Follow by Email

Thursday, September 29, 2011

Sanskrit blog: Humour-28

हास्यसीकरः- २८
कश्चित् पोगण्डः तस्य अनुजेन अर्भकेन सह गृहाद्बहिः खेलति स्म । सहसा अर्भकः उच्चैः रोदितुं प्रारभत । तयोः पितामहः गृहाद्बहिरागत्य तं पोगण्डमवदत्, अर्भकं किमर्थं रोदयसि? सः यद्वाञ्छति तद्देहि इति । पोगण्डः प्रत्यवदत्, अर्भकः आतपे शोषणार्थं निवेशितं रक्तं मरिचं  वाञ्छितवान् । तस्मै तमहं दत्तवान् । सः मरिचं वदने निक्षिप्य इदानीं रोदिति इति ।
- - - -

Sunday, September 25, 2011

Sanskrit blog: A Chinese Zen story

यतिः शिष्यः सुन्दरी च
यतिः तस्य शिष्यश्च पर्यटन्तौ नदीं तर्तुं सेतुमागतौ । सेतोः क्षतिग्रस्तत्वात् नदीं पद्भ्यामेव तरणमवश्यमभवत् । तत्र काचन सुन्दर्यपि तर्तुं साहाय्यमपेक्षमाणा आसीत् । यतिः तामवदत्, भवति, यद्यनुमन्यते अहं त्वां स्कन्धे निवेश्य नदीं तारयामि इति । सा अन्वमन्यत । यतिः तथैव तां स्कन्धे निवेश्य नदीं तारयामास । सा यतये कृतज्ञतां समर्प्य गता च । शिष्याय तु गुरोः वर्तनं नारोचत । मनस्येव गुरुवर्तनं दूषयन् गुरुमन्वगच्छत् । सा सुन्दरी । अयं तु यतिः । कथं तां सुन्दरींमस्पृक्षत् स्कन्धे अनैषीच्च इति चिन्तयन्नेव आसीत् । कतिचिन्मुहूर्तानन्तरं स्वरोषं मनसि गूहितुमशक्तः गुरुमवदत्, गुरो, भवान् यतिः कथं तां सुन्दरीं स्पृष्ट्वा स्कन्धे निवेश्य नदीमतीतरत् ? इति । तदा गुरुः विहस्य अवदत्, शिष्य, अहं तां नदीतीरे एव न्यविक्षम् । त्वं तु इदानीमपि तां मनसि वहन् परिभ्रमसि इति ।  
- - - -

Wednesday, September 21, 2011

Sanskrit blog: Humour-27

हास्यसीकरः- २७
कदाचित् आङ्ग्ललोकसभायां कश्चन सभ्यः भाषणं कुर्वन्नन्यां सभ्यामुद्दिश्य इत्थमवदत्, यद्यहं भवत्याः पतिरभविष्यम् तदा भवत्यै विषमदास्यम् । सा सभ्या सपद्येव प्रत्यवदत्, महोदय, अथ किम्, यदि भवान् मम पतिरभविष्यत् निस्संशयमहं सहर्षं तद्विषमपास्यम् इति ।
- - - - 

Saturday, September 17, 2011

Sanskrit blog: A quote from Shakespeare

शेक्स्‍पियर उवाच
कविसार्वभौमस्य शेक्स्‍पियर्र्वर्यस्य ह्याम्लेट्नाम्नि आंग्लभाषानाटके पोलोनियसभिधम् पात्रमस्ति । पोलोनियसः परदेशं जिगमिषुं पुत्रं प्रति हितोक्तीः इत्थं वक्ति। इमाः हितोक्तयः जगति प्रथिता एव ।   
त्वं चिन्तयसि यत् सर्वमन्येषां मा प्रकाशय ।
समयानुचितं कर्म मा कुरुष्व कदाचन ।।
भजस्व सर्वैः सौहार्दं तथापि त्यज संस्तवम् ।
दृढं वृणीष्व मित्राणि संपरीक्ष्य न चान्यथा ।।
मा विनोदमयीं चर्यां कुरु सर्वैः सुहृज्जनैः ।
निवार्ये कलहे बुद्धिं मा कृथाः पुत्र सर्वथा ।।
वैरं यद्यनिवार्यं चेत्त् भूयात् संग्राममाजयम् ।
सर्वान् त्वं शृण्ववहितः परं तु मितवाक् भव ।।
वस्त्रं यथार्जनं विन्द दैन्यरिक्तं न चोज्ज्वलम् ।
नरस्य परिधानेन शीलमेवावगम्यते ॥
मा भवेरुत्तमर्णस्त्वमधमर्णश्च मा भवेः ।
मित्रं नष्टं धनं नष्टं ऋणदातुरनेकशः।।
व्यवसायः कुण्ठितः स्यादसकृत् ऋणकर्मणा ।
आत्मन्यैवार्जवं विन्द तद्भवेत्सर्वतोमुखम् ।। 
- - - - 

Tuesday, September 13, 2011

Sanskrit blog: Humour_26

हास्यसीकरः_२६
दंपती कलहमकुरुताम्। पश्चात् परस्परं मौनमाचरताम् । अपरेद्युः पतेः सूर्योदयात् प्रागेव उद्योगाय गमनं समपद्यत । अतः तस्य प्रातःप्राबोधनार्थं पत्नीं प्रति प्रार्थना आवश्यकी अभवत् । तथापि तां प्रति मौनं भङ्क्तुं नैच्छत् । अतः रात्रौ तस्यै पत्रकमेकमलिखत्, मां प्रातः पञ्चवादनसमये प्राबोधय इति । तं पत्रकं तस्याः उपधानस्य उपरि न्यवेशयत् 
अपरेद्युः यदा पतिः जागृतः तदा अष्टवादनसमयः आसीत् । यावत् क्रुद्धः पत्नीं पिप्रच्छिषुरासीत् तावदेव आत्मनः उपधानस्य निकटे पत्रकमेकमपश्यत् । तस्मिन् पत्न्या लिखितमासीत्, इदानीं पञ्चवादनसमयः जागृहि इति । 
- - - -    

Saturday, September 10, 2011

Sanskrit blog: Pollution

प्रकृतेः प्रदूषणम्

सुधर्मानाम्न्यां संस्कृतदिनपत्रिकायां प्रकटितायाः श्लोकपूरणसमस्यायाः मम उत्तरमिदम्:

विवेकहीनैर्मनुजैर्मदान्धैः कृतं विलोक्य प्रकृतेः प्रदूषणम् ।
प्रवाहभूकम्पपयोधिवीचिभिः जनान् जघानाशु जनार्दनो रुषा
- - - -

Tuesday, September 6, 2011

Sanskrit blog: Humour-25


-          हास्यसीकरः २५
           स्नुषाः श्वश्रुवः परस्परं बहुमानेन न अवलोकयन्ति इति प्रथा अस्ति खलु । तां प्रथां प्रत्याख्यातुं काश्चन स्नुषाः श्वश्रवः योजनामेकामरचयन् । योजना सर्वाः दूरस्थितं देवालयमेकं संदृश्य तत्र श्वश्रुवां स्नुषाणां परस्परं प्रीतिपूर्वकवृत्त्यर्थम्  ईश्वरं प्रार्थयिष्यन्ति इत्येषा आसीत् । परंतु श्वश्रुवः एकस्मिन् बस्-याने देवालयं गता स्नुषाः अन्यस्मिन् बस्-याने गताः । विधिवशात् श्वश्रुवां यानं दुर्घटनाग्रस्तमभवत् सर्वाः बस्-यानस्थितश्वश्रुवः मृताश्च । स्नुषाः दुःखदां वार्तामशृण्वन् अश्रूण्यमुञ्चन् च । परंतु एका स्नुषा प्रभूतं रोदितुं प्रारभत । अन्याभिः सान्त्वनं निष्फलमभवत् । कुतः इयतीं यातनामनुभवसि इति पृष्टा सा प्रत्यवदत्, मम श्वश्रूः तद्याने न प्रातिष्ठत गृहे एव तिष्ठति इति ।
- - - - 

Friday, September 2, 2011

Sanskrit blog: Anna Hajare


-          अण्णाहजारे
        गान्धेर्महात्मनः मार्गमनुसृत्य सदाग्रहम्
   भीषयन्सर्वकारं यो निराहारव्रतस्थितः ।। १ ॥
   उत्कोचरोगसंत्रस्तान् सुप्तान् नः प्रत्यबोधयत् ।
   उत्कोचभूतनाशाय सुशक्तं लोकपालकं ।। २ ॥
   विदध्यात्संसदित्येवं कृतो येनाग्रहो दृढः
   आहिमाचलमासेतोः ग्रामेषु नगरेषु च ।। ३ ॥
   यस्य स्थैर्यं चार्जवं च श्लाघिते विस्मितैर्जनैः
   अण्णाहजारेवर्यं तं प्रणमाम हृदा मुदा ॥ ४ ॥
   उत्कोचं न प्रगृह्णामि न ददामि कदाचन
   इत्येवं प्रतिजानाम देशार्थं स्वहिताय च ।। ५॥
   अण्णाहजारेऽभिध एष योगी
   उत्कोचनिर्मूलनयज्ञदीक्षितः ।
   निरामयो जीवतु हायनाः शतम्
   भवन्त्वमोघाः प्रथिता तदुद्यमाः ॥ ६ ॥
- - - -