हास्यसीकरः-७९
कश्चन पण्डितः वाग्मी कदाचित् ग्राममेकमगच्छत् । यदा
ग्रामवासिनः तस्य पाण्डित्यं वाग्मितां च अवगच्छन्, ते तमवदन्, “ पण्डितवर्य! अस्मानुद्दिश्य
प्रवचनं भवान् करोतु” इति । पण्डितः अनुमेने निर्दिष्ट दिवसे विर्दिष्टवेलायां प्रवचनमारभत
च। प्रवचन विषयः, “भारवेः अर्थगौरवम्” इत्यासीत् । पण्डितस्य निरर्गलवाग्धाराभिः ग्रामीणाः
सुसिक्ताः अभवन् । परं तु प्रवचने ते किमपि नावगच्छन् । गतेषु कतिचननिमिषेषु कश्चन
सभ्यः निश्शब्दं सभाभवनात् बहिरगच्छत् । तं निर्गच्छन्तं दृष्ट्वा कतिचन अन्येऽपि सभामत्यजन्
। इत्थं अर्धमुहूर्ते गते, पण्डितं विहाय सभायामेक एव ग्रामीणः आसीनः आसीत् । परिभूतः
पण्डितः तमवदत्, “प्रिय, त्वम् एक एव प्रवचने आसक्तः इति भाति” इति । सः ग्रामीणः अवदत्,
“आर्य, यस्यां कुथायां भवान् आसीनः सा मम भवति । प्रवचनान्ते सा मया गृहं नीयते । प्रवचनान्तं
प्रतीक्षमाणः स्थितोऽस्मि” इति ।
- - - -
Murthyji,
ReplyDeleteYour blog is a treasure house of Sanskrit poems, humour and anecdotes. I have a suggestion to increase its SEO. It would be very much helpful to locate this blog in Google search if you add tags or categories such as 'Sanskrit poetry'. 'Sanskrit humour/joke', 'Sanskrit story', etc.