Saturday, August 24, 2013

Sanskrit blog: Receiving a guest

अतिथिसत्कारः
“स्वागतं स्वागतं तुभ्यं चिरात् दर्शनमागताः ।
अद्यास्माकं दिनं धन्यमतर्कितसुखावहम् ॥ १ ॥
[ मयाद्य किं कृतं पापं तत्फलोऽयं समागमः
धनव्ययस्तथा कालहरणं मे भवेत् ध्रुवम् ]॥ २ ॥
अलङ्कुरुत सन्मान्या आसनानि यथासुखम् ।
[पर्याप्तान्यासनान्यत्र न भवेयुरिति स्पृहा] ॥ ३ ॥
आनन्दोदधिमग्नोऽहं त्वद्बालाश्चागता  इति ।
[ मर्कटास्ते विनष्टं स्यात् सर्वं वस्त्वत्र खण्डितम्] ॥ ४ ॥
ददाम पेयं किं  भक्ष्यं ब्रूथ वाञ्छथ निस्त्रपाः।
[भक्षयिष्यन्ति पास्यन्ति सर्वं सद्यो यदर्पितम्] ॥ ५ ॥
पुत्र्या मे गायनं यूयं श्रोतुमर्हथ सुस्वरम् ।
[कृतार्थोऽस्मि सुतां श्रुत्वा पलायन्ते यदि द्रुतम् ] ॥ ६ ॥
‘द्रष्टुं पुत्थलिकाचित्रं मे बाला आगतात्र वै ।
अस्मत्साक्षात्करं दोषपूरितं क्षम्यतां यतः’ ॥ ७ ॥
इति किं वक्षि? सुकरमिदानीमेव तद्भवेत्।
भार्ये साक्षात्करं तेभ्यः चालयाशु विचक्षणे ॥ ८ ॥
‘अस्मत्साक्षात्करं चापि सदोषम्’ इति भाषसे?
अहो, मम हि दौर्भाग्यं, क्षम्यतां करवाणि किम्?॥ ९ ॥
‘स्वस्ति वोऽस्तु गमिष्यामो प्रातिवेश्यगृहं द्रुतम्’
इति किं वदथ, क्षिप्रं मिलामो भवतात् शुभम् ॥ १० ॥
[ सम्पन्नं सुदिनं दिष्ट्या ऽहो मे पत्न्याः प्रगल्भता ।
विद्युत्तन्तू साधनस्य निभृतं विचकर्ष या॥]” ॥ ११ ॥
-----------------------------------------------------------------------------

पुत्थलिकाचित्रम्=cartoon film; साक्षात्करम्=Television
[ Inspired by a poem in English read long back.]

No comments:

Post a Comment