हास्यसीकरः-५५
कस्यचित् नरस्य भार्या मृता । मृतायाः शवं शवपेटिकायां
विनिवेश्य शववाहकाः शवपेटिकां शवागारमानयन् । शवागारे शवपेटिका अकस्मात् शवागारस्य
भित्त्या विघट्टिता । तदा पेटिकायाः क्षीणकण्ठेन व्याह्रियमाणं किमपि क्रन्दितं
श्रुतम् । यदा शववाहकैः पेटिकायाः पिधानमपावृतम् तदा सा स्त्री सजीवा इत्यवगतम् । तस्याः
भर्ता विस्मितः किञ्चिद्भीतश्च तामुपचर्य गृहमानाययत् । सा ततः दशवर्षाणि जीवित्वा
कालधर्ममगात् । पुनः मृतां तां शवपेटिकायां विनिवेश्य शववाहकाः शवागारमानयन् । तदा
मृतायाः पतिः शववाहकानवदत्, “भोः, शवागारस्य अन्तः सावधानं चलत ।
पेटिका भित्त्या विघट्टेत“ इति ।
- - - -
No comments:
Post a Comment