Saturday, October 12, 2013

Sanskrit blog: Humour-83

हास्यसीकरः-८३
मित्रे देवदत्तब्रह्मदत्तौ मिष्टान्नविपणिं काञ्चन प्राविशताम् । पश्यतः देवदत्तस्य ब्रह्मदत्तः विपणौ त्रीणि चाकोलेटभिधानि मिष्टानि चोरयित्वा तानि स्वकञ्चुकस्यूते न्यवेशयत् ।  विपणी तच्चौर्यं नापश्यत्  । ब्रह्मदत्तः विपण्याः बहिरागत्य देवदत्तं सगर्वमवदत्, “पश्य, मम साहसम् । विपणिना अदृष्ट एव सुकरमहमचूचुरम्” इति । देवदत्तः तं “ तव साहसात् चतुरतरं साहसं करिष्यामि । पश्यतो विपणिनः मिष्टानि चोरयिष्यामि । द्रक्ष्यसि किम्? । आगच्छ, विपणिं पुनः प्रविशाव” इत्यब्रवीत् । तौ विपणिं प्रविष्टौ । देवदत्तः विपणिनमवदत्, “आर्य, अनुमन्यसे चेत् तुभ्यं मायामेकां दर्शयितुमिच्छामि” इति । विपणी अनुमेने । देवदत्तः विपणिनमवदत्, “मह्यं त्रीणि चाकोलेट्-मिष्टानि देहि” इति । विपणी तथैव अकरोत् । देवदत्तः तानि प्रसभमखादत् । क्रुद्धः विपणी देवदत्तमपृच्छत्, “तत्र का माया?” । देवदत्तः अवदत्, “इदानीं ब्रह्मदत्तस्य कञ्चुकस्यूते पश्य । तत्र त्रीण्यपि भवन्ति” इति ।
- - - -  

No comments:

Post a Comment