Saturday, December 31, 2011

New Year Wishes

नववर्षाशंसा
आशास्महे नूतनहायनागमे भद्राणि पश्यन्तु जनाः सुशान्ताः ।
निरामयाः क्षोभविवर्जितास्सदा मुदा रमन्तां भगवत्कृपाश्रयाः ॥
- - - -

Tuesday, December 27, 2011

Sanskrit blog: To the poet


कवेऽवगच्छ
विज्ञानभूतं जगतः सुकाब्यं व्यनाशयत् नीरससत्यमार्गणे ।
हृदो महत्त्वं खलु नष्टमास्ते जिज्ञासयेति त्यज गाढशङ्काम् ॥
कवेऽवगच्छ द्विगुणीकृता वै हृदो प्रतिष्ठा भुवि तेन सम्यक् ।
ब्रह्माण्डकोष्ठे उडुवृन्दपुञ्जाः भवन्त्यनेके बृहतश्च तेषु ॥
आकाशगङ्गा त्वणुरेव तस्मात् परं त्वणीयान् खलु सौरवृन्दः ।
तत्रास्ति पृथ्वीत्वणुका च तस्यामणिष्ठभूतः खलु मर्त्यजन्तुः ॥
विज्ञानमेतत् मनुजस्य गाढपराक्रमद्योतकमेव विद्धि ।
    स्वाणिष्ठभावे प्रतताभिमानवत्‍हृदो महत्त्वस्य जयध्वजश्च ॥
इयं कविता बहुदशकानां प्राक् प्रकाशितायाः मम कन्नडकवितायाः छाया ।

ಹೆದರದಿರು ಕಬ್ಬಿಗನೆ
ಹೆದರದಿರು ಕಬ್ಬಿಗನೆ ಹೆದರಿ ಹೊರಗೆಡಹದಿರು
ನಿನ್ನ ಮನದಂಜಿಕೆಯ. ವಿಶ್ವದೀ ಕಾವ್ಯವನು
ಪೈಶಾಚವಿಜ್ಞಾನ ಹಾಳಿಸಿತು ಎನ್ನದಿರು.
ಜಡತಥ್ಯಗಳನರಸಿ, ಹೃದಯದಾ ಹಿರಿಮೆಯನು
ಜಿಜ್ಞಾಸೆಯಿಂದಳಿಸಿದರು ಎನ್ನದಿರು. ನರನ
ಹೃದಯದೌನ್ನತ್ಯವನ್ನಿಮ್ಮಡಿಸಿರುವುದನರಿ.
ಅಂಕೆಯಂಕೆಯ ಮೀರ್ದ ನೀಹಾರಿಕಾಗಡಣ
ಗಳವೆಷ್ಟೊ ಈ ವಿಶ್ವದವಕಾಶದಲ್ಲಿ. ಬರಿ
-ಕಣವು-ತೋಲನಮಾಡೆ- ನಮ್ಮ ಬೃಹದಾಕಾಶ
-ಗಂಗೆ ತಾನ್; ಆ ಕಣಕೆ ಕಣವು ಸೌರವ್ಯೂಹ;
ಅದರೊಳಿಹುದೀ ಪೃಥ್ವಿ. ನರಹೃದಯದಾ ಭಾಸ
ಈ ಬೃಹತ್ಪೃಥ್ವಿಯೊಳು! ನರನ ಹಿರಿದಹ ಸಾಹ
-ಸವೆ ಆದ ಈ ಅರಿವು ತನ್ನಿರವ ಕಿರಿತನಕೆ
ಹೆಮ್ಮೆಪಡುತಿಹ ಹೃದಯದೌನ್ನತ್ಯದ ಪತಾಕೆ !
- - - - 

Thursday, December 22, 2011

Sanskrit blog: Humour-37

हास्यसीकरः-३७
वृद्धौ स्ववैद्ययोः विषये संलपतः स्म । प्रथमः अवदत्, भोः, तव वैद्यः विश्वासानर्हः । कस्मैचिद्रुग्णाय सः मूत्रपिण्डव्याधिनिवारणार्थं औषधानि प्रायच्छत् । स रुग्णः पित्थकोशव्याधिना मृतः खलु इति। द्वितीयः अवदत्, तव वैद्यस्य विषये किं भणसि? इति । प्रथमः प्रत्यवदत्, यदि मम वैद्यः तुभ्यं मूत्रपिण्डव्याधिनिवारणाय औषधानि प्रदास्यति, तदा त्वं निस्संशयं मूत्रपिण्डव्याधिना एव मरिष्यसि इति ।
- - - - 

Sunday, December 18, 2011

Sanskrit blog: Thus spake Confucius

कन्प्यूशियस उवाच
तवाग्रदृष्टिर्यदि वर्षसीमिता निधेहि शालिं दशवर्षसीमिता
निधेहि वृक्षान् यदि सा शताब्दिप्रान्ता सखेऽध्यापय बालकान् ध्रुवम् ॥

"If your plan is for one year, plant rice;
If your plan is for ten years, plant trees;
If your plan is for hundred years, educate children."
-Confucius

Sunday, December 11, 2011

Sanskrit blog: Humour (36)

हास्यसीकरः ३६
काचन ललना विपणिवीथ्यां गच्छन्ती विपण्यां पञ्जरस्थं शुकमेकमपश्यत् । शुकस्य सौन्दर्यमनुभवन्ती तत्रैव क्षणमात्रं तस्थौ । शुकः तामवदत्, भवति, कुरूपासु प्रथमा खलु भवती इति । अतिकुपिता सा भ्रुकुटिं कृत्वा द्रुतं स्वोद्योगाय निर्जगाम । यदा सा सायमुद्योगात् प्रतिन्यवर्तत तदापि तं शुकमपश्यत् । तदापि शुकः तामवदत्, भवति, कुरूपासु प्रथमा खलु भवती इति । परेद्युः यदा सा स्वोद्योगाय गच्छन्ती तं शुकमपश्यत्, स शुकः पुनरुवाच, भवति, कुरूपासु प्रथमा खलु भवती इति । अतीव कुपिता सा तद्विपणिं प्रविश्य आपणिकमवदत्, अयि, भोः, तव शुकः दुर्वचांसि वदति । यदि सः पुनरपि यदि तथैव कथयति अहं राजभटे अभियोगं दास्यामि इति । आपणिकः तस्याः क्षमामयाचत अवदच्च, भवति, अद्यप्रभृति सः शुकः दुर्वचांसि यथा त्वां न भणति तथा करोमि इति। सायमुद्योगात् प्रतिनिवर्तनसमये सा सकुतूहलं तं शुकमपश्यत् । तदा शुकः अवदत्, आर्ये इति । सा भ्रुकुटिं कृत्वा प्रत्यवदत्,ततः किम् । सः शुकः सगर्वमभणत्, मम कथनेन किम्? भवती वेत्ति खलु इति ।
- - - - 

Tuesday, December 6, 2011

Sanskrit blog: A prayer

प्रार्थना
इयं हि प्रार्थना भूयात् प्रत्यहं मे कृपानिधे ।
यादृशं सुखमस्त्यद्य श्वोऽस्तु मे तादृशं प्रभो ॥
Lord, Ocean of Mercy, grant me that this be my daily prayer that tomorrow be as sweet as today.
- - - - 

Saturday, December 3, 2011

Sanskrit blog: Humour (35)

हास्यसीकरः ३५
भार्या महानसे इतस्ततः परिभ्रमन्तं मक्षिकाहनने उद्यतम् भर्तारमपश्यत् ।
भार्या: किं कुरुषे?
भर्ता: मक्षिकाहनने उद्यतोऽहम् ।
भार्या: सफलः अभूः कच्चित् ?
भर्ता: निस्संशयम् । पञ्चमक्षिकाः अवधिषम् । तासु तिस्रः मक्षिकावधूः ।
भार्या: स्त्रीपुरुषविवेकः कथमभूत्?
भर्ता: सः स्पष्ट एव । तिस्रः दूरभाषायन्त्रस्य उपरि स्थिताः द्वौ मद्यचषकस्योपरि स्थितौ ।

- - - - 

Monday, November 28, 2011

Knowledge and the Dao


अवगमो ब्रह्म च
एकदावगमो ह नाम पुरुष उत्तरां दिशं प्रतस्थे । तत्र वक्तुमशक्तनामानमाससाद ।  अवगमस्तं पप्रच्छ । भोः कथं चिन्तयेयमवगन्तुं ब्रह्म । कथं वर्तयेयं यथा शान्तो भवेयं ब्रह्मणि । कथं साधयेयं ब्रह्मेति। वक्तुमशक्तो वक्तुमशक्तो वक्तुमशक्त इति वदन् वक्तुमशक्तो वै जगाम ।
प्रश्नस्योत्तरं नाधिगच्छन्नवगमः श्वेतनद्याः दक्षिणतीर एव प्रययौ असङ्गतनामानमाससाद तं पप्रच्छ च। भोः कथं चिन्तयेयमवगन्तुं ब्रह्म । कथं वर्तयेयं यथा शान्तो भवेयं ब्रह्मणि । कथं साधयेयं ब्रह्मेति। स होवाच । जानेऽहम् । वक्तुमिच्छामि । वक्तुमिच्छामि । अहो विस्मरामि । विस्मरामीति ।
प्रश्नस्योत्तरं नाधिगच्छन्नवगमो पीतवर्णमधिराजमुपससार तं पप्रच्छ च। भोः कथं चिन्तयेयमवगन्तुं ब्रह्म । कथं वर्तयेयं यथा शान्तो भवेयं ब्रह्मणि । कथं साधयेयं ब्रह्मेति। स होवाच । बुद्धिपूर्वकं न चिन्तयेथाः । तदवगमिष्यसि । बुद्धिपूर्वकं न वर्तयेथाः । तस्मिन् शान्तो भविष्यसि । बुद्धिपूर्वकं न यतेथाः। तत्साधयिष्यसीति ।
हृष्टो वै अवगम उवाच । अहो भगवन् यदावां जानीवहे तत्कथं वक्तुमशक्तासङ्गतौ न जानीत इति । अधिराजो होवाच । तौ न जानीत इति भ्रान्तस्त्वम् । तौ सत्यं जानीतः । वक्तुमशक्यो लीन एव ब्रह्मणि । असङ्गतो ब्रह्मान्तिक एव । आवयोस्त्वद्यापि ब्रह्म बहुदूरमेवेति ।
A story of Taoism 
- - - -  

Monday, November 21, 2011

Sanskrit blog: A light thought


नूतनं सुभाषितम्
द्युतिः शब्दात् प्रवहति द्रुतं तस्माद्धि केचन।
भास्वन्तः खलु दृश्यन्ते यावत् संशृणुमः न तान् ॥
Light travels faster than sound. That is why some people appear bright until you hear them speak.
- - - -

Thursday, November 17, 2011

Sanskrit blog: Humour 34

हास्यसीकरः ३४

कश्चित् दीनः याचकः पथि देवसिंहं यत्किञ्चिद्धनमयाचत ।
देवसिंहः : यदि द्वे रूप्यके तुभ्यं ददामि तदा त्वं पानशुण्डां गत्वा मद्यं क्रीणासि किम्?
याचकः : न कदाचित्, प्रभो ।
देवसिंहः : देवनगृहे धनस्य पणसे किम्?
याचकः : न कदाचित्, प्रभो ।
देवसिंहः : कृपया मया सह मद्गृहमागच्छ । मद्येन विना देवनेन विना नरस्य का अवस्था भवतीति मम भार्या पश्यतु ।
- - - - 

Saturday, November 12, 2011

Sanskrit blog: Thus spake Abraham Lincoln


अब्रहाम् लिंकन उवाच
अर्थोऽयमेव प्रजातन्त्रतायाः ।
भृत्यो भवेयं न तस्मान्न भर्ता ॥

इदं पद्यं सुचित्रानाम्नि नूतनछन्दसि बद्धम् । तस्य लक्षणो यथा ।
पञ्चमात्रागणत्रितयस्य पश्चात् ।
पादे गुरू चेत् सुचित्राभिधानम् ॥
 
As I would not be a slave, so I would not be a master. This expresses my idea of democracy. Abraham Lincoln
- - - -

Tuesday, November 8, 2011

Sanskrit blog: Humour 33

हास्यसीकरः ३३
येन चोरेण स्वगृहे भित्तिचौर्यं कृतं सः आरक्षकैः बद्धः वर्तते इति वार्तां श्रुत्वा कश्चन पुरुषः आरक्षकालयं गत्वा आरक्षकमवदत्, भोः, अहं चोरेण सह संलपितुमिच्छामि इति । आरक्षकेन किमर्थमिति पृष्टः सः प्रत्यवदत्, चोरं प्रष्टुमिच्छामि, मम भार्यां प्रबोधयन् विना रात्रिमध्यं कथं त्वं गृहं प्रवेष्टवान् । अहं चिरकालात् तथा कर्तुमशक्तोऽस्मि इति ।
- - - -

Thursday, November 3, 2011

A wise crack

सुभाषितम्
धनेन तोषः न कदाचनेति गाथास्ति सत्यं शृणु मां परंतु ।
हरे कुरु त्वं धनिनं तथा तद्यथार्थतामात्मनि साधयेयम् । ।    
All I ask is a chance to prove that money can't make me happy.
- - - - 

Saturday, October 29, 2011

Sanskrit blog: Humour 32

हास्यसीकरः ३२
केचन स्त्रियौ मिथः समलपताम्:
एका : अहं नितरां क्लान्ता । सदैव मम भर्त्रा सह कलहः संभवति । अतः मम भारः दशकिलोमितः न्यूनतरः जातः ।
अन्या : दुःखिताऽस्मि । कुतस्त्वं विवाहविच्छेदं न कुर्यात्?
एका : अधुनैव न । मम भारः अद्यापि समुचितभारात् दशकिलोमितः अधिकतर एव वर्तते ।
- - - -

Monday, October 24, 2011

Sanskrit blog: Festival lamp


उत्सवदीपः
रूपं न मे पूर्वमधः सरस्याः
कस्याश्चिदासं किल पङ्कपिण्डम् ।
चन्द्रं न सूर्यं न कदाप्यजानां
रावो हि सर्वत्र जलेचराणाम्॥ १ ॥
पद्मिन्यथैका मयि लग्नमूला
व्याजेन मन्मार्दवघोषणस्य।
पीत्वा रसं मे बहिरागता च
प्रसह्य सूर्यं खलु पर्यणैषीत् ॥ २ ॥
सूर्यांशुसंस्पर्शनरम्यलाभः
चिराय नासीन्मम मन्दभाग्यात्।
अव्यक्तहेतोः सलिलं सरस्याः
क्रमेण नष्टं जलजा हताश्च ॥ ३ ॥
रवेरपश्यं खलु तीक्ष्णरश्मीन्
क्षुद्रत्वमुर्व्याश्च तदैककाले ।  
चूर्णोऽभवं मार्दवभावहीनः
श्रुता मया निष्ठुरवाग्जनानाम् ॥ ४ ॥
कश्चिन्नरो मां किल मर्दयित्वा
पद्भ्यां अवादीन्नरमन्यमुच्चैः ।
अत्रैव पद्मं कमनीयमासीत्
तन्नाद्य खल्वित्यह मामुपेक्ष्य ॥ ५ ॥
दीर्घं विनिश्वस्य वचो निशम्य
सूर्यस्य रश्मीन् हि विगर्हमानः ।
अयापयं नैकदिनानि दीनः
सम्मर्दितो मर्त्यशतैः च पद्भिः ॥ ६ ॥
वरं जलं  जीवनधारणाय
वाय्वोः प्रभो मेऽस्तु जले हि वासः ।
इतीश्वरं प्रार्थयमानमेत्य
कृषीवलो मामनयत् तटान्तम् ॥ ७ ॥
दिनेषु गच्छत्सु सरांसि पूरयन्
दिष्ट्याऽगतः हर्षकरो हि वर्षः ।
जले मिमङ्क्षुः प्रसभं ह्यवाञ्छम्
जलप्रवृत्तिं मृदुतामवाप्तः ॥ ८ ॥
अहं तटान्ते सलिलं त्वधस्तात्
क्रूरो विधिः किं करवाण्यशोचम् ।
मां पिण्डितं कश्चन कुम्भकारः
अनाययत् हन्त गृहं सलीलम् ॥ ९ ॥
घटाश्च केचित् घटिकाश्च काश्चित्
प्राप्तं मया  दीपकरूपमत्र ।
क्लेशो गतः कापि मनोज्ञतासीत्
तप्तोऽप्यभूवं किल नष्टतापः ॥ १० ॥
स्नेहार्द्रवर्त्या प्रससार दीप्तिः
लब्धो मया  भासुरभास्करांशः ।
जानन्तु दीप्तिं न तु मां कदाचित्
इति स्पृहा कापि मयि प्रभाति ॥ ११ ॥
भूयात्तमो नाशयितुं समर्था
मद्दीप्तिवीच्युत्सवदीपपङ्क्तौ
द्युतिस्तु दृश्येत न मत्स्वरूपम्
ह्रिया विनम्रं भजतामदर्शनम् ॥ १२ ॥

उपरि प्रकटिता कविता दशवत्सराणां पूर्वं प्रकटितायाः मद्रचितायाः अस्याः कन्नडकवितायाः संस्कृतच्छाया

ದೀವಳಿಗೆಯ ಸೊಡರು
ಬಹಳ ಹಿಂದಿನ ಮಾತು, ರೂಪವಿರಲಿಲ್ಲೆನಗೆ;
ಊರಕೆರೆಯಡಿ ನಾನು ಕೆಸರ ಮುದ್ದೆ;
ನೋಡರಿಯದಿದ್ದೆ ನಾ ನೇಸರನ ಚಂದಿರನ
ಎಲ್ಲೆಲ್ಲು ಮೀನ ಮನೆಮಾತ ಸದ್ದೆ!                          (೧)

ತಾವರೆಯ ಗಿಡವೊಂದು ನನ್ನಲ್ಲಿ ಬೇರೂರಿ
ಬಯಲುಮಾಡುವೆ ನಿನ್ನ ಮಾರ್ದವವನು
ಎಂಬುವಾಸೆಯ ತೋರಿ, ನನ್ನ ರಸವನು ಹೀರಿ
ಹೊರಗೆ ಬಂದಿತು; ವರಿಸಿತಾ ರವಿಯನು.                   (೨)  

ಕಾಲ ಕಳೆಯಿತು ಇಂತೆ; ನೇಸರಿನ ಕದಿರುಗಳ
ಬಹಳ ಕಾಲದವರೆಗು ಕಾಣಲಿಲ್ಲ;
ಏಕೊ, ಏನೋ ಕಾಣೆ, ಕೆರೆಯ ನೀರಿಲ್ಲಾಯ್ತು;
ಮೀನ್ಗೆ ಮಸಣವ ತೋರಲಂಜಲಿಲ್ಲ.                           (೩)

ನೇಸರನ ಬೆಳಕ ನಾ ಕಂಡುದಂದೇ; ಅಂದೆ
ತಿರೆಯ ಕಿರಿತನವನೂ ಕಂಡೆ ನಾನು;
ಹಳೆಯ ಮಾರ್ದವವಿಲ್ಲವಾಗಿ ಪುಡಿಯಾಗಿದ್ದೆ;
ಅಂಜದೆಯೆ ಜನರ ನುಡಿಗಳ ಕೇಳಿದೆ.                        (೪)

ಯಾರೊ ಒಬ್ಬನು ನನ್ನ ತನ್ನ ಕಾಲೊಳು ತುಳಿದು
ಮತ್ತಾರ ಕೂಡೆಯೋ ಇಂತೆಂದನು,
ಸೊಗಸಾದ ತಾವರೆಯದೊಂದಿತ್ತು ಈ ಎಡೆಯೊ-
ಳೀಗಿಲ್ಲ-ಮರೆತ ತಾ ನನ್ನಿರವನು.                           (೫)

ಕೇಳಿ ಸಹಿಸಿದೆ, ಮನದೆ ನಿಟ್ಟುಸಿರ ನಾ ಬಿಟ್ಟೆ;
ಹೊಲಸು ನೇಸರ ಕಿರಣವೆಂದೆನಿಸಿತು;
ಎನಿತೊ ಕಾಲವ ಕಳೆದೆ, ಜನರ ತುಳಿತಕೆ ಸಿಕ್ಕಿ
ಯುಗಯುಗವ ಕಳೆವೆನೋ ಎಂದೆನಿಸಿತು.                   (೬)

 ಸಾಕು ಗಾಳಿಯ ಬಾಳು, ನೀರ ಬಾಳೇ ಲೇಸು,
ಮುಗಿಸಿದನು ನೀಡದನು, ಎಂದೆಂದೆನು.
ಮತ್ತೊರ್ವನಾವನೋ ತನ್ನ ಹೊಲಗಳಿಗೆಂದು
ದಯೆಯಿಲ್ಲದೆಯೆ ನನ್ನ ದಡಕೆಳೆದನು.                        (೭)

ಸಾಗಿತಿಂತೇ ಬಾಳು; ಮಳೆಗಾಲ ಬಂದಿತ್ತು;
ಕೆಳಗೆ ನೀರಿನ ಬಾಳು ಕರೆದಿದ್ದಿತು.
ಮಾರ್ದವತೆ ಬಂದಿತ್ತು; ನೀರೊಳಗಿನಾ ಬಾಳ
ಸವಿಯಬೇಕೆಂದು ಮನ ಹಾತೊರೆಯಿತು.                    (೮)

ನೀರ ಬಾಳಿಲ್ಲಾಯ್ತು; ಅದು ಕೆಳಗೆ ನಾ ಮೇಲೆ;
ಬಾಳ ಸಂತಸ ಮುಗಿಯಿತೆಂದೆನಿಸಿತು;
ಕುಂಬಾರನಂತವನು-ನನ್ನ ಮುದ್ದೆಯ ಮಾಡಿ
ಮನೆಗೊಯ್ದ, ಮನವೇಕೊ ಹಗುರಾಯಿತು.                   (೯)

ಎಷ್ಟೊ ಮಡಕೆಗಳಲ್ಲಿ, ಎಷ್ಟೊ ಹಂಚುಗಳಲ್ಲಿ;
ನನ್ನ ಪಾಲಿಗೆ ಬಂತು ದೀಪರೂಪ;
ನನ್ನ ಬಾಳಲಿ ಪಟ್ಟ ದುಗುಡ ಹಗುರಾಗಿತ್ತು.
ತಪ್ತನಾದರೇನು? ವಿಗತತಾಪ!                             (೧೦)

ಸ್ನೇಹಾರ್ದ್ರವಾಯ್ತು ಮನ, ಹೊರಟಿತೈ ನಲ್ಬೆಳಕು
ಸೂರ್ಯಾಂಶವನ್ನೆ ನಾ ಪಡೆದಿರುವೆನು;
ಬೆಳಕ ಮರೆಯಲಿ ಬಿಡಲಿ, ನನ್ನನರಿಯದೆ ಇರಲಿ
ಎಂಬುದೊಂದರಿವ ನಾ ಪಡೆದಿರುವೆನು.                     (೧೧)

ಕತ್ತಲೆಯನಡಗಿಸಲು ದೀಪದಾವಳಿಯಲ್ಲಿ
ನನ್ನ ಬೆಳಕಿನ ಶಕ್ತಿಯಲೆಯಾಗಲಿ.
ಬೆಳಕು ಕಾಣಲಿ, ಬೆಳಕ ಹಿಡಿದ ಈ ಕಿರಿಹಣತೆ
ನಾಚಿ ತಲೆ ತಗ್ಗಿಸಲಿ, ಕಾಣದಿರಲಿ                            (೧೨)

- - - -

Sunday, October 23, 2011

Sanskrit blog: Humour-31

हास्यसीकरः-३१
प्रसिद्धलेखकः जार्ज् बर्नार्ड् षावर्यः कदाचित् प्रसिद्धराजनयप्रसक्ताय विन्स्टन् चर्चिलाय आत्मनः नाटकस्य प्रथमप्रदर्शनं द्रष्टुं प्रवेशपत्रं प्राहिणोत् । चर्चिलः षावर्याय उत्तरपत्रमलिखत् , अनुगृहीतोऽस्मि । परंतु अनवधानात् प्रथमप्रदर्शनं द्रष्टुं न शक्नोमि । भवतः नाटकस्य द्वितीयप्रदर्शनं भवेद्यदि अहं तद्द्रष्टुमिच्छुः अस्मि । अभिभूतः षावर्यः द्वितीयप्रदर्शनार्थं चर्चिलाय द्वे प्रवेशपत्रे प्राहिणोत् इत्थमलिखच्च, महोदय, द्वे प्रवेशपत्रे प्रेषिते । यदि भवतः कोऽपि सुहृत् भवेत् तमपि आनयतु इति ।
- - - -

Thursday, October 20, 2011

Sanskrit blog: A Sufi saying.

सूफ़ि-सुभाषितम्
यदि नरकभयात्त्वां प्राप्नुयां हे प्रभो मां
प्रहिणु नरकमेव स्वर्गकामो व्रजेयं ।
भवतु मम निषिद्धः स्वर्गमार्गो यदि त्वाम्
अनुभवितुमहमिच्छुः स्वीकुरु त्वं द्रुतं माम् ॥
On the lines of the following Sufi thought:
If I adore You out of fear of Hell, burn me in Hell!
If I adore you out of desire for Paradise,
Lock me out of Paradise.
But if I adore you for Yourself alone,
Do not deny to me Your eternal beauty. 
-       Rabia
- - - - 

Saturday, October 15, 2011

Sanskrit blog: Nobel prize for physics

भौतशास्त्रज्ञानां नोबेल्-कीर्तिमुद्रा
ज्योतिर्भौतशास्रज्ञाः विश्वं १३.७ अब्जवर्षदेशीयमिति आमनन्ति । विश्वस्वस्य सप्तत्युत्तरं शतं कापि नीलोर्जा इत्याह्वया ऊर्जा भवति । अस्य पञ्चविंशत्युत्तरं शतं किमपि नीलद्रव्यमित्याह्वयं द्रव्यं भवति । केवलं पञ्चोत्तरं शतं सर्वैः परिगण्यमानं सामान्यद्रव्यं भवति यस्मिन् सूर्यमण्डलादीनि सर्वाणि ज्योतिर्वस्तूनि अन्तर्गतानि । विश्वं विस्तरत् दृश्यते इति विज्ञैः चिरं विदितमेव । नीलोर्जा विश्वविस्तरणवेगं विवर्धमानं कुरुते परं तु नीलद्रव्यं विश्वविस्तरणवेगं अपचीयमानं कुरुते । नीलोर्जा नीलद्रव्यात् बलीया दृश्यते । अतः  विश्वविस्तरणवेगः विवर्धमान एव दृश्यते । एतं विषयमधिकृत्य संशोधनं कृतवन्तः त्रयः विज्ञानिनः साल् पर्ल्मुत्तर्-ब्रियान् ष्मिट्-अडम् रीस् इत्याह्वयाः नोबेल्-कीर्तिमुद्रया अस्मिन् वर्षे पुरस्कृताः । 
- - - -

Tuesday, October 11, 2011

Sanskrit blog: Humour-30

हास्यसीकरः_३०
बालकेन सह पुरुष एकः श्मश्रुवर्धकविपणिं प्रविष्टः । पुरुषः श्मश्रुसंस्कारपीठमारुरोह । श्मश्रुवर्धकः तस्मै यथाविधि श्मश्रुसंस्कारं कृतवान् च । तदनन्तरं पुरुष अवदत्, भोः, इदानीं अस्मै बालकाय श्मश्रुसंस्कारं भवान् करोतु । अत्रान्तरे कार्यमन्यं कृत्वा पुनरागच्छामि । पुरुषः निर्गतश्च । श्मश्रुवर्धकः पुरुषस्य वचः संमान्य बालकस्य श्मश्रुसंस्कारं कृत्वा बालकमवदत्, बाल, अत्रैव तव पित्रे प्रतीक्षस्व । शीघ्रमेव आगमिष्यति इति । बालकः अवदत्, सः मम पिता न भवति । मार्गे मां दृष्ट्वा अवदत्, तव श्मश्रुसंस्कारं कारयामि। मया सह आगच्छ इति । अतः तेन सह अहमागतः इति । वञ्चितः श्मश्रुवर्धकः पुरुषस्य बालकस्य च श्मश्रुसंस्कारं मूल्यं विनैव अकरोत् खलु ।
- - - - 

Friday, October 7, 2011

Steve Jobs and India


स्टीव्-जाब्सः भारतश्च
स्टीव्-जाब्सः अध्यात्मजिज्ञासुः आत्मनः पूर्ववयसि निम्बकरोलीबाबाइत्याह्वयस्य कस्यचन साधोः आश्रमं गन्तुं भारतमागच्छत् । जाब्सः परंतु तेन साधुना सह सम्मेलितुं न शशाक यतः सः साधुः प्रागेव उपरतः आसीत् ।
भारतागमनात् पूर्वं अमेरिकायामपि स्वपित्रोः स्वविद्यार्थं धनव्ययमसहमानः यदा पाठशालामत्यजत् तदा निर्धनः सः असकृत् हरेरामहरेकृष्णसंस्थायाः भोजनालये अशनं स्वीकर्तुं जगाम । सः महात्मानं गान्धिं बह्वमन्यत च ।  
सः केनचिद्वयस्येन सह भारते पर्याट । हिमालयेषु विहर्तुमस्मद्देशवस्त्राणि परिदधानौ यत्रकुत्रापि शयानौ अस्मद्देशखाद्यानि खादन्तौ चेरतुः । यूकपीडितौ अतिसारखर्जूबाधितौ च बभूवतुः । चोराः तयोः धनमपाहरन् । तदा तौ टिब्बट्-देशजिगमिषू अनवाप्तकामौ अमेरिकां प्रत्याजग्मतुः ।
- - - - 

Wednesday, October 5, 2011

Sanskrit blog: Humour-29

हास्यसीकरः-२९
कदाचन कानिचन मित्राणि सपणमदीव्यन् । तेषु ब्रह्मदत्तो नाम देवने पराजितः पञ्चसहस्ररूप्यकमितं धनहानिमवाप्तवान् हृदयाघातेन तत्रैव मृतिमगाच्च। इतराणि मित्राणि शोकसूचनार्थमुत्थाय पुनः देवने निरताण्यभवन् । देवनान्ते एकः अवदत्, अस्मासु कः ब्रह्मदत्तस्य पत्न्यै दुखवार्तां निवेदयति? इति । अन्यः देवदत्त नामा अवदत्, अहं समीक्ष्य कौशलेन यथा सा भृशं न क्लिश्यते तथा स्तोकं निवेदयामि इति । सः ब्रह्मदत्तस्य गृहं गत्वा ब्रह्मदत्तस्य भार्यामवदत्, भवति, भवत्याः भर्ता अद्य देवने रूप्यकानां पञ्चसहस्रात् च्युतः इति । सा भ्रुमुटिं कृत्वा झटित्यवदत्, वद तं मृतिं यातु इति । देवदत्तः प्रसह्य भवति तथैव निवेदयामि इति वदन् तस्याः गृहात् निष्क्रान्तः ।    
- - - -

Saturday, October 1, 2011

Sanskrit blog: Mahatma Gandhi and the pin

महात्मा गान्धिः पत्रकीलश्च
महात्मा गान्धिः विदेशादानीतानि वस्तूनि न क्रेतव्यानि इति अभियानमकरोत् खलु । एतस्मादभियानात् इंग्लंड्देशीयाः बहवः कुपिता आसन् ।  अत्रान्तरे गान्धिः वर्तुलमञ्चसम्मेलने भागं ग्रहीतुं भारतात् नौयाने इंग्लंड्देशं गच्छति स्म । कश्चन इंग्लंड्देशीयः नौयाने गान्धिं दृष्ट्वा एतद्विषये वादं चिकीर्षुः गान्धिना सह सममिलत् । कुतः गान्धेः विदेशवस्तुबहिष्करणं न समीचीनमिति वादमधिकृत्य बहुपृष्ठमितं पत्रमेकं विलिख्य तत्पत्रं गान्धये समर्प्य तत् पठितुं प्रार्थयत् । गान्धिः तत् पठित्वा स्वानङ्गीकरणसूचनार्थं शिरः प्रकम्प्य पत्रं तस्मै प्रतिददौ । तदा सः विदेशीयः अवदत्, महोदय, भवता तत्र यत्किञ्चिदुपयुक्तं भाव्यते तदङ्गीकरोतु  इति । गान्धिः स्मयमानः पत्रात् पत्रकीलमुत्पाट्य तं पत्रकीलं स्वीकृत्य पत्रपृष्ठानि तस्मै विदेशीयाय प्रत्यर्पयत् ।
- ---