Saturday, May 30, 2015

Sanskrit blog: An Ode to the Scientific Spirit-24

विज्ञानसंस्कृतिः-२४

अलेक्सांडर् फ़्लमिन्ग् वर्येण वैद्येन
सूक्ष्मगदजनकजन्तून्मूलने जयः
प्राप्तो नु पेनिसिलिनेत्याह्वभेषजात्
नोबलोपायनं प्राप्तं च कोटिशः
रुग्णा निरामया अभवन् तदगदेन

तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ २५ ॥  
_ _ _ _ 

Saturday, May 23, 2015

Sanskrit blog: An ode to the Scientific Spirit-23

विज्ञानसंस्कृतिः-२३

सीविरामन्नामभारतसुताग्रणी
रामन्प्रभाव इति विदितामवेक्षणां
द्रव्याणुभिर्दीप्तिविकिरणप्रकरणे
साग्रहं सन्दर्श्य नोबलोपायनं
वरभारतरत्नोपाधिमलभत महान्

तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ २४ ॥
- - - - 

Saturday, May 16, 2015

Sanskrit blog: An Ode to the Scientific Spirit-22

विज्ञानसंस्कृतिः-२२

श्रोडिङ्गरं नमत भौतशास्त्राग्रणीं
यो खण्डवादस्य जनक इति विश्रुतो
द्रव्यं कदाचिदप्यणुरूपतां भजेत्
अन्यदा वीचिवत् व्यवहरेदिति महा-
गणितमयवरसमीकरणेन साधितम्

येन तत्संस्कृतेस्ताडयत जयडिंडिमम् ॥ २३ ॥ 
- - - - 

Saturday, May 9, 2015

Sanskrit blog: An Ode to the Scientific Spirit-21

विज्ञानसंस्कृतिः-२१

यो दीप्तिवेगस्य नित्यतामाधृत्य
दिक्कालमिथुनस्य सापेक्षतां तथा
द्रव्यशक्तिद्वयस्यान्योन्यसमतां च
संस्थापयामास संस्मृत्य तं गुरुम्  
ऐन्श्टैनमाल्बर्टुपाह्वममितप्रभम्

तज्ज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ २२ ॥
- - - - 

Saturday, May 2, 2015

Sanskrit blog: An Ode to the Scientific Spirit-20

विज्ञानसंस्कृतिः-२०

दास्यभावव्यथितदेशेऽस्मदीये हि
सम्भूतवान् कोऽपि महनीयमानवः
तन्तुं विनाकाशमाध्यमे प्रसरणम्
विद्युत्तरङ्गस्य साध्यमिति निरदिशत्
जगदीशचन्द्रबसुमुज्ज्वलं स्मरन्तो

विज्ञानसंस्कृतेस्ताडयत जयडिंडिमम् ॥ २१ ॥
- - - -