चन्द्रिका-४७
विटपाश्रितरम्यबर्हिणान्
क्वचिदुन्मत्तनदच्छिलीमुखान् |
क्वचिदायतशीतशाद्वलान्
क्वचिदामोदवहान् सुमोद्गमान् ॥ १७६ ॥
क्वचिदुल्लसदातवीरुधः
फलभारानततुङ्गपादपान् ।
विविधाकृतिवर्णमोहकैः
कुसुमैरावृतगुल्मसञ्चयान् ॥ १७७ ॥
अवलोकयतोऽभितो मुदा
नृपपुत्रस्य हृदालयं द्रुतम् ।
मदनः प्रविवेश लीलया
ललनापाङ्गसुजिह्मवर्त्मना ॥ १७८ ॥ - - - -
No comments:
Post a Comment