हास्यसीकरः-७५
कश्चन पूजकः राजपथे चरन् अन्योन्यं वाग्युद्धं कुर्वतः कांश्चन बालकानपश्यत् । बालकान् वाग्युद्धात् वारयितुम् तानभिससार पप्रच्छ च, “बालकाः, यूयं कुतः इत्थं कलहं कुर्वन्तः स्थ ? किं कारणम्?” इति । तेषु एकः प्रत्यवदत्, “ अयं सुन्दरः ग्रामशुनकः सर्वत्र अटति । वयं सर्वे तम् आबद्ध्य गृहं नेतुं वाञ्छामः । अस्मासु एकेन एव तं नेतुं शक्यं खलु । अतः यः मृषावादे अन्यान् जयति स एव शुनकं गृहं नयेत् इति अस्माभिः निर्णीतम् । इदानीमस्मासु एकैकः अन्यान् मृषावादे जेतुं यतते” इति । पूजकः गंभीरध्वनिना अवदत्, “बालकाः! मा एवम् । अनृतं कदापि न ब्रूयात् । यदा अहं बालः आसं तदा कदापि मया अनृतं नोक्तम्” इति । गतेषु केषुचित् क्षणेषु, बालकेषु यविष्ठः कश्चन तदा अवदत्, “ एष पूजक एव शुनकं नेतुं योग्यः इति भाति । स एव शुनकं नयतु” इति ।
- - - -
No comments:
Post a Comment