Saturday, July 6, 2013

Sanskrit blog: Humour-76

हास्यसीकरः-७६
कदाचन काचित् स्त्री नद्याः तटे भर्तुः जीर्णकञ्चुकस्य नवीकरणे निरता आसीत् । तदा अकस्मात् तस्याः हस्तात् सूची नद्याः जले न्यपतत् । तदा सा उच्चैः रोदितुमारेभे, “मम भर्ता मां ताडयति यद्यहं तस्य कञ्चुकं न नवीकृत्य गृहं गच्छामि चेत्” इति । ईश्वरः तस्याः रोदनं शृण्वन् तत्र आगत्य तस्यै जलात् एकां सुवर्णसूचीं उद्धृत्य ददौ । सा रुदन्ती एव अवदत्, “ सा सूची मम न भवति” इति ।तदा ईश्वरः तस्यै जलात् एकां रजतसूचीं उद्धृत्य ददौ । तदापि सा अवदत्, “सा सूची मम न भवति” इति । तदा ईश्वरः जलात् आयससूचीम् उद्धृत्य तस्यै ददौ । सा हृष्टा अवदत्, “ सा सूची एव मम” इति । तदा तुष्टः ईश्वरः तिस्रः अपि सूचीः तस्यै सत्यवचनायै ददौ । तदा संतुष्टा सा ईश्वरं संस्तुत्य गृहं गता ।

अन्येद्युः सा भर्त्रा साकं नदीतटे गच्छति स्म । तस्याः भर्ता पदस्खलनात् नद्याः जले न्यपतत् । सा ईश्वरं प्रार्थयामास, “परमेश्वर, मम पतिं देहि” इति । ईश्वरः तत्र आगत्य तस्यै विक्रमादित्यं जलादुधृत्य “किमयं तव भर्ता” इत्यपृच्छत् । सा अवदत्, “बाढं स एव मम भर्ता” इति। तदा कुपितः ईश्वरः तामपृच्छत्, “कथमिदानीम् असत्यं वदसि?” इति । “प्रभो! श्रुणुश्व, यद्यहं, “अयं मम पतिर्नभवति” इत्यवदिष्यं तदा त्वं भोजराजं मम भर्तारं च मह्यम् अदास्यः । इदानीं मम स्वास्थ्यं समुचितं न भवति । पतित्रयप्रीणने अशक्ता खलु । मां क्षमस्व “ इति । कृपालुः ईश्वरः तस्याः अङ्के विक्रमादित्यमेव न्यवेशयत् ।      
- - - - 

No comments:

Post a Comment