Saturday, July 27, 2013

Sanskrit blog: Picture in the purse

वित्तस्यूते चित्रम्
वित्तस्यूते जनकजननीचित्रमादौ निधाय
पश्चात्पत्न्याः तरुणवयसि न्यस्तमह्नाय चित्रम् ।
प्राप्ते मध्ये वयसि तदनु स्थापितं पुत्रिकायाः
वार्धक्ये वै अहह निहितं बालगोपालमूर्तेः । 
- - - - 

Saturday, July 20, 2013

Sanskrit blog: Humour-77

हास्यसीकरः-७७
कश्चन युवा कार्यालये विवर्णवदनः चिन्तामग्नः आसीत् । तस्य मित्रं तमपृच्छत्, “भोः, चिन्ताक्रान्तः असि इति मे भाति। किमापन्नम्?” इति ।
 ” किं वदानि ? श्वः मम श्वश्रुवः जन्मदिनम् । तदवसरे मया तस्यै किञ्चिदुपायनम् देयम् । उचितमुपायनं किमिति चिन्तयामि “  ।
मित्रं प्रत्यवदत्, “ भण, परुत् त्वया किं दत्तम्?”
“ मया तस्यै बहुमूल्यं श्मशानस्थलं क्रीतम् “ 
मित्रम् उच्चैः हसति वदति च ,“त्वया महार्घम् उपायनमेव दत्तम्  । ऐषमः त्वया तस्यै किमपि न देयं खलु।”
” कथमित्थं वदसि?”
“श्रुणु, श्वः यदा त्वं तया सह मिलसि, सा त्वां पृच्छेत् , “जामातः, ऐषमः मह्यं किमुपायनं प्रयच्छसि ” इति । तदा त्वं स्मितवदनः इत्थं  वदेः, “ मातः, मया परुत्  दत्त्तमुपायनं त्वया
अद्यापि न उपयुक्तं खलु । अतः ऐषमः किञ्चिदपि न ददामि” इति”। 
- - - - 

Saturday, July 13, 2013

Sanskrit blog: An Oscar Wilde's epigram

आस्कर वैल्ड उवाच
यत्र यत्र विचरन्ति केचन तत्र तत्र सुखमेव तन्वते ।

यान्ति केचन जना यदा यदा वर्धते उपशमस्तदा तदा ॥
"Some cause happiness wherever they go; others, whenever they go." - Oscar
Wilde

Saturday, July 6, 2013

Sanskrit blog: Humour-76

हास्यसीकरः-७६
कदाचन काचित् स्त्री नद्याः तटे भर्तुः जीर्णकञ्चुकस्य नवीकरणे निरता आसीत् । तदा अकस्मात् तस्याः हस्तात् सूची नद्याः जले न्यपतत् । तदा सा उच्चैः रोदितुमारेभे, “मम भर्ता मां ताडयति यद्यहं तस्य कञ्चुकं न नवीकृत्य गृहं गच्छामि चेत्” इति । ईश्वरः तस्याः रोदनं शृण्वन् तत्र आगत्य तस्यै जलात् एकां सुवर्णसूचीं उद्धृत्य ददौ । सा रुदन्ती एव अवदत्, “ सा सूची मम न भवति” इति ।तदा ईश्वरः तस्यै जलात् एकां रजतसूचीं उद्धृत्य ददौ । तदापि सा अवदत्, “सा सूची मम न भवति” इति । तदा ईश्वरः जलात् आयससूचीम् उद्धृत्य तस्यै ददौ । सा हृष्टा अवदत्, “ सा सूची एव मम” इति । तदा तुष्टः ईश्वरः तिस्रः अपि सूचीः तस्यै सत्यवचनायै ददौ । तदा संतुष्टा सा ईश्वरं संस्तुत्य गृहं गता ।

अन्येद्युः सा भर्त्रा साकं नदीतटे गच्छति स्म । तस्याः भर्ता पदस्खलनात् नद्याः जले न्यपतत् । सा ईश्वरं प्रार्थयामास, “परमेश्वर, मम पतिं देहि” इति । ईश्वरः तत्र आगत्य तस्यै विक्रमादित्यं जलादुधृत्य “किमयं तव भर्ता” इत्यपृच्छत् । सा अवदत्, “बाढं स एव मम भर्ता” इति। तदा कुपितः ईश्वरः तामपृच्छत्, “कथमिदानीम् असत्यं वदसि?” इति । “प्रभो! श्रुणुश्व, यद्यहं, “अयं मम पतिर्नभवति” इत्यवदिष्यं तदा त्वं भोजराजं मम भर्तारं च मह्यम् अदास्यः । इदानीं मम स्वास्थ्यं समुचितं न भवति । पतित्रयप्रीणने अशक्ता खलु । मां क्षमस्व “ इति । कृपालुः ईश्वरः तस्याः अङ्के विक्रमादित्यमेव न्यवेशयत् ।      
- - - -