चन्द्रिका-६७
स्वसुतपरिणये निविष्टचित्तः
चतुरमतिस्सचिवस्तदा
बभाषे ।
निरवधिकगुणो
युवा सुरूपी
मम
सुत एव भवेदुमोपयन्ता ॥ २४० ॥
अभजत
हृदयं सुखं कलायाः
निजतनुजोपयमप्रकल्पनोत्थम्
।
विकचसुमरुचिं
बभाज तन्व्याः
मुखमनिरीक्षितमङ्गलादुमायाः
॥ २४१ ॥
तदनु
सपदि मन्दहासमूर्तिः
सचिवसुतः
गिरिशाभिधः बभाषे ।
प्रियतमपदवीं
दधीत रम्या
यदि मयि मत्सुखमेत्यपूर्वकाष्ठाम् ॥ २४२ ॥ - - - -
No comments:
Post a Comment