Follow by Email

Saturday, November 28, 2015

Sanskrit blog: Chandrika (A fairy tale)-13

चन्द्रिका-१३

द्वितीयवैधव्यमवाप्य योषित्
स्वभागधेयानि भृशम् जगर्हे ।
मां प्राप्य दैवोपहतामधन्यां
हा नाथ मृत्योर्वशमाप्तवान् त्वम् ॥ ५९ ॥

गाथास्ति पापी यदि याति सिन्धुं
तत्रापि गुल्फौ न जलेन सिक्तौ ॥  
त्वां सद्गुणाढ्यं परिणीय यन्मे
वैधव्यदुःखं पुनरप्यवाप्तम् ॥ ६० ॥

लब्ध्वा तरोराश्रयमार्तवल्ली
ननन्द धृत्वा स्मितकुड्मलानि ।
तस्याः सुखं तत् क्षणिकं बभूव
बभञ्ज वृक्षं सहसा गजेन्द्रः ॥ ६१ ॥

उत्तुङ्गसौधान् विरचय्य चित्ते
तत्रावसं वैभवदर्पयुक्ता ।
अहंत्विदानीं विभवैर्विहीना
कथं करिष्यामि कुटुम्बरक्षाम् ॥ ६२ ॥

इत्थं प्रलप्य प्रणता चिरेण
पुत्र्यौ निरीक्ष्याश्रुमुखी कुमार्यौ ।
तयोर्भविष्यच्छुभकामनार्थं
कृच्छ्रेण सा तत्र समाहिताभूत् ॥ ६३ ॥
- - - - 

Saturday, November 21, 2015

Sanskrit blog: Chandrika (A fairy tale)-12

चन्द्रिका-१२ 

अपूर्णकामः स समानकामां
गान्धर्वमार्गप्रगृहीतपाणिः ।
द्वितीयभार्यां तनुजाद्वितीयां
सुनन्दनः स्वालयमानिनाय ॥ ५४ ॥

दाम्पत्यसौख्ये निरतौ प्रकामं
तौ दम्पती यापयतः स्म कालम् ।
सखीं स्वसारं सुमुखीमुमाख्यां    
लब्ध्वाऽतुषद्विस्मितचन्द्रिकापि ॥ ५५ ॥ 

अन्योन्यसङ्गात्प्रथमानहर्षे
सख्यौ सदा द्वे ऽचरतां नगर्याम् ।
तयोर्विहाराध्ययनानि चापि
परस्परोपस्थितिमाश्रितानि ॥ ५६ ॥

दिनेषु गच्छत्सु धनार्जनार्थं
वणिग्जगामान्यपुरीं कदाचित् ।
लुण्टाकवर्गैरभिहन्यमानः
तत्रार्दितो जीवितमुत्ससर्ज ॥ ५७ ॥
  
सौदामनीघातनिभं कठोरं
वृत्तान्तमाकर्ण्य मृतेः स्वभर्तुः |
पपात सद्यो भुवि मन्दभाग्या

चक्रन्द चोच्चैः शिशुवत् कला सा ॥ ५८ ॥ 
- - - -  

Saturday, November 14, 2015

Sanskrit blog: Chandrika (A fairy tale)-11

चन्द्रिका-११

मामवेहि वणिजं सुनन्दनं
प्राप्तवित्तबलवैभवं जनम् ।
गेहिनी मम गता दिवं रुजा
मां विहाय तनयां च दुःखिताम् ॥ ५० ॥  

भामिनि त्वदनुरागयाचकं
मां वृणीष्व ससुखं सह त्वया
मद्गृहे तव सुता च वत्स्यती-
त्यब्रवीत्स ललनां सुनन्दनः ॥ ५१ ॥

तस्य रूपविभवैश्च मोहिता
पञ्चबाणविशिखाभिपीडिता ।
कामवह्निशमनार्थमादृता
स्वीचकार वचनं रतार्थिनः ॥ ५२ ॥

आलिलिङ्ग सुदृढं स कामिनीं
तं चुचुम्ब वदनेऽनपत्रपा ।
तत्क्षणादभवतां परस्परं
कामतर्पणविधौ सहायकौ ॥ ५३ ॥
- - - -

Saturday, November 7, 2015

Sanskrit blog: Chandrika ( A fairy tale)-10

चन्द्रिका-१०

एकदाथ नगरस्य वाटिकां
कामदिग्धमनसा स वाणिजः ।
संचचार निभृतं यदृच्छया
कांश्चन स्त्रियमपश्यदागताम् ॥ ४४ ॥

सापि तं मुहुरवेक्ष्य वाणिजं
क्षौमवस्त्रवररत्नभूषितम् ।
स्वेङ्गितप्रकटने ह्यशक्ततां
प्राप्य पादपतलं गता ह्रिया ॥ ४५ ॥

ऐक्षत प्रकटसंगमेच्छया
वाणिजःपृथुनितम्बशालिनीं।
मध्यमे वयसि संस्थितां स्त्रियं
भामिनीमतनुसंहतस्तनीम् ॥ ४६ ॥

चूष्यवस्त्विव हि योषितो वपुः
निर्निमेषनयनेन पीयते ।
तस्य वीक्षणविधानलज्जिता
दृष्टिपातमवनौ करोति सा ॥ ४७ ॥

आससाद मदनाभिपीडितो
तां स्त्रियं विटपिमूलवर्तिनीम् ।
कासि देवि वद जन्म कुत्र ते  
इत्यपृच्छदबलां स वाणिजः ॥ ४८ ॥

मत्पिता दिवमगात् पुरैव मा-
मात्मजासहितनष्टभर्तृकाम् ।
विद्ध्यनाथवनितां कलाभिधा-
मित्युवाच ललनामणिः ह्रिया ॥ ४९ ॥
- - - -