Saturday, December 31, 2016

Sanskrit blog : Chandrika (A Fairy tale)-70

चन्द्रिका-७०

राज्ञ्यासह स्वप्रकृतीः स्वयमेव राजा
सप्रश्रयं ह्यससभाजत राजसौधे ।
चन्द्रः नभस्युडुगणान् दयितान् ससन्ध्यः
सुस्वागतं न किमसौ वदति प्रदोषे ॥ २५० ॥

कन्याद्वयी परिणये धनिकैश्च दीनैः
औद्वाहिकैर्बहुविधैरभिवर्षिताभूत् ।
आशीर्भिरीप्सितफलप्रदवेदवाक्यैः
नोपायनं खलु सुखाय यथा सदाशीः ॥ २५१ ॥

सन्तर्पयन्ति सकलान् स्म नरेशसूदाः
चोष्यैश्च लेह्यलवणैः वरभक्ष्यभोज्यैः ।             
पेयद्रवैः मधुरचर्वणयोग्यपूगैः   
सत्कृत्य सादरममूल्यनवोपदाभिः ॥ २५२ ॥
- - - -

Saturday, December 24, 2016

Sanskrit blog: Chandrika ( A Fairy tale )-69

चन्द्रिका-६९
उद्वाहसंभ्रमविधिं पथि घुष्यमाणां
श्रुत्वा भटैः निजसुखाय यदृच्छयैव ।
कर्माणि वृत्तिसहजानि विहाय पौराः
रथ्यास्वलङ्करणकर्मणि संप्रवृत्ताः ॥ २४६ ॥

कैश्चित्स्वसौधशिखरेषु च चत्वरेषु
संस्थापिताः गगनचुम्बिलसत्पताकाः ।
कुड्यानि सद्मनिकरस्य सुधावलेपैः
नूत्नश्रियंह्युदवहन् पुरि राजमार्गे ॥ २४७ ॥

रथ्याः सुगन्धिहिमशीतलवारिसेकैः
अम्लानपुष्पनिचयग्रथितार्द्रहारैः ।
कन्दर्पचित्रफलकैः निशि दीपवृक्षैः
कामप्यपूर्वसुषमामतुलामवापुः ॥ २४८ ॥
- - - -

Saturday, December 17, 2016

Sanskrit blog : Chandrika ( A Fairy tale)-68

चन्द्रिका-६८

विकसितकुसुमे पपात भृङ्गः
नवमकरन्दपिपासितो हि दिष्ट्या।
रुचिकरमभवत्भिषक्प्रदत्तं
शिवदयया हितमातुरस्य पथ्यम् ॥ २४३ ॥

न किमपि ललना शशाक वक्तुं
विलसदपाङ्गदृशः भृशं किलोचुः ।
स्मितसहितपरस्परेक्षणैस्तत्-
तरुणयुगं निजसम्मतिं बभाषे ॥ २४४ ॥  
x x x
पौरान्न्यमज्जयतलौकिकहर्षसिन्धौ
पृथ्वीशपुत्रसुखदामलचन्द्रिकाभा ।
संश्रुत्य ते नृपपथेषु विवाहयुग्म-
वार्तां मिथो शुभकरीं बहुधा शशंसुः ॥ २४५ ॥
- - - -

Saturday, December 10, 2016

Sanskrit blog: Chandrika ( A Fairy tale)-67

चन्द्रिका-६७ 

स्वसुतपरिणये निविष्टचित्तः
चतुरमतिस्सचिवस्तदा बभाषे ।
निरवधिकगुणो युवा सुरूपी
मम सुत एव भवेदुमोपयन्ता ॥ २४० ॥

अभजत हृदयं सुखं कलायाः
निजतनुजोपयमप्रकल्पनोत्थम् ।
विकचसुमरुचिं बभाज तन्व्याः
मुखमनिरीक्षितमङ्गलादुमायाः ॥ २४१ ॥

तदनु सपदि मन्दहासमूर्तिः
सचिवसुतः गिरिशाभिधः बभाषे ।
प्रियतमपदवीं दधीत रम्या
यदि मयि मत्सुखमेत्यपूर्वकाष्ठाम् ॥ २४२ ॥ 
- - - -

Saturday, December 3, 2016

Sanskrit blog: Chandrika ( A Fairy tale)-66

चन्द्रिका-६६

निजदयितसुतं प्रियासमेतं
प्रणतममोघशुभाशिषो वचोभिः ।
नरपतिरमितोत्सवोऽभ्यषिञ्चत्
किमिह सुखं जनकस्य पुत्रभूतेः ॥ २३७ ॥

सुतपरिणयमङ्गलार्थसिद्ध्यै
निजसचिवं च समादिदेश राजा ।
भवतु सकलवैधकार्यजातं
नगरजनस्य सुखार्थमित्यवोचत् ॥ २३८ ॥

समुचितसुजने विमातृपुत्रीं
घटयितुमैच्छतुमां च चन्द्रिका सा ।
सविनयमवदत्स्वरागपात्रं
यदि भवितेदमहं ध्रुवं सुहृष्टा ॥ २३९ ॥
- - - -