चन्द्रिका-६६
निजदयितसुतं
प्रियासमेतं
प्रणतममोघशुभाशिषो
वचोभिः ।
नरपतिरमितोत्सवोऽभ्यषिञ्चत्
किमिह
सुखं जनकस्य पुत्रभूतेः ॥ २३७ ॥
सुतपरिणयमङ्गलार्थसिद्ध्यै
निजसचिवं
च समादिदेश राजा ।
भवतु
सकलवैधकार्यजातं
नगरजनस्य
सुखार्थमित्यवोचत् ॥ २३८ ॥
समुचितसुजने
विमातृपुत्रीं
घटयितुमैच्छतुमां
च चन्द्रिका सा ।
सविनयमवदत्स्वरागपात्रं
यदि भवितेदमहं ध्रुवं सुहृष्टा ॥ २३९ ॥- - - -
No comments:
Post a Comment