Friday, October 7, 2011

Steve Jobs and India


स्टीव्-जाब्सः भारतश्च
स्टीव्-जाब्सः अध्यात्मजिज्ञासुः आत्मनः पूर्ववयसि निम्बकरोलीबाबाइत्याह्वयस्य कस्यचन साधोः आश्रमं गन्तुं भारतमागच्छत् । जाब्सः परंतु तेन साधुना सह सम्मेलितुं न शशाक यतः सः साधुः प्रागेव उपरतः आसीत् ।
भारतागमनात् पूर्वं अमेरिकायामपि स्वपित्रोः स्वविद्यार्थं धनव्ययमसहमानः यदा पाठशालामत्यजत् तदा निर्धनः सः असकृत् हरेरामहरेकृष्णसंस्थायाः भोजनालये अशनं स्वीकर्तुं जगाम । सः महात्मानं गान्धिं बह्वमन्यत च ।  
सः केनचिद्वयस्येन सह भारते पर्याट । हिमालयेषु विहर्तुमस्मद्देशवस्त्राणि परिदधानौ यत्रकुत्रापि शयानौ अस्मद्देशखाद्यानि खादन्तौ चेरतुः । यूकपीडितौ अतिसारखर्जूबाधितौ च बभूवतुः । चोराः तयोः धनमपाहरन् । तदा तौ टिब्बट्-देशजिगमिषू अनवाप्तकामौ अमेरिकां प्रत्याजग्मतुः ।
- - - - 

2 comments:

  1. atra पर्याट kaH lakAraH?

    ReplyDelete
  2. paryaaTa = pari + aaTa
    aaTa - liT lakAraH of aT, 1 P, aTati
    See http://vedabase.net/a/atati for some uses.

    ReplyDelete