Saturday, October 15, 2011

Sanskrit blog: Nobel prize for physics

भौतशास्त्रज्ञानां नोबेल्-कीर्तिमुद्रा
ज्योतिर्भौतशास्रज्ञाः विश्वं १३.७ अब्जवर्षदेशीयमिति आमनन्ति । विश्वस्वस्य सप्तत्युत्तरं शतं कापि नीलोर्जा इत्याह्वया ऊर्जा भवति । अस्य पञ्चविंशत्युत्तरं शतं किमपि नीलद्रव्यमित्याह्वयं द्रव्यं भवति । केवलं पञ्चोत्तरं शतं सर्वैः परिगण्यमानं सामान्यद्रव्यं भवति यस्मिन् सूर्यमण्डलादीनि सर्वाणि ज्योतिर्वस्तूनि अन्तर्गतानि । विश्वं विस्तरत् दृश्यते इति विज्ञैः चिरं विदितमेव । नीलोर्जा विश्वविस्तरणवेगं विवर्धमानं कुरुते परं तु नीलद्रव्यं विश्वविस्तरणवेगं अपचीयमानं कुरुते । नीलोर्जा नीलद्रव्यात् बलीया दृश्यते । अतः  विश्वविस्तरणवेगः विवर्धमान एव दृश्यते । एतं विषयमधिकृत्य संशोधनं कृतवन्तः त्रयः विज्ञानिनः साल् पर्ल्मुत्तर्-ब्रियान् ष्मिट्-अडम् रीस् इत्याह्वयाः नोबेल्-कीर्तिमुद्रया अस्मिन् वर्षे पुरस्कृताः । 
- - - -

No comments:

Post a Comment