शिशुस्मितम्
लसत्स्मितं पश्य शिशोर्मुखेऽङ्के सुप्तस्य मातुः सुचिरं
प्रशान्तम् ।
वदास्ति हे तत्सदृशं किमन्यदस्त्यत्र लोके शिशिरं
मनोज्ञम् ॥
सोमाच्च सौम्यं मधुनश्च मिष्टं सुगन्धि तत् केतकपुष्पगन्धात् ।
वीणानिनादात् खलु मञ्जुलं तत् कौशेयवस्त्रान्मृदु सर्वकाले
॥ - - - -
This comment has been removed by the author.
ReplyDeleteक्रोशन्विकारं पश्य शिशोर्मुखभङ्ग उन्मत्त-मातुः दुश्चिरमुद्विग्नम् ।
ReplyDeleteवदास्ति हे तत्सदृशं किमन्यदस्त्यत्र लोके शिशिरं शूलग्रस्तम् ॥