हास्यसीकरः-६१
भार्या: कुतस्त्वं सर्वदा तव हस्तस्यूते मम चित्रं निवेश्य
उद्योगालयं गच्छसि?
भर्ता: प्रिये, यदा उद्योगस्थले कृच्छ्राणि सम्भवन्ति तदा त्वदीयचित्रावलोकनेन
तानि सुगमानि भासन्ते ।
भार्या: अहो मम अद्भुतशक्तिः ।
भर्ता: (नीचस्वरेण) बाढम्, तव चित्रं पश्यन् चिन्तयामि, “ अस्याः कठिनतरा बाधा कास्ति?” इति ।
- - - -
No comments:
Post a Comment