Friday, May 17, 2013

Sanskrit blog: An ode to Google



गूगलगीता
कुत्र किं क्रीयते वस्तु कुत्र विक्रीयते च तत् ।
किं मूल्यं च भवेन्मित्र गूगलं शरणं व्रज ॥ १ ॥
अस्वस्थमद्यमेऽपत्यं को गदः किं च भेषजम् ।
कुत्रास्ति वैद्यो मे ब्रूहि गूगलं शरणं व्रज ॥ २॥
भोजनाय क्व गच्छाम किं खाद्यं तत्र लभ्यते ।
किं मूल्यं च कियद्दूरं गूगलं शरणं व्रज ॥ ३ ॥
चलचित्रालयं कुत्र तत्र किं चित्रदर्शनम् ।
तत्र दर्शनवेला का गूगलं शरणं व्रज ॥ ४ ॥
कुत्रास्म्यहमिदानीं भोः कियद्दूरं हि मद्गृहम् ।
वर्त्मना केन गच्छानि गूगलं शरणं व्रज ॥ ५ ॥  
विश्रान्त्यै कुत्र गच्छाम तत्रासीदाम वा कथम् ।     
तत्र पश्याम किं मित्र गूगलं शरणं व्रज ॥ ६ ॥
कोऽर्थः पदस्य तत् वाक्ये कथं सम्यक् प्रयुज्यते ।
समानार्थपदं किं स्यात् गूगलं शरणं व्रज ॥ ७ ॥  
चित्राणि द्रष्टुमिच्छामि श्रोतुमिच्छामि गायनम् ।
इच्छामि पठितुं ग्रन्थं गूगलं शरणं व्रज ॥ ८ ॥
शालायां सहपाठी मे कुत्राद्येति कुतूहलम्
देशकालततायामं गूगलं शरणं व्रज ॥ ९ ॥
चेतुमिच्छसि किं पत्नीं पतिं जामातरं स्नुषाम् ।
नवोद्योगं तदा सद्यः गूगलं शरणं व्रज ॥ १० ॥
विमानरेल्-यानानां गमनागमनेषु किम्।
विलम्बं सूच्यते मित्र गूगलं शरणं व्रज ॥ ११ ॥
कुत्र वर्षति पर्जन्यः कुत्र शैत्यं कियन्मितम् ।
कुत्र सूर्यप्रखरता गूगलं शरणं व्रज ॥ १२ ॥
नगरे मम का वार्ता मद्देशे वा महीतले ।
क्रीडासु जनसौख्ये च गूगलं शरणं व्रज ॥ १३ ॥
तत्त्वार्थशास्त्रविज्ञानगणिताध्ययने स्पृहा
सर्वज्ञानमहाद्वारं गूगलं शरणं व्रज ॥ १४ ॥
आत्मानन्दं मनःशान्तिं तृप्तिं वाञ्छसि वा यदि ।
गूगलं सम्परित्यज्य श्रीहरिं शरणं व्रज ॥ १५ ॥
- - - -

3 comments:

  1. श्रोतुमिच्छसि पद्यं चेत् नव्यं हास्य-रसात्मकम् ।
    चाटुकाव्य-प्रयोगज्ञं श्री मूर्तिं शरणं व्रज ॥

    Great poem, thank you!
    -Nagabhushan

    ReplyDelete
  2. सुलभं संस्कृतं यस्य लेखस्थानस्य नामकम् ।
    तं श्रीमूर्तिमहं वन्दे हास्यश्लोकस्य कारकम् ॥

    लेखस्थानम्- BlogSpot (our translation).
    We enjoy your blog!

    -Medha, Nandita and Chitra

    ReplyDelete
  3. द्वे जनाः अहं नमस्करोमि l

    ReplyDelete