Sunday, November 11, 2012

Sanskrit blog: Festival of lights-1



दीपोत्सवः
प्रावृट् प्रयाता शिशिरो न चागतः
वृक्षा हरित्पर्णमया वनान्ते ।
रोमाञ्चितोर्वी नवशाद्वलावृता
प्रतीक्षते द्राक् शरदः समागमम् ॥ १ ॥

नद्यो भृशं पङ्किलवालुकायुता
चलन्ति पद्यासु दृढं कृषीवलाः ।
श्यामप्रभाशोभितकाननानि
दीपोत्सवे संप्रति संप्रवृत्ते ॥ २ ॥

दृष्ट्वा प्रपूर्णां सरसीं जलेन
कृषीवलो नन्दति फुल्लनेत्रः ।
तटाकवीचीषु विधाय सौधान्
मनोहरान् दैवदयां प्रशंसन् ॥ ३ ॥

मन्दानिलप्रेङ्खितसस्यमञ्जरीः
संवीक्ष्य बालार्कमयूखहासे ।
मुदा मनो नृत्यति कर्षकस्य
मृत्स्नां करौ संस्पृशतो सुदीर्घम् ॥ ४ ॥

संखाद्य शादं गवि सन्निवृत्ते
श्रुत्वा स्वमातुः कलकण्ठनादम् ।
वत्सो द्रुतं कृन्तति रज्जुबन्धम्
अम्बां सहर्षं त्वरयाभ्युपैति ॥ ५॥

तं स्फीतनेत्रं प्रसभं  निरोद्धुम्
मूढा मुधा धावति यष्टिहस्ता ।
व्यर्थप्रयत्ना खलु घोषकन्या ।
स स्तन्यपाने नितरां प्रवृत्तः ॥ ६ ॥
(अनुवर्तते)
- -- -


No comments:

Post a Comment