Saturday, May 25, 2013

Sanskrit blog: Humour-73

हास्यसीकरः-७३


शर्वर्यां गाढान्धकारे पर्जन्यः तडित्स्तनितसहितधारासम्पातैः वर्षति स्म । ब्रह्मदत्तः एकाकी विजने राजपथे चलति स्म । किञ्चित् कार्-यानमागच्छेत् यदि चालकं प्रार्थयित्वा कार्-याने गच्छेयम् इति चिन्तयन् जलसिक्तः तमसि तडित्ज्वलितराजपथे न्यस्तदृष्टिः शनैः प्राचलत् । तदा किमपि यानं शिरोदीपं विना शनैः आगच्छदिव दृष्टम् । कार्-यानस्य द्वारमपावृतमासीत् । झटिति कार्-यानमारुह्य पृष्ठपीठे उपाविशत् । यदा सिक्तोत्तरीयं परित्यज्य सावधानं परितः तमस्येव दृष्टिमचालयत् तदा तस्मै अवगतमभवत् यत् चार्-चालकस्थानम् रिक्तमासीत्, कार्-याने अन्यः कोऽपि नासीत्, परन्तु कार्-यानं चलन्नेव आसीत् । दिग्भ्रान्तः भयभीतश्च अभवत् । पर्जन्ये निरन्तरं वर्षति सति सः कुत्र वा गच्छेत् । पीठे एव नमितसंकुचिताङ्गः ईश्वरं प्रार्थयन्  तस्थौ । सपदि कार्-यानस्य वेगः वर्धन्निव अभात् । राजपथे दृष्टिं न्यदधात् । कस्यापि हस्तः यानस्य मार्गनियन्त्रणचक्रं भ्रामयन्निव बभौ । पूर्वमेव भीतस्य ब्रह्मदत्तस्य भयं सीमातीतमभवत् । दैववशात् राजपथपार्श्वे ज्वलन् दीपः दृष्टः । झटिति कार्-यानादवातरत् । दीपः अनतिदूरे स्थितस्य कस्यचन उपाहारगृहस्य आसीत् । तं गृहं प्रति द्रुतं प्राचलत् । अचिरेणैव उपाहारगृहमवाप च ।
उपाहारगृहे परिधानशोषणं कृत्वा उपाहारं भक्षयितुं प्रारभत । तदा द्वौ बृहत्कायौ सिक्तवस्त्रौ पुरुषौ तत्र आगतौ । तयोः एकः ब्रह्मदत्तं क्रूरदृष्ट्या पश्यन् अन्यमवदत्, रे, अयमेव धूर्तः यः यदा आवां अस्मत्-कार्-यानस्य पृष्ठे  यानं हस्ताभ्यां बलात् प्रणुदन्तौ आस्व तदा झटिति कार्-याने समुपाविशत् इति । 
- - - -  

Friday, May 17, 2013

Sanskrit blog: An ode to Google



गूगलगीता
कुत्र किं क्रीयते वस्तु कुत्र विक्रीयते च तत् ।
किं मूल्यं च भवेन्मित्र गूगलं शरणं व्रज ॥ १ ॥
अस्वस्थमद्यमेऽपत्यं को गदः किं च भेषजम् ।
कुत्रास्ति वैद्यो मे ब्रूहि गूगलं शरणं व्रज ॥ २॥
भोजनाय क्व गच्छाम किं खाद्यं तत्र लभ्यते ।
किं मूल्यं च कियद्दूरं गूगलं शरणं व्रज ॥ ३ ॥
चलचित्रालयं कुत्र तत्र किं चित्रदर्शनम् ।
तत्र दर्शनवेला का गूगलं शरणं व्रज ॥ ४ ॥
कुत्रास्म्यहमिदानीं भोः कियद्दूरं हि मद्गृहम् ।
वर्त्मना केन गच्छानि गूगलं शरणं व्रज ॥ ५ ॥  
विश्रान्त्यै कुत्र गच्छाम तत्रासीदाम वा कथम् ।     
तत्र पश्याम किं मित्र गूगलं शरणं व्रज ॥ ६ ॥
कोऽर्थः पदस्य तत् वाक्ये कथं सम्यक् प्रयुज्यते ।
समानार्थपदं किं स्यात् गूगलं शरणं व्रज ॥ ७ ॥  
चित्राणि द्रष्टुमिच्छामि श्रोतुमिच्छामि गायनम् ।
इच्छामि पठितुं ग्रन्थं गूगलं शरणं व्रज ॥ ८ ॥
शालायां सहपाठी मे कुत्राद्येति कुतूहलम्
देशकालततायामं गूगलं शरणं व्रज ॥ ९ ॥
चेतुमिच्छसि किं पत्नीं पतिं जामातरं स्नुषाम् ।
नवोद्योगं तदा सद्यः गूगलं शरणं व्रज ॥ १० ॥
विमानरेल्-यानानां गमनागमनेषु किम्।
विलम्बं सूच्यते मित्र गूगलं शरणं व्रज ॥ ११ ॥
कुत्र वर्षति पर्जन्यः कुत्र शैत्यं कियन्मितम् ।
कुत्र सूर्यप्रखरता गूगलं शरणं व्रज ॥ १२ ॥
नगरे मम का वार्ता मद्देशे वा महीतले ।
क्रीडासु जनसौख्ये च गूगलं शरणं व्रज ॥ १३ ॥
तत्त्वार्थशास्त्रविज्ञानगणिताध्ययने स्पृहा
सर्वज्ञानमहाद्वारं गूगलं शरणं व्रज ॥ १४ ॥
आत्मानन्दं मनःशान्तिं तृप्तिं वाञ्छसि वा यदि ।
गूगलं सम्परित्यज्य श्रीहरिं शरणं व्रज ॥ १५ ॥
- - - -

Saturday, May 11, 2013

Sanskrit blog: Humour-72

हास्यसीकरः-७२


कश्चन पुरुषः आरक्षकमुपेत्य अध्यक्षिपत्, आर्य, कष्टमापतितम् । मम गृहात् चोराः साक्षात्करम् (T.V.) एकं विहाय सर्वाणि वस्तून्यादाय पलायितवन्तः इति ।
आरक्षकः अपृच्छत्, आश्चर्यम् खलु ! कुतः साक्षात्करम् आदाय न गताः?
पुरुषः प्रत्यवदत्, अहं साक्षात्करे चलचित्रं प्रेक्षमाणः आसम् खलु इति ।
- - - - 

Saturday, May 4, 2013

Sanskrit blog: The horse and the sheep

मेषतुरङ्गमौ


कृषीवलः कश्चन मेषमेकं तुरंगमं पालयति स्म घोषे ।
हयस्तु रोगव्यथितोऽभवद्यदा स वाजिवैद्यं त्वरयानिनाय । १ ॥
परीक्ष्य वैद्यः प्रसभं तुरङ्गम् ददौ च तस्मै अगदं सुखप्रदम् ।
बभाण भोः कर्षक खादयेममश्वं सयत्नं दिवसत्रयावधि । २॥
भवेत् तुरंगः सबलो निरामयो भवेः सहर्षस्त्वमपि प्रसन्नः ।
यद्यन्यथा चेत् प्रसभं तुरंगमं हन्या न यावत् प्रसरेत् विषक्रिमिः । ३॥
विषक्रिमिग्रस्तहयात् यथान्यजीवी न यात्यामयदोषशीलताम् ।
तथाप्रमत्तस्त्वमिमं तुरंगमं दिनत्रयं पालय सादरं सखे ॥ ४ ॥    
आदेशमेनं श्रुतवान् समीपे स्थितः स मेषोऽवहितस्तदानीम् ।
कृषीवलस्त्वश्वमखादयत् ततो निर्दिष्टरीत्या प्रथमे दिनेऽगदम् ॥ ५ ॥
उवाच मेषो विनयान्वितोऽश्वं भो मित्र शीघ्रं सबलो भव त्वम् ।
यद्यन्यथा त्वां कृषको हनिष्यते उत्तिष्ठ यत्नेन जिजीविषुश्चेत् ॥ ६ ॥
उत्थातुमश्वोऽपि मनाक् न येते तथैव चाभूदहनि द्वितीये ।
मेषस्तृतीयेऽहनि भूय एव हयं कृपालुः समुपाजगाम ॥ ७ ॥
उवाच कष्टं शृणु मित्र मद्वचो निस्संशयं त्वं यमसद्मगन्ता ।
श्व एव तस्मात् कुरु सर्वशक्त्या उत्थातुमद्यैव भियात्र यत्नम् ॥ ८ ॥
श्रुत्वा गिरस्तस्य हयस्तदानीं शनैः शनैः  भीरुतयोदतिष्ठत् ।
मेषः सहर्षं व्यनदत्सुदीर्घं श्रुत्वागमत्तत्र कृषीवलस्तदा ॥ ९ ॥
पादैः स्थितं तं तुरगं विलोक्य सानन्दमुच्चैरवदत् स्वभृत्यान् ।
अयं मदीयस्तुरगो निरामयो श्व एव भूयात् स्वगृहे महोत्सवः ॥ १० ॥
हनाम मेषं द्रुतमद्य पुष्टं पिबाम खादाम च मेषसूपम् ।
प्रायेण सत्कार्यपरा हि जन्तवो क्लिश्यन्ति लोके स्वकृतैः सुकर्मभिः ॥ ११ ॥
- - - -