Friday, June 27, 2014

Sanskrit blog: Humour-101

हास्यसीकरः-१०१

वैद्यः चिकित्सां लब्धवता केनचन सह दूरवाण्यां समलपत्, “भोः, त्वया दत्तं वित्तकोषपत्रं(cheque) पुनरायातम् खलु” इति ।

चिकित्सितः प्रत्यवदत्,”क्षम्यतां, मम जानुवेदना च पुनरायाता” इति ।
- - - - 

Friday, June 20, 2014

Sanskrit blog: Conversation between a couple-6

पतिपत्नीसंलापः-६

कच्चित्प्रिये स्मरसि रोषपरीतनेत्राम्
केनापि कारणलवेन मयि प्ररुष्टाम् ।
त्वां निन्दनैर्बहुविधैः खलु मां तुदन्तीम्
पुत्री स्वमुग्धवचनैरकरोत् हसन्तीम् ॥ ३१ ॥

कच्चित्प्रिय स्मरसि नागरपाठशालाम्
यावद्गता तव सुता खलु तावदेव
मां पाककर्मणि रतां प्रसभं बलाढ्यः

शय्यागृहं  ह्यगमयस्त्वमदम्यकामः ॥ ३२ ॥
- - - - 

Friday, June 13, 2014

Sanskrit blog: Humour-100

हास्यसीकरः-१००

काचन कार्-यानचालिका राजपथे आरक्षकेण अवरुद्धा । अवरोधकारणं पृष्टः आरक्षकः प्रत्यवदत्, “आर्ये! अनुज्ञातवेगमतिक्रम्य वाहनं त्वया चालितम् । कृपया दर्शय तव चालनानुज्ञापत्रम् । स्त्री प्रत्यवदत्, “आर्य! मम अनुज्ञापत्रं नास्ति । त्रिवारं मदिरापानमत्ता कार्-यानचालनमकरवमिति कारणात् आरक्षकैः तत् स्वायत्तीकृतम्”। चकितः आरक्षकः अपृच्छत्,”आर्ये! कृपया वाहनस्य पञ्जीसंख्यापत्रं दर्शय” इति । स्त्री प्रत्यवदत्, “तन्नास्ति, अहं इदं कारयानमपाहरम् “।
आरक्षकः,”अपाहरः?”
स्त्री, “बाढम्, न केवलं कार्-यानमपाहरं, तस्य स्वामिनं हत्वा तस्य कायं खण्डशः निकर्त्य कार्-यानस्य सामग्रीकोष्ठे न्यवेशयम्”
आरक्षकः नितरां भ्रान्तः स्वनियामकेन सह दूरवाण्या समलपत् साहाय्यं प्रार्थयच्च । क्षणात् नियामकः कतिभिश्चन आरक्षकैः सह तत्र वाहने आगच्छत् । तां स्त्रियं स्वगुलिकास्त्रस्य लक्ष्यं कृत्वा अवदत्,”कृपया यानादवातर”।स्त्री अवातरत् अपृच्छच्च,”आर्य, किमापतितम्?” नियामकः,” आर्ये! मम आरक्षकः वदति,”त्वं, कार्-यानमपहृत्य तस्य स्वामिनमहन्” इति । दिग्भ्रान्ता इव स्त्री अवदत्, “किं?किं? अहमहनम्? “ इति। नियामकः अवदत्, “कार्-यानस्य सामग्रीकोष्ठम् अपावृणु” इति । स्त्री सामग्री-कोष्ठम् अपावृणोत् । सामग्री कोष्ठे न किञ्चिदपि वस्तु अवर्तत ।
नियामकः, “कच्चिदिदं तव यानम्?”
स्त्री, “आर्य! निःसंशयम्” ।
 “तर्हि तव यानस्य पञ्जीसंख्यापत्रं दर्शय” ।
“पश्य, इदं पत्रम्” इति वदन्ती पञ्जीसंख्यापत्रमदर्शयत्।
“तव चालनानुज्ञापत्रं दर्शय।“
हस्तस्यूतात् अनुज्ञापत्रमुद्धृत्य स्त्री अदर्शयत् ।
नियामकः उद्भ्रान्तः तामवदत्, “आर्ये! क्षमस्व माम् । आरक्षकः मामवादीत् त्वं कारयानमपहृत्य, कार्-यानस्वामिनं हत्वा, तस्य कलेवरं निकर्त्य यानस्य सामग्री-कोष्ठे न्यवेशयः । त्वया साकं न कार्-यानपञ्जीसंख्यापत्रं न च तव चालनानुज्ञापत्रं वर्तेते इति ।“

स्त्री, “अहो! अनृतस्य पराकाष्ठा खलु । स च प्रायेण अवादीत् यदहं अनुज्ञातवेगमतिक्रम्य कार्-यानचालनमकार्षं च?”
- - - -  

Friday, June 6, 2014

Sanskrit blog:Conversation between a couple-5

पतिपत्नीसंलापः-५

कच्चित्प्रिये स्मरसि मां तदनु न्यगादीः
ग्रामात्पुरं जिगमिषुं विभवार्जनाय ।
मा गा हृदीश न भवेयमहं विना त्वाम्
इत्यन्वगाश्च झटिति प्रणयार्दितं माम् ॥ २५ ॥

कच्चित्प्रिय स्मरसि दौहृदलक्षणस्थाम्
विद्यार्जने शिथिलिताध्यनप्रवृत्तिम् ।
संचोदयन् बहुमुखैः प्रविलोभनैर्माम्
भूयो प्रशिक्षणविधावकरोः प्रवृत्ताम् ॥ २६ ॥

कच्चित्प्रिये स्मरसि मां प्रति सूतिगेहे
सूतिव्यथाजनितरूक्षवचांसि तानि ।
संश्रुत्य ते प्रलपितानि नियम्य हासम्
शुश्रूषिका सकरुणं समसान्त्वयत्त्वाम् ॥ २७ ॥

कच्चित्प्रिय स्मरसि मोहकमर्भकं मे
पार्श्वे प्रसुप्तमवलोक्य मुहुर्मुहुस्त्वम् ।
हर्षापगारयनिमज्जनधौतचित्तां
मां प्रेमपूरितदृशा नितरामचूषः ॥॥ २८ ॥

कच्चित्प्रिये स्मरसि ता युगदीर्घरात्रीः
यासु त्वया सह सुतां ज्वरपीडिताङ्गीम् ।
अङ्के निवेश्य हिमशीतलपट्ट्बन्धैः
शीर्षस्य तापशमने बहुशोऽयते‍ऽहम् ॥ २९ ॥

कच्चित्प्रिय स्मरसि सोत्सवसंभ्रमान् तान्
पादौ परिक्षिपति च स्मयतेऽधुनेति ।
अद्यात्मनैव विचलत्युरसेति पुत्री

पद्भ्यां स्वयं चरति संप्रति जल्पतीति ॥ ३० ॥  
- - - -