Saturday, September 21, 2013

Sanskrit blog: Reflexions on Voyager space ship

विश्वसांयात्रिकः
षट्त्रिंशद्वर्षदेशीयं नभोमण्डलभेदिनं ।
विश्वसांयात्रिकं यन्त्रं प्रशंसामो भुविस्थिताः ॥१॥
“यदा त्वं भुवि संजातः गुरुशुक्रग्रहेक्षणे ।
विनियुक्तोऽभवः पश्चात् वीक्ष्य त्वत्कार्यदक्षताम् ॥२॥
युरेनसं च नेप्च्यूनमीक्षितुं त्वां नियुञ्जते ।
विज्ञाः त्वदीयजनकाः कृता सम्यक् च तत्कृतिः ॥३॥
एकाकी त्वमिदानीं भोः अतीत्य रविमण्डलम् ।
कुत्र गच्छसि किं ज्ञातुं मानवानां समृद्धये ॥४॥
मनुजानां मनीषायाः प्रतिरूपं ह्यसंशयम् ।
त्रयस्त्रिंशत्सहस्राणां मैलानि क्राम्यसि द्रुतम् ॥५॥
घटिकायां तथा त्वत्तः पृथिवीं प्रेषिता द्युतिः ।
घटिकानां सप्तदशात् पश्चादायाति मेदिनीम् ॥६॥
शतात् द्वादशकोटीनां  मैलदूरात् किमुच्यते ।
त्वयास्माकं धरास्थानां त्वत्कर्तॄणां हितं वद “॥७॥
“निस्संशयं भोः भवतां मनीषाप्रगल्भतायाः शिशुरस्म्यमोघः ।
तथापि किञ्चित् वचनं भवद्भिः श्राव्यं मम प्रश्रितमानसैरिदम् ॥८॥
स्वप्रातिवेश्यस्य मनोव्यथायां प्रस्पन्दमानं हृदयं विनैव ।

भवद्भिरेवं रविमण्डलात्परम् श्रुतोऽस्मि दूराद्यदि चेत् ततः किम्” ॥९ ॥
- - - - 
मैलम्=Mile

No comments:

Post a Comment