Follow by Email

Wednesday, March 28, 2012

Sanskrit blog: Einstein is indeed right!

ऐन्श्टैनस्य सापेक्षतावादः जेजीयते खलु।
महतः विज्ञानिनः ऐन्श्टैनस्य सापेक्षतावादः कथयति,  न किञ्चिदपि द्रव्यं द्युतेः द्रुततरं गच्छतीति । परंतु परुत् सेप्टम्बरमासे ओपेरानाम विज्ञानिनां वृन्दं न्युट्रिनोनामा अतिसूक्ष्मकणः कृतप्रयोगे  द्युतेः द्रुततरं प्राद्रवत् इति उदघोषयत् । जगतः विज्ञानिनाम् वृन्दे महत्कोलाहलमभूत् । न्युट्रिनोकणः एलेक्ट्रान्कणवत् परमसूक्ष्मः । परंतु अस्मिन् कणे विद्युदंशः(charge) नास्त्येव । अस्य द्रव्यांशः(mass) एलेक्ट्रान्द्रव्यांशात् अपि अतिन्यूनतरः । विद्युदंशविरहितः अयं कणः द्रव्यनिवहेषु सलीलं प्रद्रवति । ऐन्श्टैनस्य सापेक्षतावादः नैकप्रयोगैः प्रमाणीकृतः मिथ्या अभवत् किम् इति प्रश्नः उदभवत् । प्रयोगस्य पुनः करणे कानिचन विज्ञानिनां वृन्दा्नि प्रायतन्त ।
इदानीं ऐकारस्नाम वृन्दं प्रयोगं पुनः कृत्वा कथयति, न्युट्रिनोसूक्ष्मकणोऽपि ऐन्श्टैनस्य सिद्धान्तं नातिचरति इति । भौतविज्ञानिनः अस्मिन्विषये निश्चिन्ता अभवन् । ऐश्टैनस्य सापेक्षतावादः जेजीयते खलु ।
- - - - 

Friday, March 23, 2012

Sanskrit blog: Humour-44

हास्यसीकरः-४४
कस्मिन्श्चिद्ग्रामे प्रह्लादचरित्रम्नाम नाटकं नाट्यते स्म । तत्र ब्रह्मदत्तदेवदत्तौ हिरण्यकशिपुप्रह्लादपात्रधारिणौ आस्ताम् । केनापि कारणेन नाटकप्रयोजकेन हिरण्यकशिपुपात्रधारिणे ब्रह्मदत्ताय देयं मासिकवेतनं न दत्तम् । अतः ब्रह्मदत्तः कुपितः आसीत् । सायं नाटके नाट्यमाने विष्णोः   प्रत्यक्षीकरणाङ्कः प्रचलन्नासीत् । ब्रह्मदत्तेन, बाल, यदि तव विष्णुः सर्वान्तर्यामी चेत्, सः अस्मिन् स्तम्भेऽप्यस्ति किम्? इति रङ्गस्य वामस्तम्भं दर्शयन् भणितव्यमासीत् । प्रह्लादपात्रधारिणा देवदत्तेन, निस्संशयम्, तात इति भणितव्यमासीत् । तदा झटिति वामस्तम्भान्तर्हितविष्णोः प्रादुर्भावः भाव्यः आसीत् । कुपितः ब्रह्मदत्तस्तु वामस्तम्भस्थलेदक्षिणस्तम्भं दर्शयन्, बाल, यदि तव विष्णुः सर्वान्तर्यामी चेत् सः अस्मिन् स्तम्भेऽप्यस्ति किम्”” इत्यपृच्छत् । दिग्भ्रान्तोऽपि प्रह्लादपात्रधारी देवदत्तः प्रत्युत्पन्नमतिः अवदत्, तात, विष्णुः तस्मिन् स्तम्भे नास्ति । अस्मिन् स्तम्भे अस्ति इति वदन् वामस्तम्भमदर्शयत् ।
- - - - 

Friday, March 16, 2012

Sanskrit blog: "Where the mind is without fear"

मम ब्लाग्-रचनायाः प्रथमवर्षः अद्य समाप्तः । अस्मिन्नवसरे गुरुदेवस्य रबीन्द्रनाथ ठाकुरस्य प्रथितगीतस्य यस्य प्रथमपङ्क्तिः आङ्ग्लभाषायां “Where the mind is without fear” इति वर्तते तस्य संस्कृतच्छायानुवादं सहर्षं प्रस्तौमि ।

शीर्षं यत्रास्त्यनवनमितं यत्र चित्तं त्वभीतम् ।
ज्ञानं मुक्तं  न जगदखिलं क्षुद्रभित्तिप्रभिन्नम् ।
वाणी यत्र प्रवहति हृदस्सत्यगर्भात् सदैव ।
आनैपुण्यं प्रभवति सदा यत्र कार्यप्रवृत्तिः।।

नीचाचाराभिधमरुतले सद्विवेकस्य धारा
नष्टा नैवाविरतविकसत्भावनाकार्यशीलम्
चेतो यत्र त्वदमितदयया भास्वरे तत्र नाके
स्वातन्त्र्याख्ये कुरु जनक हे जागृतं भारतं मे ।।
अन्वयः : यत्र शीर्षं अनवनमितम् अस्ति, यत्र चित्तं तु अभीतम्, (यत्र) ज्ञानं मुक्तम्, जगत् अखिलं क्षुद्रभित्तिप्रभिन्नं न, यत्र वाणी सदा एव सत्यगर्भात् हृदः प्रवहति, यत्र कार्यप्रवृत्तिः सदा आ-नैपुण्यं प्रभवति, (यत्र) सद्विवेकस्य धारा नीच-आचार-अभिध-मरुतले न नष्टा एव, यत्र चेतः त्वत्-अमित-दयया अविरत-विकसत्-भावना-कार्य-शीलम्, तत्र स्वातन्त्र्याख्ये भास्वरे नाके हे जनक मे भारतं जाग्रतं कुरु ।

English text
Where the mind is without fear and the head is held high;
Where knowledge is free;
Where the world has not been broken up into fragments by narrow domestic walls;
Where words come out from the depth of truth;
Where tireless striving stretches its arms towards perfection;
Where the clear stream of reason has not lost its way into the dreary desert sand of dead habit;
Where the mind is led forward by thee into ever-widening thought and action --
Into that heaven of freedom, my Father, let my country awake.[1]
Bengali Text
চিত্ত যেথা ভয়শূন্য, উচ্চ যেথা শির,
জ্ঞান যেথা মুক্ত, যেথা গৃহের প্রাচীর
আপন প্রাঙ্গণতলে দিবসশর্বরী
বসুধারে রাখে নাই খণ্ড ক্ষুদ্র করি,
যেথা বাক্য হৃদয়ের উত্‍‌সমুখ হতে
উচ্ছ্বসিয়া উঠে, যেথা নির্বারিত স্রোতে
দেশে দেশে দিশে দিশে কর্মধারা ধায়
অজস্র সহস্রবিধ চরিতার্থতায়,
যেথা তুচ্ছ আচারের মরুবালুরাশি
বিচারের স্রোতঃপথ ফেলে নাই গ্রাসি---
পৌরুষেরে করে নি শতধা, নিত্য যেথা
তুমি সর্ব কর্ম চিন্তা আনন্দের নেতা,
নিজ হস্তে নির্দয় আঘাত করি, পিতঃ,
ভারতেরে সেই স্বর্গে করো জাগরিত
- - - -

Saturday, March 10, 2012

Sanskrit blog: Love's Philosophy


अनुरागतत्त्वम्
स्रोतांसि नद्या सह संगतानि
नदी समेता खलु सागरेण ।
श्लिष्यन्ति वाता गगने परस्परम्
चिराय युक्ता कमनीयरागैः ॥

एकाकिनो केऽत्र भवन्ति लोके
प्रायेण सर्वेऽपि मिथो मिलन्ति ।
सैवेश्वरेच्छा यदि सत्यमेतत्
त्वया सहाहं न कथं मिलेयम् ॥ 

चुम्बन्ति शैला गगनं तरंगाः
अन्योन्यमालिङ्ग्य जले भ्रमन्ति ।
पुष्पं न किंचित् सहते ह्यवज्ञाम्
यद्यन्यपुष्पेण तिरस्कृतं चेत् ॥


श्लिष्टा धरा सूर्यकरैः सुगाढम्
पाथोनिधिं चुम्बति चन्द्ररश्मिः ।
व्यर्थानि तान्यत्र हि चुम्बनानि
न चुम्बसि त्वं यदि मामिदानीम् ॥ 

A rough rendering of PB Shelley’s
Love’s Philosophy

The fountains mingle with the river,
And the rivers with the ocean;
The winds of heaven mix forever,
With a sweet emotion;
Nothing in the world is single;
All things by a law divine
In one another's being mingle;--
Why not I with thine?
See! the mountains kiss high heaven,
And the waves clasp one another;
No sister flower would be forgiven,
If it disdained it's brother;
And the sunlight clasps the earth,
And the moonbeams kiss the sea;--
What are all these kissings worth,
If thou kiss not me?
- - - - 

Monday, March 5, 2012

Sanskrit blog: Humour-43

हास्यसीकरः-४३
शस्त्रचिकित्सार्थं रुग्णालयं प्रवेशितस्य ब्रह्मदत्तस्य तदानीं शस्त्रचिकित्सा करणीया आसीत् । तदा काचन शुश्रूषिका सचक्रासन्द्याम्
 उपविष्टं तथापि सोद्वेगं स्वहस्ताभ्यां द्रुतं सचक्रासन्द्याः चक्रे चालयन्तं वैद्यशालायाः प्राङ्गणे भ्रमन्तं तमपश्यत् । तया सोद्वेगभ्रमणस्य कारणं पृष्टः ब्रह्मदत्तः प्रत्यवदत्, भोः, शस्त्रचिकित्सागारे स्थिता शुश्रूषिका अवादीत्, मा भैषीः, शस्त्रचिकित्सा निर्विघ्नं सुखान्त्यं भविष्यति इति। शुश्रूषिका प्रत्यवदत्, भोः, यदि सा त्वाम् इत्थमवादीत् त्वं निर्भयो भवेः खलु? इति । ब्रह्मदत्तः प्रत्यवदत्, भोः, सा मां नावादीत्, सा शस्त्रचिकित्सकमवादीत् खलु! इति । 
- - - -