हास्यसीकरः-७३


शर्वर्यां गाढान्धकारे पर्जन्यः तडित्स्तनितसहितधारासम्पातैः वर्षति स्म । ब्रह्मदत्तः एकाकी विजने राजपथे चलति स्म । किञ्चित् कार्-यानमागच्छेत् यदि चालकं प्रार्थयित्वा कार्-याने गच्छेयम् इति चिन्तयन् जलसिक्तः तमसि तडित्ज्वलितराजपथे न्यस्तदृष्टिः शनैः प्राचलत् । तदा किमपि यानं शिरोदीपं विना शनैः आगच्छदिव दृष्टम् । कार्-यानस्य द्वारमपावृतमासीत् । झटिति कार्-यानमारुह्य पृष्ठपीठे उपाविशत् । यदा सिक्तोत्तरीयं परित्यज्य सावधानं परितः तमस्येव दृष्टिमचालयत् तदा तस्मै अवगतमभवत् यत् चार्-चालकस्थानम् रिक्तमासीत्, कार्-याने अन्यः कोऽपि नासीत्, परन्तु कार्-यानं चलन्नेव आसीत् । दिग्भ्रान्तः भयभीतश्च अभवत् । पर्जन्ये निरन्तरं वर्षति सति सः कुत्र वा गच्छेत् । पीठे एव नमितसंकुचिताङ्गः ईश्वरं प्रार्थयन्  तस्थौ । सपदि कार्-यानस्य वेगः वर्धन्निव अभात् । राजपथे दृष्टिं न्यदधात् । कस्यापि हस्तः यानस्य मार्गनियन्त्रणचक्रं भ्रामयन्निव बभौ । पूर्वमेव भीतस्य ब्रह्मदत्तस्य भयं सीमातीतमभवत् । दैववशात् राजपथपार्श्वे ज्वलन् दीपः दृष्टः । झटिति कार्-यानादवातरत् । दीपः अनतिदूरे स्थितस्य कस्यचन उपाहारगृहस्य आसीत् । तं गृहं प्रति द्रुतं प्राचलत् । अचिरेणैव उपाहारगृहमवाप च ।
उपाहारगृहे परिधानशोषणं कृत्वा उपाहारं भक्षयितुं प्रारभत । तदा द्वौ बृहत्कायौ सिक्तवस्त्रौ पुरुषौ तत्र आगतौ । तयोः एकः ब्रह्मदत्तं क्रूरदृष्ट्या पश्यन् अन्यमवदत्, रे, अयमेव धूर्तः यः यदा आवां अस्मत्-कार्-यानस्य पृष्ठे  यानं हस्ताभ्यां बलात् प्रणुदन्तौ आस्व तदा झटिति कार्-याने समुपाविशत् इति । 
- - - -  

Friday, May 17, 2013

Sanskrit blog: An ode to Google



गूगलगीता
कुत्र किं क्रीयते वस्तु कुत्र विक्रीयते च तत् ।
किं मूल्यं च भवेन्मित्र गूगलं शरणं व्रज ॥ १ ॥
अस्वस्थमद्यमेऽपत्यं को गदः किं च भेषजम् ।
कुत्रास्ति वैद्यो मे ब्रूहि गूगलं शरणं व्रज ॥ २॥
भोजनाय क्व गच्छाम किं खाद्यं तत्र लभ्यते ।
किं मूल्यं च कियद्दूरं गूगलं शरणं व्रज ॥ ३ ॥
चलचित्रालयं कुत्र तत्र किं चित्रदर्शनम् ।
तत्र दर्शनवेला का गूगलं शरणं व्रज ॥ ४ ॥
कुत्रास्म्यहमिदानीं भोः कियद्दूरं हि मद्गृहम् ।
वर्त्मना केन गच्छानि गूगलं शरणं व्रज ॥ ५ ॥  
विश्रान्त्यै कुत्र गच्छाम तत्रासीदाम वा कथम् ।     
तत्र पश्याम किं मित्र गूगलं शरणं व्रज ॥ ६ ॥
कोऽर्थः पदस्य तत् वाक्ये कथं सम्यक् प्रयुज्यते ।
समानार्थपदं किं स्यात् गूगलं शरणं व्रज ॥ ७ ॥  
चित्राणि द्रष्टुमिच्छामि श्रोतुमिच्छामि गायनम् ।
इच्छामि पठितुं ग्रन्थं गूगलं शरणं व्रज ॥ ८ ॥
शालायां सहपाठी मे कुत्राद्येति कुतूहलम्
देशकालततायामं गूगलं शरणं व्रज ॥ ९ ॥
चेतुमिच्छसि किं पत्नीं पतिं जामातरं स्नुषाम् ।
नवोद्योगं तदा सद्यः गूगलं शरणं व्रज ॥ १० ॥
विमानरेल्-यानानां गमनागमनेषु किम्।
विलम्बं सूच्यते मित्र गूगलं शरणं व्रज ॥ ११ ॥
कुत्र वर्षति पर्जन्यः कुत्र शैत्यं कियन्मितम् ।
कुत्र सूर्यप्रखरता गूगलं शरणं व्रज ॥ १२ ॥
नगरे मम का वार्ता मद्देशे वा महीतले ।
क्रीडासु जनसौख्ये च गूगलं शरणं व्रज ॥ १३ ॥
तत्त्वार्थशास्त्रविज्ञानगणिताध्ययने स्पृहा
सर्वज्ञानमहाद्वारं गूगलं शरणं व्रज ॥ १४ ॥
आत्मानन्दं मनःशान्तिं तृप्तिं वाञ्छसि वा यदि ।
गूगलं सम्परित्यज्य श्रीहरिं शरणं व्रज ॥ १५ ॥
- - - -