Sunday, March 24, 2019

ते हि मे दिवसा गताः
परिधानस्य कोषे मे मध्वाशैः पृथुलीकृते ।  
मित्रैः संपीड्यमानस्य तानदत्वा प्रधावतः॥
जनन्यामाह्वयन्त्यां मां दुग्धपानाय नैकशः।
गोलीक्रीडानिमग्नस्य रुष्टां तां कुर्वतो तदा ॥
ममानुकुर्वतस्तातं वदनक्षौरकर्मणि ।
फेनदिग्धमुखस्यापहसितस्याम्बया भृशम् ॥
भ्रात्रा जितस्य क्रीडायां रुदतोऽश्रूणि मुञ्चतः।
मात्रा समाश्वासितस्य ते हि मे दिवसा गताः ॥ १ ॥

ईर्ष्यया गणिते दक्षमुद्दिश्य सहपाठिनम् ।   
मिथ्यारोपं कृतवतो गुरुणा दण्डितस्य च॥ 
फलचौर्यकृतौ सायमुद्यतस्याम्रनिष्कुटे ।
मम पित्रैव दृष्टस्य ताडितस्य च निर्दयम् ॥
पश्यन्तीनां बालिकानां कर्तुम् धृत्या प्रलोभनम् ।
वेगदीर्घीकृताङ्गस्य नद्यां प्लवनकर्मणि ॥
ग्रीष्मावकाशे संप्राप्ते निरतस्य दिवा सदा ।

तरुवानरखेलायां ते हि मे दिवसा गताः ॥ २ ॥
- - - -