Saturday, November 29, 2014

Sanskrit blog: An ode to scientific spirit-1

विज्ञानसंस्कृतिः-१

कुत इदं कथमिदं किमिदं कदा कुत्र
सम्पद्यते इति प्रविचार्य सर्वतः ।
कृत्वा प्रयोगांश्च मेयानि मित्वा च
मतिमूलतर्कविधिनैव संशोध्य खलु ।
परिशीलनं विना न श्रद्धधानाश्च
विज्ञानसंस्कृतेस्ताडयत जयडिण्डिमम् ॥ १ ॥ 
- - - - 

Saturday, November 22, 2014

Sanskrit blog: Song of a bullock cart driver-4

शाकटिकगीतम्-४

सन्ध्याकाले पक्षिणस्त्वात्मनीडान्
आगच्छ्न्तो खे भृशं वाश्यमाणाः ।
गच्छामोऽस्मद्वासभूमिं जवेन
यातं गावौ यातमध्वान्त एतः ॥ १५ ॥

सायं गावः क्षेत्रभूम्याः निवृत्ता
तृप्ता शादं जग्धवत्यश्चिराय ।
गोष्ठं यान्ति स्वार्भकान् द्रष्टुकामाः     
यातं गावौ यातमध्वा सुखान्त्यः ॥ १६ ॥
- - - - 

Saturday, November 15, 2014

Sanskrit blog: Song of a bullock cart driver-3

शाकटिकगीतम्-३



शीतं शुभ्रं गोरसं पाययामि
गत्वा गेहं मीलिताक्षौ चिराय ।
गोशालायां निर्वृतौ पास्यथो यम्
यातं गावौ यातमध्वा सुगम्यः ॥ ११ ॥

उत्तुङ्गाभ्यां सुन्दराभ्यां ककुब्भ्याम्
जित्वा सर्वानुक्षजातिप्रधानान् ।
युष्मद्वीर्यं स्थापितं ग्रामवर्गे
यातं गावौ यातमध्वा सुगम्यः ॥ १२ ॥

वृत्ते जन्मन्याप्तकर्मानुबन्धैः
अस्मिन्जन्मन्याप्तवन्तौ वृषत्वम् ।
सत्कार्यैःवां प्रेत्य मर्त्यौ भवेताम् 
यातं गावौ यातमध्वान्त एतः ॥ १३ ॥

मत्भार्याहं चैव युग्यौ भवाव
संसाराख्ये वाहने दैवदत्ते ।
कादाचित्कौ शॊकहर्षौ भजन्तौ
यातं गावौ यातमध्वान्त एतः ॥ १४ ॥
- - - - 

Saturday, November 8, 2014

Sanskrit blog: Mahatma Gandhi and Prof.Peter



महात्मा गान्धिः तस्य प्राध्यापकः पीटरश्च
महात्मनः गान्धेः विषये काचन कथा प्रचलिता अस्ति । सा एवम् ।


यदा महात्मा गान्धिः विद्यार्थिदशायां लन्डन् नगरे न्यायशास्त्रमधीते स्म तस्य कश्चन प्राध्यापकः पीटरनामा गान्धिं मैत्रेण चक्षुषा न प्रेक्षते स्म । वारं वारं तत्प्राध्यापकेन सह वाग्युद्धं सम्भवति स्म । एकदा भोजनसमये भोजनशालायां गान्धिः यस्मिन् पीठे पीटरः भोजनं कर्तुमुद्यतः आसीत् तत्पीठस्य पार्श्वपीठे एव भोजनं कर्तुं प्रारभत । पीटरः गान्धिमुद्धतं मत्वा रुष्टः अवदत्, “भोः! विहगः सूकरश्च सहभोजनं न कुर्वाते” इत्यवदत् । गान्धिः झटिति “आर्य! अलं क्लेशेन, सत्वरमुड्डये” इति वदन् अन्यं दूरस्थपीठं गतः ।
प्राध्यापकः पीटरः अभिभूतः गान्धये प्रतीकारं कर्तुं समयं प्रतीक्षते स्म । कदाचन पीटरः गान्धिमपृच्छत्, “ गान्धे, यदि मार्गे चरतः तव एककाले वित्तमयस्यूत एकः ज्ञानमयस्यूत अन्यः गोचरौ भवतः चेत् कतरं स्यूतं स्वायत्तीकर्तुमपेक्षसे” इति  । गान्धिः झटिति प्रत्यवदत्, “आर्य! निस्संशयं वित्तस्यूतमपेक्षे” इति । जयशील इव पीटरः अवदत्, “ यदि त्वत्स्थाने  अहमभविष्यं तदा ज्ञानस्यूतमेव अवरिष्यम्” इति । गान्धिः विहस्य प्रत्यवदत्, “आर्य, यस्य यदप्राप्तं तदेव सः स्वीकरोति खलु” इति ।
- - - - 

Saturday, November 1, 2014

Sanskrit blog: Song of a bullock cart driver-2

शाकटिकगीतम्-२



तोत्रेणाहं नैव वां ताडयामि
तोत्रंह्येतत् भीषणार्थम् कदाचित् ।
स्तोत्रप्रीता प्राणिनोऽपीति गाथा
यातं गावौ यातमध्वा सुदीर्घः ॥ ६ ॥

शम्भोर्यानं तूक्षसङ्घप्रधानः
सर्वे पूर्वं मन्दिरे शङ्करस्य ।
सेवन्ते यं तत्परं वै गिरीशम्
यातं गावौ यातमध्वा सुदीर्घः ॥ ७ ॥

श्रेष्ठा पुम्सः पुंगवत्वं भजन्ते
युष्मद्भाग्यं जन्मना साधितं तत्।
विध्यन्तौ वां रम्यशृङ्गैः सिताभ्रम् 
यातं गावौ यातमध्वा सुदीर्घः ॥ ८ ॥

गेहे पत्नी प्रेक्षमाणा सकामम्
श्रुत्वा युष्मद्किङ्किणीमञ्जुनादम् ।
द्वार्यानेता मार्जनायाम्बुकुम्भम्
यातं गावौ यातमध्वा सुगम्यः ॥ ९ ॥

ग्रामं गत्वा स्नापयाम्यापगायाम्
स्वच्छे नीरे क्षालयित्वा शरीरे ।
अध्वक्लेशं मुञ्चतं शीघ्रमेव
यातं गावौ यातमध्वा सुगम्यः ॥ १० ॥
- - - -