Monday, December 31, 2012

New Year Good-wishes

नववर्षशुभाकाङ्क्षा
शुभवर्त्मनि वर्ततां मनः प्रियमेव प्रवदाम सर्वदा ।
करवाम हितं रमापतिर्नववर्षे वितनोतु शं भुवि॥
- - - - 

Saturday, December 22, 2012

A wise saying



सुभाषितम्
सम्मार्जनीं स्वरसनां खलु मन्यमानाः
केचित् स्वचित्तशुचितां पुरुषा यतन्ते ।
कुर्वन्त एव कलुषं परमानसं ते
दूष्य़ा भवन्ति परिमार्जनधूलिदिग्धाः ॥
Some people considering that their tongue is a broom indeed try to clean their minds.
While they soil the mind of an other person (in doing so), they become condemnable smeared by the dust caused by the cleaning.
- - - -  

Saturday, December 15, 2012

Sanskrit blog: Humour-62

हास्यसीकरः-६२
परस्थलवासी कश्चन उपाहारालयं गत्वा परिचारिकामाहूय तां वदति, भोः,शृणु, मह्यं कवोष्णां काफ़ीं, अर्धपक्वमपूपद्वयं च कृपया आनय” इति ।
परिचारिका मनाक् चकिताऽपि ग्राहकसमीप्सितमाज्ञां मन्यमाना तथैव कवोष्णां काफ़ीमर्धपक्वमपूपद्वयं च आनयति, भोजनफलकस्योपरि निवेशयति च ।
तदा सः ग्राहकः तां वदति, मम गृहनिर्गमनात् प्रभृति बहूनि  दिनान्यतीतानि  । गृहोत्कण्ठा मां बाधते । अत्र आसने उपविश्य मां यथामति मद्गृहिणीवत् गर्हस्व इति ।
- - - - 

Saturday, December 8, 2012

Sanskrit blog: A lady's smile

स्मितचन्द्रिका
तस्या मुखेन्दोः स्मितचन्द्रिका सा
विनाशयन्ती स्वमरीचिजालैः।
चिन्तातमः प्रेक्षकमानसाब्धौ
आनन्दवीचीर्जनयाञ्चकार ॥
That moonlight of smile from her moon face destroyed the darkness of worries and created waves of happiness in the ocean of minds of observers.
- - - - 

Saturday, December 1, 2012

Sanskrit blog: Humour-61

हास्यसीकरः-६१
भार्या: कुतस्त्वं सर्वदा तव हस्तस्यूते मम चित्रं निवेश्य उद्योगालयं गच्छसि?
भर्ता: प्रिये, यदा उद्योगस्थले कृच्छ्रणि सम्भवन्ति तदा त्वदीयचित्रावलोकनेन तानि सुगमानि भासन्ते ।
भार्या: अहो मम अद्भुतशक्तिः ।
भर्ता: (नीचस्वरेण) बाढम्, तव चित्रं पश्यन् चिन्तयामि, अस्याः कठिनतरा बाधा कास्ति? इति । 

- - - -

Saturday, November 24, 2012

Sanskrit blog: Mahatma Gandhi and his sandal



महात्मा गान्धिः तस्य उपानच्च
महात्मा गान्धिः कदाचन रेल्-याने प्रयाति स्म । रेल्-प्रकोष्ठस्य द्वारि तिष्ठन् बहिः प्रकृतिसौन्दर्यमनुभवन् आसीत् । सपदि तस्य उपानदेका पादात् निरगलत् रेलयानात् अपततच्च । गान्धिवर्यः झटिति अन्यामुपानहं च पादात् विमोच्य बहिः प्राक्षिपत् । तस्य सहचरः तमपृच्छत्, आर्य, कुतस्त्वया अन्या उपानदपि बहिः प्रक्षिप्ता? । गान्धिवर्यः विहस्य अवदत्, एकया उपानहा मम किं कार्यम्? यदि कश्चन बहिः उपानहौ पश्यति, तस्मै ते उपयुक्ते भवेताम् इति । 
- - - - 

Saturday, November 17, 2012

Sanskrit blog: Humour-60

हास्यसीकरः-६०
विमानसंस्थया बहुवारं विमाने प्रयाणं कुर्वतां उद्योगिप्रमुखानां प्रोत्साहनार्थं नव्यः शुल्कपत्रवितरणक्रमः अनुष्ठितः । सः यथा:- उद्योगिप्रमुखस्य शुल्कपत्रेण सह तस्य पत्न्यै निःशुल्कं शुल्कपत्रं दत्तम् । उत्सुकाः उद्योगिप्रमुखाः सर्वे नूतनवितरणयोजनामनुसृत्य स्त्रीभ्यः सह प्रयाणमकुर्वन् । प्रयाणानन्तरं विमानसंस्था उद्योगिप्रमुखानां पत्नीभ्यः पत्रमेकमलिखत्, मान्ये, भवत्याः विमानयानं सुखकरमासीदिति आशंसामहे। कृपया भवत्याः प्रयाणमुद्दिश्य अस्मभ्यं किञ्चित् भवती लिखतु इति । सर्वैः पत्नीभिः उत्तराणि प्रेषितानि । सर्वेषु उत्तरपत्रेषु इदमेव लिखितं किम् प्रयाणम्?
- - - - 

Tuesday, November 13, 2012

Sanskrit blog: Festival of lights-2

दीपोत्सवः-२

आस्फोटयन् स्फोटकरान् सलीलम्
सशब्दधूमाग्निषु मोदमानाः |
पोगण्डसंघा जनयन्ति भीतिम्
वृद्धेषु बालासु तथार्भकेषु ॥ ७ ॥

कन्या रताः सुन्दररङ्गवल्ली-
-निरूपणे दैवतमन्दिरेषु ।
रथ्यासु गेहेषु चतुष्पथेषु
प्रदर्शयन्त्यः स्वकलासु कौशलम् ॥ ८ ॥


रजोप्रमृष्टाः चिरदीपपादपाः
भजन्ति नूत्नां विरजस्स्फुरत्प्रभाम् ।
गृहाग्रदेशे नवदीपशृङ्खलाः
नक्षत्रशोभाः निशि संप्रदीपिताः ॥ ९ ॥

कान्तां नवोढां रमणः प्रसादयन्
उपायनैराभरणैर्दुकूलैः ।
मिथो रतेच्छां मदनेषुविद्धः
दृष्ट्यैव तस्यै प्रकटीकरोति ॥ १० ॥

लक्ष्मीं समस्तद्रविणप्रदात्रीम्
तस्याः कटाक्षं हृदि याचमानाः ।
भजन्ति भक्त्यापणिका विपण्याम्
श्रेयस्करी सैव सदा जनानाम् ॥ ११ ॥

नव्यं दुकूलं च विभूषणं च
भर्त्रा प्रदत्तं परिधाय साध्वी ।
स्वाद्यानि भक्ष्याणि विधातुकामा
महानसे कार्यरताऽऽप्रदोषम् ॥ १२ ॥

विद्युत्प्रदीपावलिदीप्तसौधाः
मुष्णन्ति कान्तिं खलु देवपुर्याः ।
सर्वत्र लोको मुदितः प्रहृष्टः
दीपावलीपर्वणि संप्रवृत्ते ॥ १३ ॥
- - - - 
 

Sunday, November 11, 2012

Sanskrit blog: Festival of lights-1



दीपोत्सवः
प्रावृट् प्रयाता शिशिरो न चागतः
वृक्षा हरित्पर्णमया वनान्ते ।
रोमाञ्चितोर्वी नवशाद्वलावृता
प्रतीक्षते द्राक् शरदः समागमम् ॥ १ ॥

नद्यो भृशं पङ्किलवालुकायुता
चलन्ति पद्यासु दृढं कृषीवलाः ।
श्यामप्रभाशोभितकाननानि
दीपोत्सवे संप्रति संप्रवृत्ते ॥ २ ॥

दृष्ट्वा प्रपूर्णां सरसीं जलेन
कृषीवलो नन्दति फुल्लनेत्रः ।
तटाकवीचीषु विधाय सौधान्
मनोहरान् दैवदयां प्रशंसन् ॥ ३ ॥

मन्दानिलप्रेङ्खितसस्यमञ्जरीः
संवीक्ष्य बालार्कमयूखहासे ।
मुदा मनो नृत्यति कर्षकस्य
मृत्स्नां करौ संस्पृशतो सुदीर्घम् ॥ ४ ॥

संखाद्य शादं गवि सन्निवृत्ते
श्रुत्वा स्वमातुः कलकण्ठनादम् ।
वत्सो द्रुतं कृन्तति रज्जुबन्धम्
अम्बां सहर्षं त्वरयाभ्युपैति ॥ ५॥

तं स्फीतनेत्रं प्रसभं  निरोद्धुम्
मूढा मुधा धावति यष्टिहस्ता ।
व्यर्थप्रयत्ना खलु घोषकन्या ।
स स्तन्यपाने नितरां प्रवृत्तः ॥ ६ ॥
(अनुवर्तते)
- -- -


Saturday, November 3, 2012

Sanskrit blog: Humour-59

हास्यसीकरः-५९
क्रैस्तप्रार्थनामन्दिरे रविवासरे प्रार्थनानन्तरं मन्दिरस्य धारणार्थं धनसंग्रहणं कुर्वन्ति । तदा विपर्यस्तशिरस्त्राणमेकं एकस्य हस्तात् अन्यस्य हस्तं प्रतिपादयन्ति । सर्वे यथाशक्ति धनं शिरस्त्राणे निवेशयन्ति ।
एकस्मिन् प्रार्थनामन्दिरे प्रार्थनानन्तरमर्चकः शिरस्त्राणं धनसंग्रहणाय भक्तवृन्दे निहितवान् ।  त्रयः कृपणाः वयस्याः धनदाने अनिच्छवः एकत्र तत्र आसन् । यदा शिरस्त्राणमपश्यन्, तदा तेष्वेकः मूर्छितवत् सहसा ध्ररायामपतत्, अन्यौ द्वौ पतितं तं वहन्तौ द्रुतं मन्दिरात् बहिः अगच्छताम् ।
- - - - 

Saturday, October 27, 2012

Sanskrit blog: A witty saying

सुभाषितम्
कोऽपि न हि पाठयत्युद्गिरणमग्न्यगम्
न च कूलनाशनं वारिधितरङ्गम् ।
न तु वृक्षभञ्जनं वात्यां युवानम्
गेहिनीवरणं च सहजापदस्तानि ॥

A rough rendering of the following witty remark:
Nobody teaches Volcanoes to erupt,
Tsunamis to devastate,
Hurricanes to sway around
& no one teaches How to choose a Wife,
NATURAL DISASTERS JUST HAPPEN..
- - - - 

Saturday, October 20, 2012

Sanskrit blog: Humour-58

हास्यसीकरः-५८
पृच्छकः कोट्यधीश्वरं पृच्छति, आर्य, तव कोट्यधीश्वरत्वस्य किम् कारणम्?
कोट्यधीश्वरः, मम धर्मपत्नी एव कारणम्
पृच्छकः: तव धर्मपत्नी वनितामणिः खलु  । तव विवाहात् पूर्वं त्वं किमभवः?
कोट्यधीश्वरः, अहं दशकोट्यधीश्वरः अभवम्
- - - - 

Saturday, October 13, 2012

Talking frog



वचनशीलः मण्डूकः
वृद्धः धीवरः कश्चित् स्वप्लवे उपविश्य मत्स्यान् गृह्णाति स्म । तदा वाणीं शुश्राव, माम् उद्धर इति । परितः दृष्टिं प्रससार, परं तु कमपि नापश्यत् । स्वप्ने पश्यामि किमित्यचिन्तयत् । पुनः सा वाणी एव, माम् उद्धर इति । तदा जले प्लवमानं मण्डूकमेकमपश्यत् । कच्चित् त्वं मां वदसि? इत्यपृच्छत् धीवरः ।बाढम्, अहं त्वां वदामि इत्यवदत् मण्डूकः । मामुद्धृत्य मां चुम्ब । तदा अहं सुन्दरी कन्या भविष्यामि । तव पत्नी भविष्यामि । तव मित्राणि सुन्दरीसहितं त्वां सासूयं द्रक्ष्यन्ति इति । वृद्धधीवरः क्षणकालं विचिन्त्य तं मण्डूकम् उद्धृत्य स्वकञ्चुककोषे न्यक्षिपत् । मण्डूकः अवदत्, मूर्ख, त्वं मां नाश्रौषीः? मां चुम्ब, तव सुन्दरी भार्या भविष्यामि इति । वृद्धधीवरः विहस्य प्रत्यवदत्,मम वयसि वचनशीलः मण्डूक एव वरम् इति ।
- - - - 

Saturday, October 6, 2012

Sanskrit blog: Humour-57

हास्यसीकरः-५७
कश्चित् पुरुषः तमनुसृत्य भषतः शुनकात् भीतः धावति । शुनकस्तु भषन् तमभिधावति ।
अन्य एकः तं पुरुषं वदति, रे, कुतः भषतः शुनकात् भीतः धावसि? न जानासि किम् यत् भषनशीलः शुनकः न दशति, दशनशीलः शुनकः न भषतीति? इति ।
पुरुषः प्रत्यवदत् अहं ध्रुवं जानामि । परं तु अयं शुनकः तमाभाणकं जानाति वा न वा इति संशयग्रस्तः धावामि इति । 
- - - - 

Sunday, September 30, 2012

Sanskrit blog: A story of evolution


अन्या सृष्टिकथा

प्रथमे दिवसे ईश्वरः श्वानं सृष्ट्वा तमभणत्,
गृहस्य पुरतः आप्रातः आसायं तिष्ठन् भषसि । तव जीवितावधिः वर्षाणां विंशतिः भविष्यति इति । श्वा प्रत्युवाच, प्रभो, भषन् विंशतिः वर्षाणि कालयापनं दुष्करं खलु । अतः मह्यं दशवर्षाण्येव देहि । मम दत्तजीवितस्य दशवर्षाणि प्रतिनिवर्तयामि
ईश्वरः अवदत्, तथास्तु

द्वितीये दिवसे ईश्वरः वानरमसृजत् तमवदच्च, विनोदमयानि हास्यकराणि चेष्टितानि कुर्वन् कालं यापय । तव आयुः विंशतिः वर्षाणि भविष्यति इति । वानरः प्रत्युवाच, प्रभो, दुष्करं खलु विंशतिवर्षपर्यन्तं जीवनं हास्यकरचेष्टितानि कुर्वन् । दशवर्षैरलम् । मम आयुषः दशवर्षाणि प्रतिनिवर्तयामि इति । ईश्वरः अवदत्, तथास्तु

ईश्वरः तृतीये दिवसे धेनुमसृजत् तामवदच्च, त्वं आप्रातः आसायं कर्षकेण सह क्षेत्रं गत्वा प्रखरातपे क्षेत्रकर्माणि करोषि । वत्सान् जनयसि कर्षकाय पयश्च ददासि च । तुभ्यं षष्ठिवर्षमितमायुः ददामि’ इति । धेनुः प्रत्यवदत्, देव, दुःखभूयिष्ठं जीवितं विंशतिवर्षमितमेव पर्याप्तम् । मम आयुषः चत्वारिंशद्वर्षाणि प्रतिनिवर्तयामि इति । ईश्वरः अनुमेने ।

चतुर्थे दिवसे ईश्वरः मानवमसृजत् तमवदच्च, यथेच्छं भुञ्जानः स्वपन् क्रीडन् कालं यापय । तुभ्यं विंशतिवर्षमितम् आयुः ददामि इति । मानवः प्रत्यवदत्, ईश्वर, विंशतिवर्षमितम् आयुः स्वल्पं खलु । श्वाप्रतिनिवर्तितदशवर्षाणि, वानरप्रतिनिवर्तितदशवर्षाणि धेनुप्रतिनिवर्तितचत्वारिंशद्वर्षाणि च मह्यं देहि इति ।
ईश्वरः विहस्य अवदत्, तथास्तु

अत एव मानवः विंशतिवर्षादनन्तरं चत्वारिंशद् वर्षाणि धेनुवत् कुटुम्बसंरक्षणाय श्राम्यति, पश्चात् दशवर्षाणि वानरवत् पौत्रदौहित्रान् तोषयति, अन्ते दशवर्षाणि सारमेयवत् गृहस्यबहिः किमपि जल्पन् तिष्ठति खलु ।
- - - - 
My other bog Sans-Eng 

Sanskrit blog: Children - a poem by Khalil Gibran



शिशवः
शिशुं परिष्वज्य जगाद माता,
शिशून् समुद्दिश्य निरूपय प्रभो
तवार्भकास्ते न भवन्ति मातः
आत्मस्पृहालोः खलु जीवितस्य ॥
भवन्त्यपत्यानि बहिः प्रयान्ति
द्वारेण ते त्वन्न भवेयुरत्र ।
त्वत्स्वं न ते  यद्यपि ते वसन्ति
साकं त्वया कांश्चन वत्सरान् वै ॥
वात्सल्यदात्री न तु चिन्तनानां
दात्री भवेः ते स्वमनोऽधिराजाः ।
तद्विग्रहान् त्वं  खलु वासयेः चिरम्
परं तु नात्मानि कदापि तेषां ॥
श्वोभाविलोके हि वसन्ति तानि
स्वप्नेऽप्यगम्यं भुवनं त्वया तत् ।
यतस्व मा त्वत्सदृशांश्च कर्तुम्
तत्साम्यमाप्तुं यदि चेत् यतेथाः ॥
कालः स्थितो नैव सदाग्रगामी
कदापि न ह्यस्तनमार्गवर्ती ।
त्वं कार्मुकं त्वच्छिशवस्तु बाणाः
धन्वीश्वरो लक्ष्यमनन्तमार्गे ॥
पश्यन् स्वशक्त्या धनुरानमय्य
तान् लीलया मुञ्चति दूरलक्ष्ये । 
तुष्टा भवेस्त्वं नमिता महेशः
प्रेम्णा शिशून् त्वां च सदैव पश्येत्
 -- 

Above is a rough rendering of the following  famous poem of Khalil Gibran:

Children
And a woman who held a babe against her bosom said, 'Speak to us of Children.'
And he said:
Your children are not your children.
They are the sons and daughters of Life's longing for itself.
They come through you but not from you,
And though they are with you, yet they belong not to you.You may give them your love but not your thoughts.
For they have their own thoughts.
You may house their bodies but not their souls,
For their souls dwell in the house of tomorrow, which you cannot visit, not even in your dreams.
You may strive to be like them, but seek not to make them like you.
For life goes not backward nor tarries with yesterday.
You are the bows from which your children as living arrows are sent forth.
The archer sees the mark upon the path of the infinite, and He bends you with His might that His arrows may go swift and far.
Let your bending in the archer's hand be for gladness;
For even as he loves the arrow that flies, so He loves also the bow that is stable.
Khalil Gibran
- - - - 

Saturday, September 22, 2012

Sanskrit blog: Humour-56

हास्यसीकरः-५६
कश्चन वृद्धः कश्चन युवा च विपण्यां परस्परमकस्मात् समघट्टयेताम् । वृद्धः अवदत्, क्षम्यताम् । भवन्तमहं नादर्शम् । मम पत्नी अस्मिन् जनौघे मम दृष्टिपथात् लुप्ता । तां मृगयामि । इति । युवा प्रत्यवदत्, किञ्चित्करमेतत् । अहमपि मम भार्यां मृगयामि। सा चिराय मम दृष्टिपथात् लुप्ता । वृद्धः अवदत्, किंरूपा सा ? तस्याः मार्गणे अहं तव सहायः भवेयम् इति । युवा सगर्वं सदुःखं च अवदत्, सा वरारोहा कुम्भस्तनी पृथुश्रोणी करतलोदरी खलु । भवतः भार्या किंरूपा? इति । वृद्धः प्रत्यवदत्, मम भार्यायाः वार्ता तावदस्तु, भवतः भार्यामेव विचिनवाव इति ।
- - - - 

Saturday, September 15, 2012

Sanskrit blog: A witty saying



सुभाषितम्
पुरुषस्य त्रयो स्वप्नाः मातृभावितचारुता ।
जायाभावितजारिण्यः पुत्रभावितवैभवम् ॥


Rough rendering of a witty saying:
Three dreams of a man: To be as handsome as his mother thinks. To be as rich as his child believes. To have as many women as his wife suspects.
- - - -

Saturday, September 8, 2012

Sanskrit blog: Humour-55

हास्यसीकरः-५५
कस्यचित् नरस्य भार्या मृता । मृतायाः शवं शवपेटिकायां विनिवेश्य शववाहकाः शवपेटिकां शवागारमानयन् । शवागारे शवपेटिका अकस्मात् शवागारस्य भित्त्या विघट्टिता । तदा पेटिकायाः क्षीणकण्ठेन व्याह्रियमाणं किमपि क्रन्दितं श्रुतम् । यदा शववाहकैः पेटिकायाः पिधानमपावृतम् तदा सा स्त्री सजीवा इत्यवगतम् । तस्याः भर्ता विस्मितः किञ्चिद्भीतश्च तामुपचर्य गृहमानाययत् । सा ततः दशवर्षाणि जीवित्वा कालधर्ममगात् । पुनः मृतां तां शवपेटिकायां विनिवेश्य शववाहकाः शवागारमानयन् । तदा मृतायाः पतिः शववाहकानवदत्, भोः, शवागारस्य अन्तः सावधानं चलत । पेटिका भित्त्या विघट्टेत इति ।
- - - -

Saturday, September 1, 2012

Sanskrit blog: Thus spake Timmu the dull-headed


मूढतिम्मुरुवाच

क्षणतोऽपरक्षणं दिनतोऽपरं दिनं
जीवन् स्वकालस्य यापनं कुरु भोः ।
मनसि लघुता कापि सञ्चरतु शुनकवत्
स हि योगविधिरेव  मूढतिम्मो ।।७६७॥ 


इदं मात्रागणवृत्तं मूलकृतावेव प्रयुक्तमत्र मया आप्तानाम्ना अभिहितं यस्य लक्षणोऽयम् ।
पञ्चमात्रागणाः सन्ति चत्वारोऽत्र
प्रथमपादे चापि पादे तृतीये ।
द्वितीये त्रयो सन्ति पश्चात् गुरू वै
चतुर्थे त्रयो गुरुश्चाप्ताभिधे ॥



From DVG’s “manku timmana kagga”

ಕ್ಷಣದಿಂದನುಕ್ಷಣಕೆ ದಿನದಿಂದ ಮರುದಿನಕೆ
ಅನಿತನಿತರೊಳೆ ಬದುಕುತಾಯುವನು ಕಳೆವಾ |
ಮನದ ಲಘುಸಂಚಾರವೊಂದು ಯೋಗದುಪಾಯ
ಶುನಕೋಪದೇಶವಿದು ಮಂಕುತಿಮ್ಮ || ೭೬೭ ||


- - - -