Follow by Email

Saturday, April 26, 2014

Sanskrit blog:Conversation between a couple-2.

पतिपत्नीसंलापः-२

कच्चित् प्रिये स्मरसि ते जननी न्यगादीत् ।
मां हर्षदुःखतटबद्धनदीनिभोक्तीः।
अद्यप्रभृत्यभिमतं न ममात्मजायाः
क्रीडाप्रमोदचरितं भवता सहेति ॥ ७ ॥

कच्चित् प्रिय स्मरसि मत्सदनस्य पृष्ठे
मन्नामपत्रसहितं कुसुमं गुलाबिम् ।
पीतं सुगन्धि सुभगं निभृतं गवाक्षे ।
विन्यस्य सत्वरमगाः विनिवृत्तदृष्टिः ॥ ८ ॥

कच्चित्प्रिये स्मरसि देवनिकेतनान्तः
आवां कदाचिदभिजातजनैरुपेतौ ।
संत्यज्य भक्तजनयोग्यमतिं सलीलम् ।
अन्योन्यदृष्टिमिलनैः अवदाव नाल्पम् ॥ ९ ॥

कच्चित्प्रिय स्मरसि मामुपवीणयन्तीम् ।
श्रुत्वा मदालयसमीपमुपेयिवान् त्वम् ।
त्वामाह्वयन्ममपिता विनयाद्यदैव
गीतं ह्रिया स्खलनपूर्णमभूत्तदैव ॥ १० ॥

कच्चित्प्रिये स्मरसि ते जननीं मदीया
मातावदत् तव ततावयवेषु पुत्र्याः
काचित्स्फुरत्यतुलयौवनरूपदीप्तिः
भद्रं भवेत् तदनुरूपवरो वृतः किम् ॥ ११ ॥

कच्चित्प्रिय स्मरसि मद्भ्रुकुटीं विलोक्य
मातावदन्नगरतो वरयन्ति नैके ।
विद्यार्जनं हि ममलक्ष्यमिति प्रवक्ति

पुत्रीत्यपूर्णवचना त्वयि सन्निकृष्टे ॥ १२ ॥
- - - - 

Saturday, April 19, 2014

Sanskrit blog: Humour-96

हास्यसीकरः-९६

पुरुषः : बाल, कुतः मत्तः धावसि? जानासि किम् कोऽहमिति?

बालः : भोः, यदि त्वमपि न वेत्सि कोऽहमिति कथमहं विद्येयं कस्त्वमिति?
- - - - 

Saturday, April 12, 2014

Sanskrit blog: Conversation between a couple-1

पतिपत्नीसंलापः-१
कच्चित् प्रिये स्मरसि तानि दिनानि वीथ्याम्।
वर्षागमे ऽविगणय्य वचो गुरूणाम् ।
स्थित्वा गृहाद्बहिरनर्गलवृष्टिपाते ।
आवामभूव सुतरामुदकार्द्रवस्त्रौ ॥ १ ॥

कच्चित्प्रिय स्मरसि यद्भवता तदानीम् ।
त्वत्पांसुपङ्किलकरेण समन्दहासम् ।
मुद्राङ्किता सुविशदा खलु मे कपोले ।
बाष्पाम्बुरुद्धनयनाभवमस्मये च ॥ २ ॥

कच्चित्प्रिये स्मरसि ते प्रणयाज्जनन्या ।
यत्स्वादुभक्ष्यमशनाय तव प्रदत्तम् ।
विद्यालयेऽहनि मया सह तत्त्वमादः ।
बाल्योचितप्रहसनप्रकरोपदंशम् ॥ ३ ॥

कच्चित्प्रिय स्मरसि यद्भवदीयमात्रा ।
संप्रेषिते चणकजीरकभक्तभक्ष्ये ।
संदश्य रक्तमरिचं त्वयि बद्धदृष्टिः ।
बाष्पप्रवाहपरिरुद्धविलोकनासम् ॥ ४ ॥

कच्चित् प्रिये स्मरसि मे गुरुणा परीक्षा-
काले त्वया सह वृथालपने निषिद्धे ।
आगत्य मद्गृहमपूर्वसुमप्रदान-
व्याजेन ते स्मितरुचा नितरामलिम्पः ।। ५ ॥

कच्चित् प्रिय स्मरसि रोषपरीतचित्ता
वक्तुं त्वया सह नैच्छमहानि सेर्ष्यम् ।
अङ्कार्जने परिणतं प्रतिभान्वितं त्वाम्

अन्याश्च यान्ति ललना इति शिक्षणाय ॥ ६ ॥
- - - - 

Saturday, April 5, 2014

Sanskrit blog: Humour-95

हास्यसीकरः-९५

हरिदत्तः धर्मदत्तः सन्जयदत्तश्च वयस्याः आसन् । त्रयोऽपि एककाले एव स्वर्गमगच्छन् । तत्र चित्रगुप्तः तानवदत्, “भोः! शृणुत, पृष्टप्रश्नस्य सत्यमेव उत्तरं प्रदेयम् । यदि कोऽपि असत्यं वदेत् तर्हि सः स्वर्गात् बहिष्क्रियते “ इति । अथ   सः हरिदत्तमपृच्छत्, “कच्चित् भूलोके परदाररतः अभवः?” “कदापि न प्रभो” इत्यवदत् हरिदत्तः । “बाढम्, इमानि कौशेयवस्त्राणि परिधाय स्वर्गसुखमनुभव” इति । हरिदत्तः तुष्टः कौशेयवस्त्राणि परिजग्राह । चित्रगुप्तः धर्मदत्तमपि तथैव अपृच्छत् । “ कदा कदा परदाररक्तः अभवम् ।परंतु पश्चात् तप्तः स्वदारास्वेव रतः अभवम्”इति । चित्रदत्तः तस्मै कार्पासवस्त्राणि ददौ । चित्रगुप्तेन तथैव पृष्टः सन्जयदत्तः उत्तरमदात्, “क्षमस्व माम् । अहं सदा परदारास्वेव रतः अभवम्” इति । तस्मै चित्रगुप्तः वल्कलानि ददौ । काले गते एकदा सन्जयदत्तः हरिदत्तेन सह सममिलत् । तदा दुःखसागरे निमग्नं हरिदत्तं सन्जयदत्तः अपृच्छत्, “मित्र! किमिदम्? कुतः दुःखमग्नः असि?” इति । “ह्यः वल्कलवस्त्रधारिणीं मम भार्यामत्र अपश्यम् ” इति निर्विण्णः हरिदत्तः अवदत्। - - - -