Wednesday, October 5, 2011

Sanskrit blog: Humour-29

हास्यसीकरः-२९
कदाचन कानिचन मित्राणि सपणमदीव्यन् । तेषु ब्रह्मदत्तो नाम देवने पराजितः पञ्चसहस्ररूप्यकमितं धनहानिमवाप्तवान् हृदयाघातेन तत्रैव मृतिमगाच्च। इतराणि मित्राणि शोकसूचनार्थमुत्थाय पुनः देवने निरताण्यभवन् । देवनान्ते एकः अवदत्, अस्मासु कः ब्रह्मदत्तस्य पत्न्यै दुखवार्तां निवेदयति? इति । अन्यः देवदत्त नामा अवदत्, अहं समीक्ष्य कौशलेन यथा सा भृशं न क्लिश्यते तथा स्तोकं निवेदयामि इति । सः ब्रह्मदत्तस्य गृहं गत्वा ब्रह्मदत्तस्य भार्यामवदत्, भवति, भवत्याः भर्ता अद्य देवने रूप्यकानां पञ्चसहस्रात् च्युतः इति । सा भ्रुमुटिं कृत्वा झटित्यवदत्, वद तं मृतिं यातु इति । देवदत्तः प्रसह्य भवति तथैव निवेदयामि इति वदन् तस्याः गृहात् निष्क्रान्तः ।    
- - - -

No comments:

Post a Comment