Follow by Email

Monday, February 27, 2012

Sanskrit blog: Global Village

जगद्ग्रामः
यदि जगत् शतनराध्युषितः ग्रामः अभविष्यत् तदा तत्र सप्तपञ्चाशत् एष्या महाद्वीपवासिनः एकविंशतिः यूरोप् महाद्वीपवासिनः चतुर्दश पाश्चात्यार्धगोलवासिनः अष्ट आफ़्रिकामहाद्वीपवासिनः अभविष्यन् । तत्र द्विपञ्चाशत् स्त्रियः अष्टचत्वारिंशत् पुरुषाः च भवेयुः । सप्तत्यश्वेतवर्णीयाः त्रिंशत् श्वेतवर्णीयाः च भवेयुः । केवलं षण्णराः जगतः श्रियः शते एकोनषष्ट्यंशस्य प्रभवः भवेयुः । ते सर्वे अमेरिकावासिनश्च । हन्त, अशीतिनराः उचितगृहहीनाः सप्ततिनराः अनक्षराः पञ्चाशन्नराः अपुष्टाश्च। 
- - - - 

Tuesday, February 21, 2012

Sanskrit blog: Humour- 42

हास्यसीकरः- ४२
देवसिंहः देवनशूरः इति प्रथितः आसीत् । कार्यालयेऽपि सर्वैः सह पणबन्धं कृत्वा दीव्यति स्म । कार्यालयस्य कार्ये अनासक्तः कार्यमग्नानन्यान्श्च बाधते स्म । कार्यालयस्य अधीक्षकः तस्य देवनमोहजातहानिमसहमानः तं स्वकोष्ठमागन्तुमादिदेश । देवसिंहः कोष्ठं यथानिर्दिष्टं प्रविवेश च ।
देवसिंह, कार्यालये देवनं न कार्यमिति त्वया विदितमेव । तथापि देवने सक्तः अन्यान्श्च बाधसे । अद्यप्रभृति देवनात् विरमेः । देवनात् विरमसि न चेत् त्वामुद्योगात् निस्कासयिष्यामि। देवसिंहः, यथाज्ञापयत्यार्यः इति वदन् शनैः कोष्ठात् निष्क्रान्तः । कतिपयक्षणेषु देवसिंहः अधीक्षकस्य कोष्ठं तस्य अनुमतिमादाय पुनः प्रविवेश अवदच्च, आर्य, कार्यालये अद्यैव मम अन्तिमदेवनं भवति खलु । अतः अधुना भवता सह देवितुमिच्छामि । अनुमन्यतामार्यः । अधीक्षकः विहस्य अवदत्, मया सह किं देवनम्? कः पणः? । देवसिंहः झटित्यवदत्, आर्य भवतः उरोपृष्ठदेशे बृहत्श्यामचिह्नमस्ति । भवान् वेत्ति किम्? । चकितः अधीक्षकः अवदत्, किम् वदसि? न कदापि । निस्संशयं मम उरोपृष्ठदेशे किमपि चिह्नं नास्ति । देवसिंहः प्रत्यवदत्, आर्य, चिह्नं न भवति चेत् सहस्ररूप्यकानि भवते दास्यामि । परंतु इदानीमेव परीक्षा भवेत् । अधीक्षकः मनस्येव अचिन्तयत्, मूढोऽसौ विना कारणं मह्यं सहस्रं रूप्यकानि दातुं बद्धोऽस्ति । बाढम्, तस्मै समुचितं पाठमुपदिशामि। ममापि सहस्रं रूप्यकानां लाभो भवति ।  देवसिंह, वृथा पराजितो भवसि । मूर्खस्त्वम् । पश्य किमस्ति? इति वदन् कञ्चुकं शरीरादपानयत् विवस्त्रमुरोपृष्ठम् देवसिम्हाय अदर्शयच्च । तूर्णं देवसिंहः कोष्ठात् बहिः स्थितं सहोद्योगिनं हरदत्तनामानमाह्वयत्, हरदत्त, आगच्छ, पश्य, अधीक्षकस्य विवस्त्रमुरोपृष्ठम् । यथाप्रतिज्ञातं मह्यं द्विसहस्रं रूप्यकानि देहि इति । 
- - - -    


Wednesday, February 15, 2012

Sanskrit blog: Thus spake Shakespeare

षेक्स् पियर उवाच
जगद् हि रङ्गः पुरुषास्तु नर्तकाः स्त्रियोऽभिनेत्र्यो प्रभवन्ति पश्यत ।
निर्यान्ति केचित् प्रविशन्ति केचिदेको विधत्ते किल नैकपात्रताम् ॥

A rough rendering of the following:
All the world's a stage,
And all the men and women merely players,
They have their exits and entrances,
And one man in his time plays many parts.
- - - - 

Thursday, February 9, 2012

Sanskrit Blog: Humour-41

हास्यसीकरः-४१
तस्मिन् दिवसे वृद्धदंपत्योः विवाहादनन्तरं पञ्चाशद्वर्षाः गताः आसन् । दंपती औत्सुक्येन सम्भ्रमेण च तदवसरमुत्सवरूपेण आचरतः स्म । सायमीश्वरं प्रार्थयितुं देवालयं गतौ । प्रीतः ईश्वरः प्रत्यक्षो भूत्वा ताववदत्, भोः, युवयोः अन्योन्यप्रेम्णा प्रीतोऽस्मि । युवां पृथक् पृथक् वरमेकं याचेथाम् । पत्नी प्रथमं वरमयाचत, प्रभो, अहं मम पत्या सह जगत्पर्यटनं कर्तुमिच्छामि इति । ईश्वरः प्रत्यवदत्, तथास्तु, पत्युराशा तु का इति । झटिति चपलचित्तः पतिरवदत्, प्रभो, वयसि मत्तः त्रिंशत्वर्षैः न्यूनां भार्यां वाञ्छामि इति । तथास्तु । श्वः प्रभाते युवयोः वाञ्छे फलिष्यतः इति वदन् ईश्वरः अन्तर्दधे । पत्नी नितरां दुःखिता अभवत्, पतिः नितरां हृष्टोऽभवत् । पृथक् पृथक् पर्यङ्के सुप्तवन्तौ कथमपि रात्रिमनयताम् । शर्वर्यां प्रभातायां कोऽपि दूतः जगत्पर्यटनाय ताभ्यां विमानानुमतिपत्रमानयत् । पत्नी एव उत्थाय यानानुमतिपत्रं जग्राह । वृद्धः पतिः पर्यङ्कादुत्थातुं न शशाक । हन्त, सः पत्न्याः वयसि त्रिंशद्वर्षैः ज्यायान् समभवत् खलु ।
- - - -

Sunday, February 5, 2012

Sanskrit blog: A lyric of Rumi


रूमिरुवाच
मम चेतस्तव प्रेम्णा शरीराद्गगनं गतम्
त्वयाहमुद्धृतो द्वाभ्यां जगद्भ्यामभवं प्रभो ।
समागते तवादित्ये द्रुतम् मद्वर्षसीकरैः ।
उन्नयेत् वारिधरवत् मच्चेतस्तव तिग्मता ॥
A rough rendering of:
Your love lifts my soul from the body to the sky
And you lift me up out of the two worlds.
I want your sun to reach my raindrops,
So your heat can raise my soul upward like a cloud.
Jalal ad-Dīn Muhammad Rumi
- - - - 

Wednesday, February 1, 2012

Sanskrit blog: Humour-40

हास्यसीकरः-४०
कृषीवलः कृच्छ्रेण गोडुम्बानवर्धयत् परंतु चोराः पक्वानि गोडुम्बानि (water melons) चोरयन्ति स्म । चोरान् निरोद्धुं सः दारुफलके सावधाना भवेत, अत्र गोडुम्बनिवहे किञ्चनगोडुम्बं विषपूरितं वर्तते इति लिखित्वा दारुफलकं क्षेत्रस्य पुरतः अस्थापयत् । न कोऽपि पक्वानि फलान्यचोरयत् कृषीवलः कृतार्थः प्रीतः अभवच्च । परंतु कतिपयदिनेषु गतेषु यदा कृषीवलः क्षेत्रमगच्छत् तदा तत्र फलके, सावधाना भवेत । इदानीमस्मिन् क्षेत्रे द्वे फले विषपूरिते स्तः इति लिखितं दृष्ट्वा दिङ्मूढः अभवत् । 
- - - -