हास्यसीकरः-६०
विमानसंस्थया बहुवारं विमाने प्रयाणं कुर्वतां उद्योगिप्रमुखानां
प्रोत्साहनार्थं नव्यः शुल्कपत्रवितरणक्रमः अनुष्ठितः । सः यथा:- उद्योगिप्रमुखस्य
शुल्कपत्रेण सह तस्य पत्न्यै निःशुल्कं शुल्कपत्रं दत्तम् । उत्सुकाः उद्योगिप्रमुखाः
सर्वे नूतनवितरणयोजनामनुसृत्य स्त्रीभ्यः सह प्रयाणमकुर्वन् । प्रयाणानन्तरं
विमानसंस्था उद्योगिप्रमुखानां पत्नीभ्यः पत्रमेकमलिखत्, “मान्ये, भवत्याः विमानयानं सुखकरमासीदिति आशंसामहे।
कृपया भवत्याः प्रयाणमुद्दिश्य अस्मभ्यं किञ्चित् भवती लिखतु” इति । सर्वैः पत्नीभिः उत्तराणि प्रेषितानि ।
सर्वेषु उत्तरपत्रेषु इदमेव लिखितं “किम् प्रयाणम्?” ।
- - - -
No comments:
Post a Comment